नारद पुराण · अध्याय 1.17
इति श्रूबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये भगीरथगङ्गानयनं नाम षोडषो ऽध्यायः
ऋषय ऊचुः
साधु सूत महाभाग त्वयातिकरुणात्मना ।
श्रावितं सर्वपापन्घं गङ्गामाहात्म्य मुत्तमम्
श्रुत्वा तु गङ्गामाहात्म्यं नारदो देवदर्शनः ।
किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम्
सूत उवाच
शृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा ।
पृष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत्
नानाख्यानेतिहासाड्यं गङ्गामाहात्म्यमुत्तमम् ।
श्रुत्वा ब्रह्मसुतो भूयः पृष्टवानिदमादरात्
नारद उवाच
अहो ऽतिधन्यं सुकृतैकसारं श्रुतं मया पुण्यमसंवृतार्थम् ।
गाङ्गेयमाहात्म्यमघप्रणाशि त्वत्तो मुने कारुणिकादभीष्टम्
ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव ।
नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नम्
ततः समाख्याहि हरेर्व्रतानि कृतैश्च यैः प्रीतिमुपैति विष्णुः ।
ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी
ददाति मुक्तिं भजतां मुकुन्दो व्रतार्चनध्यानपरायणानाम् ।
भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम्
प्रवृत्तं च निवृत्तं च यत्कर्म हरितो षणम् ।
तदा ख्याहि मुनिश्रेष्ठ विष्णुभक्तो ऽसि मानद
सनक उवाच
साधु साधु मुनिश्रेष्ठ भक्तस्त्वं पुरुषोत्तमेः ।
भूयो भूयो यतः पुच्छेश्चरित्रं शार्ङ्गधन्वनः
व्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्ति च ।
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा
यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः ।
इहामुत्र सुखं तस्य तपोवृद्धिश्च जायते
येन केनाप्युपायेन हरिपूजापरायणाः ।
प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः
मार्ग शीर्षे सिते पक्षे द्वादश्यां जलशायिनम् ।
उपोषितो ऽडर्चयेत्सम्यङ् नरः श्रद्धासमन्वितः
स्नात्वा शुक्लाम्बरधरो दन्तधावनपूर्वकम् ।
गन्धपुष्पाक्षतैर्धूपैर् दीपैर्नैवेद्यपूर्वकैः
वाग्यतो भक्तिभावेन मुनिश्रेष्ठार्चयेद्धरिम् ।
केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत्
अष्टोत्तरशतं हुत्वा वन्हौ घृततिलाहुतीः ।
रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः
स्नापयेत्प्रस्थपयसा नारायणमनामयम् ।
गीतैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम्
त्रिकालं पूजयेद्भक्त्या महालक्ष्म्या समन्वितम् ।
पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम्
पूर्ववत्पूजयेद्वेवं वाग्यतो नियतः शुचिः ।
पायसं घृतसंमिश्रं नालिकेरफलान्वितम्
मन्त्रेणानेन विप्राय दद्याद्भक्त्या सदक्षिणम् ।
केशवः केशिहा देवः सर्वसंपत्प्रदायकः
परमान्नप्रदानेन मम स्यादिष्टदायकः ।
ब्रह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह
नारायण परो भूत्वा स्वयं भुञ्जीत वाग्यतः ।
इति यः कुरुते भक्त्या केशवार्चनमुत्तमम्
स पैण्डरीकयज्ञस्य फलमष्टगुणं लभेत् ।
पौषमासे सिते पक्षे द्वादश्यां समुपोषितः
नमो नारायणायेति पूजयेत्प्रयतो हरिम् ।
पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत्
रात्रौ जागरणं कुर्यात्र्रिकालार्चनतत्परः ।
धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः
तृणैश्च गीतवाद्याद्यैः स्तोत्रैश्चाप्यर्ययेद्धरिम् ।
कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम्
सर्वात्मा सर्वलोकेशः सर्वव्यापी सनातनः ।
नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः
मन्त्रेणानेन विप्राय दत्त्वा वै दानमुत्तमम् ।
द्विजांश्च भोजेयच्छक्त्या स्वयमद्यात्सबान्धवः
एवं संपूजयेद्भक्त्या देवं नारायणं प्रभुम् ।
अग्निष्टोमाष्टकफलं स संपूर्णमवाप्नुयात्
माघस्य शुक्लद्वादश्यां पूर्ववत्समुपोषितः ।
नमस्ते माधवायेति हुत्वाष्टौ च घृताहुतीः
पूर्वमानेन पयसा स्नापयेन्माधवं तदा ।
पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा
रात्रौ जागरणं कुर्यात्पूर्ववद्भघक्तिसंयुतः ।
कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत्
प्रस्थं तिलानां विप्राय दद्याद्वै मन्त्रपूर्वकम् ।
सदक्षिणं सवास्त्रञ्च सर्वपापविमुक्तये
माधवः सर्वभूतात्मा सर्वकर्मफलप्रदः ।
तिलदानेन महता सर्वान्कामान्प्रयच्छतु
मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्वितः ।
ब्रह्मणान्भोजयेच्छक्त्या संस्मरन्माधवं प्रभुम्
एवं यः कुरुते भक्त्या तिलदाने व्रतं मुने ।
वाजपेय शतस्यासौ संपूर्णं फलमाप्नुयात्
फआल्गुनस्य सिते पक्षे द्वादश्यां समुपोषितः ।
गोविन्दाय नमस्तुभ्यमिति संपूजयेद्व्रती
अष्टोत्तगरशतं दृत्वा घृतमिश्रतिलाहुतीः ।
पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः
रात्रौ जागरणं कुर्यात्र्रिकालं पूजयैत्तथा ।
प्रातः कृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः
व्रीह्याढकं च विप्राय दद्याद्वस्त्रं सदक्षिणम् ।
नमो गोविन्द सर्वेश गोपिकाजनवल्लभ
अनेन धान्य दानेन प्रीतो भव जगद्गुरो ।
एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः
गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः ।
चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः
नमो ऽस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेत् ।
क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः
तथैव स्नापयेद्विप्र घृतप्रस्थेन सादनम् ।
कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्रूती
ततकः कल्ये समुत्थाय प्रातः कृत्यं समाप्य च ।
अष्टोत्तरशतं हुत्वा मधअवाज्यतिलमिश्रितम्
सदक्षिणं च विप्राय दद्याद्वै तण्डुलाढकम् ।
प्राणरुपी महाविष्णुः प्राणदः सर्ववल्लभः
तण्डुलाढकदानेन प्रीयतां मे जनार्दनः ।
एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः
अत्यन्गिष्टोमयज्ञस्य फलमष्टगुणं लभेत् ।
वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम्
द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिंसंयुतः ।
जागरं तत्रघ कर्त्तव्यं त्रिकालार्चनसंयुतम्
नमस्ते मधुहन्त्रे च जुहुयाच्छक्तितो घृतम् ।
अष्टोत्तरशतं प्रोर्च्य विधिवन्मधुसूदनम्
विपापो ह्यश्वमेधानामष्टानां फलमान्पुयात् ।
ज्येष्टमासे सिते पक्षे द्वादश्यामुपवासकृत्
क्षीरेणाढकमानेन स्नापयेद्यस्त्रिविक्तमम् ।
नमस्त्रिविक्तमायेति पूजयेद्भक्तिसंयुतः
जुहुयात्पायसेनैव ह्यष्टोत्तरशताहुतीः ।
कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेत्
अपूपविंशतिं दत्त्वा ब्राह्मणाय सदक्षिणम् ।
देवदेव जगन्नात प्रसीद परमेश्वर
उपायनं च संगृह्य ममाभीष्टप्रदो भव ।
ब्राह्मणान्भोजयेच्छक्त्या स्वयं भुञ्जीत वाग्यतः
एवं यः कुरुते विप्र व्रतं त्रैविक्रमं परम् ।
सो ऽष्टानां नरमेधानां विपापः फलमान्पुयात्
आषाढशुक्लद्वादश्यामुपवासी जितेन्द्रियः ।
वामनं पूर्वमानेन स्नापयेत्पयसा व्रती
नमस्ते वामनायेति दूर्वाज्याष्टोत्तरं शतम् ।
हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः
सदाक्षिणं च दध्यन्नं नालिकेरफलान्वितम् ।
भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने
वामनो वुद्धिदो होता द्रव्यस्थो वामनः सदा ।
वामनस्तारको ऽस्माच्च वामनाय नमो नमः
अनेन दत्त्वा दध्यन्नं शक्तितो भोजयेद्दिजान् ।
कृत्वै वमग्रिष्टोमानां शतस्य फलमाप्नुयात्
श्रावणस्य सिते पक्षे द्वादश्यामुपवासकृत् ।
क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती
नमो ऽस्तु श्रीधरायेति गन्धाद्यैः पूजयेत्क्रमात् ।
जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने
कृत्वा च जागरं रात्रौ पुनः पूजां प्रकल्पयेत् ।
दातव्यं चैव विप्राय क्षीराढकमनुत्तमम्
दक्षिणां च सवस्त्रां वै प्रदद्याद्धेमकुण्डले ।
मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये
क्षीराब्धिशायिन्देवेश रमाकान्त जगत्पते ।
क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः
सुखप्रदत्त्वाद्विप्रांश्च भोजयेच्छक्तितो व्रती ।
एव कृत्वा श्वमेधानां सहस्रस्य फलं लभेत्
मासि भाद्रपदे शुक्ले द्वादश्यां समुपोषितः ।
स्नापयेद्द्रोणपयसा हृषीकेशं जगद्गुरुम्
हृषीकेश नमस्तुभ्यमिति संपूजयेन्नरः ।
चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेत्
जागरादीनिनि निर्वर्त्य दद्यादात्मविदे ततः ।
सार्धाढकं च गोधूमान्दक्षिणां हेम शक्तितः
हृषीकेश नमस्तुभ्यं सर्वलोकैकहेतवे ।
मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः
भोजयेद्व्राह्माञ्शक्त्या स्वयं चाश्रीतवाग्यतः ।
सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत्
आश्विने मासिशुक्लायां द्वादश्यांसमुपोषितः ।
पद्मनाभं चपयसा स्नापयेद्भक्तितः शुचिः
नमस्ते पद्मनाभाय होमं कुयार्त्स्वशक्तितः ।
तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः
जामरं निशि निर्वर्त्य पुनः पूजां समाचरेत् ।
दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम्
पद्मनाभघ नमस्तुभ्यं सर्वलोकपितामह ।
मधुदानेन सुप्रीतो भवसर्वसुखप्रदः
एवं यः कुरुते भक्त्या पद्मनाभव्रतं सुधीः ।
ब्रह्ममेधसहस्रस्य फलमान्पोति निश्चितम्
द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः ।
क्षीरेणाकढकमानेन दन्धा वाज्येन तावता
नमो दामोदरायेति स्नापयेद्भक्तिभावतः ।
अष्टोत्तरशतं हुत्वा मघ्वाज्याक्ततिलाहुतीः
जागरं नियतः कुर्यात्त्रिकालार्चनतत्परः ।
प्रातः संपूजयेद्देवं पद्मपुष्पैर्मनोरमैः
पुनरष्टोत्तरशतं जुहुयात्सघृतै स्तिलैः ।
पञ्चभक्ष्ययुतं चान्नं दद्याद्विप्राय भक्तितः
दामोदर जगन्नाथ सर्वकारणकारण ।
त्राहिमां कृपया देव शारणागतपालकः
अनेन दत्त्वा दानं च श्रोत्रियाय कुटुम्बिने ।
दक्षिणाञ्च यथाशक्त्या ब्राह्मणांश्वापि भोजयेत्
एवङ्कृत्वा व्रतं सम्यगश्रीयाद्वून्धुभिः सह ।
अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते
एवं कुर्याद्व्रती यस्तु द्वादशीव्रतमुत्तमम् ।
संवत्सरं मुनिश्रेष्ठ स याति परम पदम्
एकमासे द्विमासे वायः कुर्याद्भक्तितत्परः ।
तत्तत्फलमवान्पोति प्रान्पोति च हरेः पदम्
पूर्णं संवत्सरं कृत्वा कुर्यादुद्यापनं व्रती ।
मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर
स्नात्वा प्रातर्यथाचारं दन्तधावनपूर्वकम् ।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः
मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुशीभनम् ।
घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम्
अलङ्कृतं पुष्पमाल्यैर्वितानघ्वजराजितान् ।
छादितं शुक्लवस्त्रेण दीपमालाविभूषितम्
तन्मध्ये सर्वतोभद्रं कुर्यात्सम्यगलङ्कृतम् ।
तस्योपरिन्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान्
एकेन शुल्कवनस्त्रेण सम्यक्संशोधितेन च ।
सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान्
लक्ष्मीनारायणं देवं कारयेद्भक्तिमान्व्रती ।
हेन्मा वा राजतेनापि तथा ताम्रेण वा द्विजा
स्थापयेत्प्रतिमां तां च कुम्भोपरि सुसंयमी ।
तन्मूल्यं वा द्विजश्रेष्ठ काञ्चनं च स्वशक्तितः
सर्वव्रतेषु मतिमान्वित्तशाठ्यं विवर्ज येत् ।
यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसंपदः
अनन्तशायिनं देवं नारायणमनामयटम् ।
पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः
नांमभिः केशवाद्यैश्च ह्युपचारान्मकल्पयेत् ।
रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभघिः
जितनिद्रो भवेत्सम्यक्सोपवासो जितेन्द्रियः ।
त्रिकालमर्चयेद्देवं यथाविभवविस्तरम्
ततः प्रातः समुत्थाय प्रातः कृत्यं समाप्य च ।
तिलहोमान्व्याहृतिभिः सहस्रंर काव्येद्द्विजैः
ततः संपूजयेद्देवं गन्धपुष्पादिभिः क्रमात् ।
देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः
दद्याद्द्वादशविप्रेभ्यो दध्यन्नं पायसं पायसं तथा ।
अपूपैर्दश भिर्युक्तं सघृतं च सदक्षिणम्
देवदेवजगन्नाथ भक्तानुग्रहविग्रह ।
गृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव
अनेनोपायनं दत्त्वा प्रार्थये माञ्जलिः स्थितः ।
आधाय जानुनी भूमौ विनयावननतो व्रती
नमो नमस्ते सुरराजराज नमो ऽस्तुते देवं जगन्निवास ।
कुरुष्व संपृर्णफलं ममाद्य नमो ऽस्तु तुभ्यं पुरुषोत्तमाय
इति संप्रार्थयेद्विप्रान्देवं च पुरुषोत्तमम् ।
दद्यादर्घ्यं च देवाय महालक्ष्मीयुताय वै
लक्ष्मीपते नमस्तुभ्यं क्षीरार्णवनिवासिने ।
अर्घ्यं गृहाण देवेश लक्ष्म्या च सहितः प्रक्षो
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्
इति विज्ञाप्य देवेशं तत्सर्वं संयमी व्रते ।
प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत्
ब्राह्मणान्भोजयेत्पश्चीच्छक्त्या दद्याज दक्षिणाम् ।
भुञ्जीत वाग्यतः पश्चात्स्वयं बेवृजनैर्वृतः
आसायं शृदुयाद्विष्णोः कथां विद्वज्जनैः सह ।
इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम्
सर्वान्कामान्स आन्पोति परघत्रेह च नारद ।
त्रिसतकुलसंयुक्तः सर्वपापविवर्जितः ।
तपाति विष्णुभवनं यत्र यत्त्वा न शोचति
य इदं शृणुयाद्विप्र द्वादशीव्रतमुत्तमम् ।
वाचयेद्वापि स नरो वाजपेयफलं लभेत्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0