भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.20

1.20.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने ध्वजारोपणन्नामैकोनविंशो ऽध्यायः
नारद उवाच
भगवन्सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
सर्वकर्मवरिष्टं च त्वयोक्तं ध्वजधारणम्

1.20.2

यस्तु वै सुमतिर्नाम ध्वजारोपपरो मुने ।
त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश

1.20.3

सनक उवाच
शृणुष्वैकमनाः पुण्यमितिहासं पुरातनमम् ।
ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम्

1.20.4

आसीत्पुरा कृतयुगे सुमतिर्नाम भूपतिः ।
सोमवंशोद्भवः श्रीमान्सत्पद्वीपैकनायकः

1.20.5

धर्मात्मा सत्यसंपन्नः शुचिवंश्यो ऽतिथिप्रियः ।
सर्वलक्षणसंपन्नः सर्वसंपद्विभूषितः

1.20.6

सदा हरिकथासेवी हरिपूजापरायणः ।
हरिभक्तिपराणां च शुश्रूषुर्निरहॄङ्कृतिः

1.20.7

पूज्यपूजारतो नित्यं समदर्शी गुणान्वितः ।
सर्वभूतहितः शान्तः कृतज्ञः कीर्तिमांस्तथा

1.20.8

तस्य भार्या महाभागा सर्वलक्षणसंयुता ।
पतिव्रता पतिप्राणा नाम्रा सत्यमतिर्मुने

1.20.9

तादुभौ दम्पतू नित्यं हरिपूजापरायणौ ।
जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ

1.20.10

अन्नदानरतौ नित्यं जलदानपरायणौ ।
तडागारामवप्रादौ नसंख्यातान्वितेनतुः

1.20.11

सा तु सत्यमतिर्नित्यं शुचिर्विष्णुगृहे सती ।
नृत्यत्यत्यन्तसन्तुष्टा मनोज्ञा सञ्जुवादिनी

1.20.12

सो ऽपि राजा महाभागो द्वादशीद्धादशीदिने ।
ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम्

1.20.13

एवं हरिपरं नित्यं राजानं धर्मकोविदम् ।
प्रिमां मत्यमतिं चाम्य देवा अपि सदास्तुवन्

1.20.14

त्रिलोके विश्रुतौ ज्ञात्वा दम्पती धर्मको विदौ ।
आययौ बहुभिः शिप्यैर्द्रष्टुकामो विभाण्डकः

1.20.15

तमायान्तं मुनिं श्रुत्वा स तु राजा विभाण्डकम् ।
प्रत्युद्ययौ सपत्नीकः प्रजा भिर्बहुविस्तरम्

1.20.16

कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम् ।
नीचासनस्थितो भूयः प्राञ्जलिर्मुनिमब्रवीत्

1.20.17

राजोवाच
भगवन्कृतकृत्यो ऽस्मिं त्वदभ्यागमनेन वें ।
सतामायमनं सन्तं प्रशंसन्ति सुरवावहम्

1.20.18

यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः ।
तेजः कीर्तिर्धनं पुत्रा इति प्रहुर्विपश्चितः

1.20.19

तत्र वृद्धिमुपायान्ति थेयांस्यनुदिनं मुने ।
यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो

1.20.20

यो मृर्ध्नि धाग्येदूह्यन्महत्पादजलं रजः ।
स स्नातः सर्वतीर्थेषु पुण्यात्मा नात्र संशयः

1.20.21

मम पुत्राश्च दाराश्च संपत्त्वयि समर्पिताः ।
मामाज्ञापय विप्रेन्द्र किं प्रियं करवाणि ते

1.20.22

विनञ्चवनतं भूपं स निरीक्ष्य मुनीशअवरः ।
स्पृशषन्करेण तं प्रीत्युवाचातिहर्षितः

1.20.23

ऋषिरुवाच
गजन्यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम् ।
विनयावनतः सर्वो बहुश्रेयो लभेदिह

1.20.24

धर्मश्चार्थश्च कामश्च मोक्षश्च नृपसत्तम ।
विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनाम्

1.20.25

प्रीतो ऽस्मि तव भापाल सन्मार्गपरिवर्त्तिनः ।
स्वस्ति ते सततं भूयाद्यत्पृच्छामि तदुच्यताम्

1.20.26

पूजा बहुविधाः सन्ति हस्तुष्टिविधायिकाः ।
तासु नित्यं ध्वजारोपे वर्त्त्से त्वं सदोद्यतः

1.20.27

भार्यापि तव साध्वीयं नित्यं नृत्यपरायणा ।
किमर्थमेतद्वृत्तान्तं यथावद्वक्तुमर्हसि

1.20.28

राजोवाच
शृणुष्व भगवन्सर्वं यत्पृच्छसि वदामि तत् ।
आश्चर्यभूतं लोकानामावयोश्चरितं त्विह

1.20.29

अहमासं पुरा शूद्रो मालिनिर्नाम सत्तम ।
कुमार्गगनिरतो नित्यं सर्वलोकाहिके रतः

1.20.30

पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः ।
गोध्नश्च ब्रह्महा चौरः सर्वप्राणिवधे रतः

1.20.31

नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः ।
एवं स्थितः कियत्कालमनाहत्यं महदृचः

1.20.32

सर्वबन्धुपरित्यक्तो दुःखी वनमुपागतः ।
मृगमांसाशनो नित्यं तथा पान्थाविल्लम्पकः

1.20.33

एकाकी दुःखबहुलो न्यवसन्निर्जने वने ।
एकदा क्षुत्परिश्रान्तो निदाघार्त्तः पिपासितः

1.20.34

जीर्णं देवालयं विष्णोरपश्यं विजने वने ।
हंसकारण्डवाकीर्णं तत्समीपे महत्सरः

1.20.35

पर्यन्तवनपुष्पौघच्छादितं तन्मुनीश्वर ।
अपिबं तत्र पानीयं तत्तीरे विगतश्रमः

1.20.36

फलानि जग्ध्वा शीर्णानि स्वयं क्षुच्च निवारिता ।
तस्मिञ्जीर्णीलये विष्णोनर्निवासं कृतकवानहम्

1.20.37

जीर्णस्फुटितसंधानं तस्य नित्यमकारिषम् ।
पर्णैस्तृणैश्च काष्ठैघैर् गृहं सम्यक् प्रकल्पितम्

1.20.38

स्वसुराराथं तु तद्भमिर्मया लित्पा मुनीश्वर ।
तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मृगान्

1.20.39

आजीवं वर्तय न्नित्यं वर्षाणां विंशतिः स्थितः ।
अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा

1.20.40

निषादकुलजा विप्रा नान्मा ख्याता।ञवकोकिला ।
बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहा

1.20.41

क्षुत्तृड्घर्मपरिश्रान्ता शोचन्ती स्वकृतं ह्यघम् ।
दैवयोगाकत्समायाताभ्रमन्ती विजने वने

1.20.42

ग्रीष्मतापार्द्दिता बाह्ये स्वान्ते चाधिनिपूडिता ।
इमां दुःखार्दितां दृष्ट्वा जाता मे विपुला दया

1.20.43

दत्तं मया जलं चास्यै मांसं वन्यफलानि च ।
गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तयम्

1.20.44

अवेदयत्स्ववृत्तान्तं तच्छृणुष्व महामुने ।
नान्मावकोकिला चाहं निषादकुलसभ्भवा

1.20.45

दारुकस्य सुता चाहं विन्ध्यपर्वतवासिनी ।
परस्वहारिणी नित्यं सदा पैशुन्यवादिनी

1.20.46

पुंश्चलूत्येवमुक्त्वा तु बन्धुवर्गैः समुज्झिता ।
कियत्कालं ततः पत्या भृताहं लोकनिन्दिता

1.20.47

दैवात्सो ऽपि गतो लोकं यमस्यात्र विहाय माम् ।
कान्तारे विजने चैका भ्रमन्ती दुःखपीडिता

1.20.48

दैवात्त्वत्सविधं प्रात्पा जीविताहं त्वयाधुना ।
इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयत्

1.20.49

ततो देवालये तस्मिन्दमपतीभावमाश्रितौ ।
स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ

1.20.50

एकदा मद्यपानेन प्रमत्तौ निर्भरैमुने ।
तत्र देवालये राघत्रौ मुदितौ मांसभोजनात्

1.20.51

तनुवस्त्रापरिज्ञानौ नृत्यं चकृव मोहितौ ।
प्रारब्धकर्म भोगान्तमावां युगपदागतौ

1.20.52

यमदूतास्तदायाताः पाशहस्ता भयङ्कराः ।
नेतुमावां नृत्यरतौ सुधोरां यमयातनाम्

1.20.53

ततः प्रसन्नो भगवान्कर्मणा मम मानद ।
देवावसथसंस्कारसंज्ञितेन कृतेन नः

1.20.54

स्वदूतान्प्रेपयामास स्वभक्तावनतत्परः ।
ते दूता देवदेवस्य शङ्खचक्र गदाधराः

1.20.55

सहस्रसूर्यासंकाशाः सर्वे चारुचतुर्भुजाः ।
किरीटकुण्डलधरा हारिणो वनमालिनः

1.20.56

दिशो वितिमिरा विप्र कुर्वन्तः स्वेन तेजसा ।
भयङ्करान्याशहस्तान्दंष्ट्रिणो यमकिङ्करान्

1.20.57

आवयोग्राहणे यत्तानृचुः कृष्णपरायणाः

1.20.58

विष्णुदूता ऊचुः
भो भो क्रूरा दूराचारा विवेकपरिवर्जिताः ।
मुञ्चध्वमेतौ निष्पापौ दम्पती हरिवल्लभौ

1.20.59

विवेकस्त्रिषु लोकेषु संपदामादिकारणम् ।
अपापे पापधीर्यस्तु तं विद्यात्पुरुषाधमम्

1.20.60

पापे त्वपापधीर्यस्तु तं विद्यादधमाधमम्

1.20.61

यमदूता ऊचुः
युष्माभिः सत्यमेवोक्तं किं त्वेतौ पापिसत्तमौ ।
यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ

1.20.62

श्रुतिप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः ।
धर्माधर्मविवेको ऽयं तन्नेष्यामो यमान्तिकम्

1.20.63

एतच्त्छुवातिकुपिता विष्णुदूता महौजसः ।
प्रत्यूचूस्तान्यमभटानधर्मे धर्ममानिनः

1.20.64

विष्णदूता ऊचुः
अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् ।
सम्यग्विवेकशून्यानां निदानं ह्यापदां महत्

1.20.65

तर्काणाद्यविशेषेण नरकाध्यक्षतां गताः ।
यूयं किमर्थमद्यापि कर्त्तुं पापानि सोद्यमाः

1.20.66

स्वकर्मक्षयपर्यन्तं महापातकिनो ऽपि च ।
तिष्टन्ति नरके घोरे यावच्चन्द्रार्कतारकम्

1.20.67

पूर्वसंचितपापानामदृष्ट्वा निष्कृतिं वृथा ।
किमर्थं पापकर्माणि करिष्ये ऽथ पुनः पुनः

1.20.68

श्रुतिप्रणिहितो धर्मः सत्यं सत्यं न संशयः ।
किन्त्वाभ्यां चरितान्धर्मान्प्रवक्ष्यामो यथातथम्

1.20.69

एतौ पापविनिर्मुक्तौ हरिशुश्रूषणे रतौ ।
हरिणा त्रायमाणौ च मुञ्चध्वमविलम्बितम्

1.20.70

एषा च नर्तनं चक्रे तथैव ध्वजरोषणम् ।
अन्तकाले विष्णुगृहे तेन निष्पापतां गतौ

1.20.71

अन्तकाले तु यन्नाम श्रुत्वोक्त्वापि च वै सकृत् ।
लभते परमं स्थानं किमु शूश्रूषणे रताः

1.20.72

महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।.।
कृष्णसेवी नरो ऽन्ते ऽपि लभते परमां गतिम्

1.20.73

यतीनां विष्णुभक्तानां परिचर्या परायणाः ।
ते दूताः सहसा यान्ति पापिनो ऽपि परां गतिम्

1.20.74

मुहुर्तं वा मुहुर्तार्द्धं यस्तिष्टोद्धरिमन्दिरे ।
सो ऽपि याति परं स्थानं किमुद्वात्रघिंशवत्सरान्

1.20.75

उपलेपनकर्त्तारौ संमार्जनपरायणौ ।
एतौ हरिगृहे नित्यं जीर्णशीर्णाधिरोपकौ

1.20.76

जलसेचनकर्त्तारौ दीपदौ हरिमन्दिरे ।
कथमेतौ महाभागौ यातनाभोगमर्हथ

1.20.77

इत्युक्ता विष्णुदूतास्ते च्छित्वा पाशांस्तदैव हि ।
आरोप्यावां विमानाग्रयं ययुर्विष्णोः परं पदम्

1.20.78

तत्र सामीप्यमापन्नौ देवदेवस्य चक्रिणः ।
दिव्यान्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर

1.20.79

दिव्यान्भोगांस्तु तत्रापि भुक्त्वा यातौ महीमिमाम् ।
अत्रापि संपदतुला हरिसेवाप्रसादतः

1.20.80

अनिच्छया कृतेनापि सेवनेन हरेर्मुने ।
प्रात्पमीदृक् फलं विप्र देवानामपि दुर्लभम्

1.20.81

इच्छयाराध्य विश्वेशं भक्तिभावेन माधवम् ।
प्राप्स्यावः परमं श्रेय इति हेतुर्निरुपितः

1.20.82

अवशेनापि यत्कर्म कृतं स्यात्सुमहत्फलम् ।
जायते भूमिदेवेन्द्र किं पुनः श्रद्धया कृतम्

1.20.83

एतदुक्तं निशम्यासौ स मुनीन्द्रो विभण्डकः ।
प्रशस्य दम्पती तौ तु प्रययौ स्वतपेवनम्

1.20.84

तस्माज्जानीहि देवर्षे देवदेवस्य चक्रिणः ।
परिचर्या तु सर्वेषां कामधेनूपमा स्मृता

1.20.85

हरिपूजापराणां तु हरिरेव सनातनः ।
ददाति परमं श्रेयः सर्वकामफलमप्रदः

1.20.86

य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम् ।
पठेच्च शृणुयाद्वापि सो ऽपि याति परां रातिम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc