नारद पुराण · अध्याय 1.18
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुक्लद्वादशीव्रतकथनं नाम सत्पदशो ऽध्यायः
सनक उवाच
अन्यद्व्रतवरं वक्ष्य शृणुष्व मुनिसत्तम ।
सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम्
ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा ।
समस्तकामफलदं सर्वव्रतम्यफलप्रदम्
दुःस्वन्पनाशने धर्म्यं दुष्टग्रहनिवारणम् ।
सर्वलोकेषु विख्यातं पूर्णिमाव्रतमम् ।
येन चीर्णेन पापानां राशिकोटिःर प्रशाम्यति
मार्गशीर्षे सितेपक्षे पूर्णायां नियतः शुचिः ।
स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम्
शुक्लाम्बरधरः शुद्धो गृहमागगत्य वाग्यतः ।
प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम्
नित्यं देवार्चनं कृत्वा पश्वात्संकल्पपूर्वकम् ।
लक्ष्मी नारायणं देवमर्चयेद्भक्तिभावतः
आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती ।
नमो नारायणायेति पूजयेद्भक्तितत्परः
गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ।
स्तोत्रैर्वाराधयेद्देवं व्रतकृत्सुसमाहितः
देवस्य पुरतः कृत्वा स्थण्डिलं चतुरस्त्रकम् ।
अरत्निमात्रं तत्रान्गिं स्थापयेद्गृह्यमार्गतः ।
आज्यभागान्तर्पयन्तं कृत्वा पुरुषसूक्ततः ।
चरणा च तिलैश्वापि घृतेन जुहुयात्तथा
एकवारं द्विवारं वात्रिवारं वापि शक्तितः ।
होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये
प्रायश्चित्ता दिकं सर्वं स्वगृह्योक्तविधानतः ।
समाप्य होमं विधिवच्छान्तिसूक्तं जपेद्रुधः
पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् ।
तथोपवासं देवाय ह्यर्पयेद्भक्तिसंयुतः
पौर्णमास्यां निराहारः स्थित्वा देव तवाज्ञया ।
भोक्ष्यामि पुण्डरीकाक्ष परे ऽह्लि शरणं भव
इति विज्ञाप्य देवायह्यर्घ्यं दद्यात्तथैन्दवे ।
जानुभ्यामवनीं गगत्वा शुक्लपुष्पाक्षतान्वितः
क्षीरोदार्णवसंभूत अघत्रिगोत्रसमुद्भघव ।
ग्रहाणार्घ्यं मया दत्तं रोहिणीनायक प्रभो ।
एवमर्घ्यं प्रदायेन्दोः प्रार्थयेत्प्राञ्जलिस्ततः
तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद
नमः शुक्लांशवे तुभ्यं द्विजराजाय ते नमः ।
रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमो ऽस्तु ते
ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः ।
जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः
ततः प्रातः प्रकुर्वीत स्वाचारं च यथाविधि ।
पुनः संपूजयेद्देवं यथाविभवविस्तरम्
ब्राह्मणान्भोजयेच्छक्त्या ततश्च प्रयतो नरः ।
बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः
एवं पौषादिमासेषु पूर्णमास्यामुपोषितः ।
अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम्
एवं संवत्सरं कृत्वा कार्तिक्यां पूर्णिमादिने ।
उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते
मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुमङ्गलम् ।
शोभितं पुष्पमालाभिर्वितानध्वजराजितम्
बहुदापसमाकीर्णं किङ्किणीजालशोभितम् ।
दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम्
तन्मध्ये सर्वतोभद्रं पञ्चवर्णविराजितम् ।
जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज
पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणाति शोभितम् ।
हेन्मा वा रजतेनापि तथा तान्मेण वा द्विज ।
लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेत्
पञ्चामृतेन संस्नाप्याभ्यर्च्यगन्धादिभिः क्रमात् ।
भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तितः संयतेन्द्रियः
जागरं च तथा कुर्यार्त्सम्यक्छ्ररद्धासमन्वितः ।
परे ऽह्नि प्रातर्विधिव त्पूर्ववद्विष्णुमर्चयेत्
आचार्याय प्रदातव्या प्रतिमा दक्षघिणान्विता ।
ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम्
तिलदानं प्रकुर्वीत यथाशक्त्या समाहितः ।
कुर्याद्रन्गौ च विधिवतिलहोमं विचक्षिणः
एवं कृत्वा नरः सम्यक् लक्ष्मीनारायणव्रतम् ।
इह भुक्त्वा महाभोगान्पुत्रघपौत्रघसमन्वितः
सर्वपापविनिर्मुक्तः कुलायुतसमन्वितः ।
प्रयाति विष्णुभवनं योगिनामपि दुर्लभम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0