भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.2

1.2.1

ऋषय ऊचुः
कथं सनत्कुमारस्तु नारदाय महात्मने ।
प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ

1.2.2

कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ ।
हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः

1.2.3

सूत उवाच
सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः ।
निर्ममा निरहंकाराः सर्वे ते ह्यूध्वरेतसः

1.2.4

तेषां नामानि वक्ष्यामि समकश्च सनन्दनः ।
सनस्फुमारश्च विभुः सनातम इति स्मृतः

1.2.6

विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः ।
सहस्रसूर्यसंकाशाः सत्यसन्धा मुमुक्षवः ॥ नर्प्_1,2. 5॥
एकदा मेरुशृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् ।
इष्टं मार्गे ऽथ ददृशुः गङ्गां विष्णिपदीं द्विजाः

1.2.7

तां निरीक्ष्य समुद्युक्ताः स्त्रातुं सीताजले ऽभवन् ।
एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः

1.2.8

आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रान्तॄन्स्वकाग्रजान् ।
तान्दृष्ट्वा स्त्रातुमुद्युक्तान्नमस्कृत्य कृताञ्जितिः

1.2.9

गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः ।
नारायणाच्युतानन्त वासुदेव जनार्दन

1.2.10

यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमो ऽस्तु ते ।
पद्माक्ष कमलाकान्त गङ्गाजनक केशव ।
क्षिरोदशायिन्देवेश दामोदर नमो ऽस्तु ते

1.2.11

श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसंकर्पण वात्पदेव ।
अजानिरुद्धामलरुङ्मुरारं त्वं पाहि नः सर्वभयादजस्त्रम्

1.2.12

इत्युच्च रन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् ।
उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः

1.2.13

ते षां चापि तु सीताया जले लोकमलाप हे ।
स्त्रात्वा संतर्त्य देवर्षिपितन्विगतकल्मषाः

1.2.14

उत्तीर्य्य संध्योपास्त्यादि कृत्वाचारं स्वकं द्विजाः ।
कथां प्रचक्रुर्विविधाः नारायण गुणाश्रिताः

1.2.15

कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे ।
चकारनारदः प्रश्नं नानाख्यानकयान्तरे

1.2.16

नारद उवाच
सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः ।
यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः

1.2.17

लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् ।
पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः

1.2.18

येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ।
गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः

1.2.19

कथं च त्रिविधं कर्म सफलं जायते नृणाम् ॥
ज्ञानस्य लक्षण ब्रूत तपसश्चापि मानदाः

1.2.21

अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ।
एवमादीनि गुह्यानि हरितुष्टिकराणि च ।
अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ नर्प्_1,2. 20 ॥
शौनक उवाच
नमः पराय देवाय परस्मात्परमात्र च ।
परावर निवासाय सगुणायागुणाय च

1.2.22

अमायायात्मसंज्ञाय माचिने विश्वरुपिणे ।
योगीश्वराय योगाय योगगम्याय विष्णवे

1.2.23

ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे ।
ज्ञाचेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसंपदे

1.2.24

ध्यानाय ध्यानगम्याय ध्यातृपातहराय च ।
ध्यानेश्वराय सुधियेध्येयध्यातृस्वरुपिणे

1.2.25

आदित्यवचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः ।
यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतो ऽस्मि

1.2.26

यो ब्रह्मरुपी जगतां विधाता स एव पाता द्विजविष्णुरुपी ।
कल्पान्तरुद्राख्यतमुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि

1.2.27

यन्नामसंकीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः ।
विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये

1.2.28

शिवस्वरुपी शिवभक्ति भाजां यो विष्णुरुपी हरिभावितानाम् ।
संकल्पपूर्वात्मकदेहहेतुस्तंस्तमेव नित्यं शरणं प्रपद्ये

1.2.29

यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् ।
देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतो ऽस्मि

1.2.30

लेभे ऽवतीर्योग्रनृसिंहरुपीयोदैत्यवक्षः कठिनं शिलावत् ।
विदार्यसंराक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं मनामि

1.2.31

व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् ।
जगद्विधातारमकर्मकं च परं पुराणं पुरुषम नतो ऽस्मि

1.2.32

ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसंघैः ।
स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मा नमहं भजामि

1.2.33

यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै ।
यस्मिन्नेष्यति पश्चाच्च तमस्ति शरणं गतः

1.2.34

यः स्थितो विश्वरुपेण सङ्गीवात्र प्रतीयते ।
असङ्गी परिपूर्णश्च तमस्मि शरणं गतः

1.2.35

हृदि स्थितो ऽपि यो देवो मायया मोहितात्मनाम् ।
न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः

1.2.36

सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् ।
सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः

1.2.37

दधार मन्दारं पृष्टे निरोदे ऽमृतमन्थने ।
देवतानां हितार्थाय तं कूर्मं शरणं गतः

1.2.38

द्रष्ट्राङ्कुरेण यो ऽनन्तः समुद्धृत्यार्णवाद्धराम् ।
तस्थाविदं जगत्कृत्स्नं वाराहं तं नतो ऽस्म्यहम्

1.2.39

प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् ।
विदार्य हतवान्यो हि तं नृसिंहं नतो ऽस्म्यहम्

1.2.40

लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः ।
आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतो ऽजितम्

1.2.41

हैहयस्यापराधेन ह्येकविंशतिसंख्यया ।
क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतो ऽस्मि तम्

1.2.42

आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ।
हतवान्राक्षसानीकं रामचन्द्रं नतो ऽस्म्यहम्

1.2.43

मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च ।
संजहार कुलं स्वं यस्तं श्रीकृष्णप्यहं भजे

1.2.44

भूम्यादिलोकत्रितयं संतृत्पात्मानमात्मनि ।
पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम्

1.2.45

युगान्ते पापिनो शुद्धान्भित्त्वा तीक्ष्णसुधारया ।
स्थापयामास यो धर्मं कृतादौ तन्नमाम्यहम्

1.2.46

एवमादीन्यनेकानि यस्य रुपाणि पाण्डवाः ।
न शक्यं तेन संख्यातुं कोट्यब्दैरपि तं भजे

1.2.47

महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः ।
देवासुराश्च मनवः कथं तं श्रुल्लको भजे

1.2.48

यन्नामश्रवणेनापि महापातकिनो नराः ।
पवित्रतां प्रपद्यन्ते त कथं स्तौमि चाल्पधीः

1.2.49

यथाकथञ्चिद्यन्नम्नि कीर्तिते वा श्रुते ऽपि वा ।
पापिनस्तु विशुद्धाः स्युः शद्धा मोक्षमवान्पुयुः

1.2.50

आत्मन्यात्मानमाधाय योगिनो गतकल्मशाः ।
पश्यन्ति यं ज्ञानरुपं तमस्मि शरणं गतः

1.2.51

साङ्ख्याः सर्वेषु पश्यन्ति परिपूरणान्तकं हरिम् ।
तमादिदेवमजरं ज्ञानरुपं भजाम्यहम्

1.2.52

सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् ।
सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम्

1.2.53

यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् ।
दशाङ्गुलं यो ऽत्स्यतिष्टत्तमीशमजरं भदे

1.2.54

अणोरणीयांसमजं महतश्च महत्तरम् ।
गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः

1.2.55

ध्यातः स्मृतः पूजितो वा शृतः प्रणमितो ऽपि वा ।
स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम्

1.2.56

इति स्तुवन्तं परमं पेरेशं हर्षाम्बुसंरुद्धविलोचनास्ते ।
मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रपुदं प्रजग्मुः

1.2.57

य इदं प्रातरुत्याय पाठेद्वै पौरुपं स्तवम् ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc