भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.21

1.21.1

इति श्रबृहन्नारदीयपराणे पूर्वभागे प्रथमपादे सुमतिभूपकथावर्णनं नाम विंशऽध्यायः
सनक उवाच
अन्यद्वूतं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम्

1.21.2

नारीणां च नराणां च सर्वदुःखनिवारणम् ।
धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम

1.21.3

सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदम् ।
मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः

1.21.4

कुर्यात्स्नानादिकं कर्म दन्तधावनपूर्वकम ।
कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान्

1.21.5

एकाशी च भवेत्तस्मिन् दिने नियममास्थिताः ।
ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः

1.21.6

स्नानं कृत्वा यथाचारं हरिं चैवार्यदृहे ।
स्नापयेद्देवदेवेशं पञ्चामृतविधानतः

1.21.7

अर्चयेत्परया भक्त्या गन्धपुष्पादिभिः ऋमात् ।
धूपैर्दीपेश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः

1.21.8

संपूज्य देवदेवेशमिमं मन्त्रमुदीरयेत् ।.
नमस्ते घज्ञानरुपाय ज्ञानदाय नमो ऽस्तुते

1.21.9

नमस्ते स्रवपरुपाय सर्वसिद्धिप्रदायिने ।
एवं प्रणम्य देवेशं वासुदेवं जनार्जनम्

1.21.10

वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत् ।
पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव

1.21.11

त्वदज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव ।
एवं समप्य देवस्य उपवासं जितेन्द्रियः

1.21.12

रात्रौ जागरणं कुर्यादेकादश्यामथो द्विज ।
द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः

1.21.13

पौर्णनमास्यां च कर्त्तव्यमेवं विष्ण्वर्चनं मुने ।
एकादश्यां पौर्णमास्यां कर्त्तव्यं जागरं तथा

1.21.14

पञ्चामृतादिपूजा तु सामान्या दिनपञ्चसु ।
क्षीरेण स्नापयेद्विष्णुं पौर्णमास्यां तु शक्तितः ।
तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च

1.21.15

ततः षष्टे दिने प्रात्पे निर्वत्यं स्वाश्रमक्रियाम् ।
संप्राश्य पञ्चगव्यं च पूजयेद्विधिबद्धरिम्

1.21.16

ब्राह्मणान्भोजयेत्पश्चाद्विभवे सत्यवारितम् ।
ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः

1.21.17

एवं पौपादिमासेषु कार्त्तिकान्तेषु नारद ।
शुक्लपक्षे व्रतं कुर्यात्पूर्वमिवविधिना नरः

1.21.18

एवं संवत्सरं कार्यं व्रतं पापप्रणाशनम् ।
पुनः प्रात्पे मार्गशीर्षे कुर्यादुद्यपनं व्रती

1.21.19

द्विज ।
एकादश्यां निराहारो भवेत्पूर्वमिव द्विज ।
द्वादश्यां पञ्चगव्यं च प्राशयेत्सुसमाहितः

1.21.20

गन्धपुष्पा दिभिः सम्यग्देवदेवं जनार्दनम् ।
अभ्यर्च्योपायनं दद्याद्रूह्यणाय जितेन्द्रियः

1.21.21

पायसं मधुसंमिश्रं घृतयुक्तं फलान्वितम् ।
सुगन्धज लसंयुक्तं पूर्णकुम्भं सदक्षिणम्

1.21.22

वस्त्रेणाच्छादितं कुम्भं पञ्चरन्तसमन्वितम् ।
दद्यादध्यात्मविदुषे ब्राह्मणाय मुनीश्वर

1.21.23

सर्वात्मन् सर्वभूतेश सर्वव्यापिन्सनातन ।
परमान्नप्रदानेन सुप्रीतो भव माधव

1.21.24

अनेन पायसं दत्त्वा ब्राह्मणान्भोजयेत्ततः ।
शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः

1.21.25

व्रतमेतत्तु यः कुर्याद्धरिपञ्चकसंज्ञितम् ।
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कदाचन

1.21.26

व्रतमेतत्प्रकर्त्तव्य मिच्छद्भिर्मोक्षमुत्तम् ।
समस्तपापकान्तारदावानलसमं द्विज

1.21.27

गवां कोटिसहस्राणि दत्त्वा यत्फलमाप्नुयात् ।
तत्फलं लभ्यते पुम्भिरेतस्मा दुपवासतः

1.21.28

यस्त्वेतच्छृणुयाद्भक्त्या नारायणपरायणः ।
स मुच्यते महाघोरैः तापकानां च कोटिभिः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc