भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.19

1.19.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मागशीर्षपौर्णिमायां लक्षघ्मीनारायणव्रतं नामाष्टादशो ऽध्यायः
सनक उवाच
अन्यद्वूतं प्रवक्ष्यामि ध्वजारोपणसंज्ञितम् ।
सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम्

1.19.2

यः कुर्याद्विष्णुभवने ध्वजारोपणमुत्तमम् ।
संपूज्यते विग्निञ्च्याद्यैः किमन्यैर्बहुभाषितैः

1.19.3

हेमभारसहस्रं तु यो ददाति कुटुम्बिने ।
तत्फलं तुल्यमात्रं स्याद्धूजारोपणकर्मणः

1.19.4

ध्वजारोपणतुल्यं स्याद्गङ्गास्नानमनुत्तमम् ।
अथवा तुलसूसेवा शिवलिङ्गप्रपूजनम्

1.19.5

अहो ऽपूर्वमहो ऽपूर्वमहो ऽपूर्वमिदं द्विज ।
सर्वपाप हरं कर्म ध्वजागोपणसंज्ञितम्

1.19.6

सन्ति वै यानि कार्याणि ध्वजारोपणकर्मणि ।
तानि सर्वाणि वक्ष्यामि शृणुष्व गदतो मम

1.19.7

कार्तिकस्य सिते पक्षघे दशम्यां प्रयतो नरः ।
स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम्

1.19.8

एकाशी ब्रह्मचारी च स्वपेन्नारायणं स्मरन् ।
धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः

1.19.9

ततः प्रातः समुत्थाय स्नात्वाचम्य यथाविधि ।
नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत्

1.19.10

चतुर्भिर्ब्राह्मणैः सार्ध्दं कृत्वा च स्वस्तिवाचनम् ।
नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि

1.19.11

ध्वजस्तम्भो च गायत्र्या प्रोक्षघयेद्वस्त्रसंयुतौ ।
सूर्यं च वैनतेयं च हिमांशुं तत्परोर्ऽचयेत्

1.19.12

धातारं च विधातारं पूजयेद्धजदण्डके ।
हरिद्राक्षघतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः

1.19.13

ततो गोचर्ममात्रघं तु स्थण्डिलं चोपलिप्य वै ।
आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात्

1.19.14

जुहुयात्पायसं चैव साज्यमष्टोत्तरं शतम् ।
प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम्

1.19.15

ततश्च वैनतेयाय स्वाहे त्यष्टाहुतीस्तथा ।
सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज

1.19.16

सौरमन्त्राञ्जपेत्तघत्र शान्तिसूत्कानि शक्तितः ।
रात्रघौ जागरणं कुर्यादुपकण्ठं हरेः शुचुः

1.19.17

ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ।
गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात्

1.19.18

ततो मङ्गलवाद्यैश्च सूक्तपाठैश्च शौभनम् ।
नृत्यैश्च रतोत्रघपठनैर्नयेद्विष्णवालये ध्वजम्

1.19.19

देवस्य द्वारदेशे वा शिखरे वा मुदान्वितः ।
सुस्थुरः स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम्

1.19.20

गन्धपुष्पाघक्षतैर्द्देवं धूपदीपर्मनोहरैः ।
भक्षघ्यभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत्

1.19.21

एवं देवालये स्थाप्य शोभनं ध्वजमुत्तमम् ।
प्रदक्षघिणमनुव्रज्य स्तोत्रघमेतदुदूरयेत्

1.19.22

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्ते ऽस्तु हृषीकेश महापुरुष पूर्वज

1.19.23

येनेदमखिलं जातं यत्र सर्वं प्रतिष्टितम् ।
लयमेष्यति यत्रैवं तं प्रपन्नो ऽस्मि केशवम्

1.19.24

न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः ।
योगिनोयं न पश्यन्ति तं वन्दं ज्ञानरुपुणम्

1.19.25

अन्तरिक्षन्तु यन्नाभिर्द्यैर्मूर्द्धा यस्य चैव हि ।
पादो ऽभूद्यस्य पृथिवी तं वन्दे विश्वरुपिणम्

1.19.26

यस्य श्रोत्रे दिशः सर्वा यच्चक्षुर्दिनकृचज्छशी ।
ऋक्सामयजुपी येन तं वन्दे ब्रह्ररुपिणम्

1.19.27

यन्मुखाद्वाह्मणा जाता यद्वाहोरभवन्नृपाः ।
वैश्या यस्यो रुतो जाताः पद्भघ्यां शूद्रो व्यजायत

1.19.28

मायासङ्गममात्रघेण वदन्ति पुरुषं त्वजम् ।
स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम्

1.19.29

क्षीरब्धि शायिनं देवमनन्तमपराजितम् ।
सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम्

1.19.30

पृथिव्यादीनि भूतानि तन्मात्राणींन्द्रियाणि च ।
सूक्ष्मासूक्ष्याणि येनासंस्तं वन्दे सर्वतोमुखम्

1.19.31

यद्वह्य परमं धाम सर्वलोकोत्तमोत्तमम् ।
निर्गुणं परमं सूक्ष्मं प्रणतो ऽस्ति पुनः पुनः

1.19.32

अविकारमजं शुद्धं सर्वतोबाहुमीश्वरम् ।.
यमामनन्ति योगान्द्राः सर्वकारणकारणम्

1.19.33

यो देवः सर्वभूतानामन्तरात्मा जगन्मयः ।
निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु

1.19.34

हृदयस्थो ऽपि दूरस्थो मायया मोहितात्मनाम् ।
ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु

1.19.35

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वातार्थंभ्यां स मे विष्णुः प्रतीदतु

1.19.36

ज्ञानिनां कर्मिणां चैव तथा भक्तिमतां नृणाम् ।
गतिदाता विश्वमृग्यः स मे विष्णुः प्रसूदतु

1.19.37

जगद्धितार्थं ये देहा ध्रियन्ते लीलया हरेः ।
तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु

1.19.38

यमामनन्तिवे सन्तः सच्चिदानन्दविग्रहम् ।
निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु

1.19.39

इति स्तुत्वा नमेद्विष्णुं ब्राह्मणांश्च प्रपूजयेत् ।
आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः

1.19.40

ब्राह्मणान्भोजयेच्छक्त्या भक्ति भावसमन्वितः ।
पुत्रमत्रिकलत्राद्यैः स्वयं च सह बन्धुभिः

1.19.41

कुर्वीत पारणं विप्र नारायणपरायणः ।
यस्त्वेतत्कर्म कुर्वीत ध्वजारोपणमुत्तमम् ।
तस्य पुण्यफलं वक्ष्ये शृणुष्व सुसमाहितः

1.19.42

पटो ध्वजस्य विप्रेन्द्र यावच्चलति वायुना ।
तावन्ति पापजालानि नश्यन्त्येव न संशयः

1.19.43

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः

1.19.44

यावद्दिनानि तिष्टेत ध्वजो विष्णुगृहे द्विज ।
तावद्युगसहस्राणि हरिसारुप्यमश्नुते

1.19.45

आरोपितं ध्वजं दृष्ट्वा ये ऽभिनन्दन्ति धार्मिकाः ।
ते ऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः

1.19.46

आरोपितो ध्वजो विष्णुगृहे धुन्वन्पटं स्वकम् ।
कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः

1.19.47

यस्त्वा रोप्य गृहे विष्णोर्ध्वजं नित्यमुपाचरेत् ।
स देवयानेन दिवं यातीव सुमतिर्नृपः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc