नारद पुराण · अध्याय 1.16
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशो ऽध्यायः
नारद उवाच
हिमवद्गिरिमासाद्य किं चकार महीपतिः ।
कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि
सनक उवाच
भगीरथो महाराजो जटाचीरधरो मुने ।
गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम्
तत्रापश्यन्महारण्ये भृगोराश्रममुत्तमम् ।
कृष्णसारसमाकीर्णं मातङ्गगणसेवितम्
भ्रमद्भूमरसंघुष्टं कूजद्विहगसंकुलम् ।
व्रजद्वराहनिकरं चमरीपुच्छवीचितम्
नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितम् ।
प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात्
शालतालतमालाढ्यं नूनहिन्तालमण्डितम् ।
मालतीयूथिकाकुन्दचम्पकाशअवत्थभूषितम्
उत्पुल्लकुसुमोपेत मृषिसङ्घनिषेवितम् ।
वेदशास्त्रमहाघोषमाश्रमं प्राविशद्भुगोः
गृणन्तं परम ब्रह्म वृत्तं शिष्यगणैर्मुनिम् ।
तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः
प्रणनामाथ विप्रेन्द्रं पादसंग्रहणादिना ।
आतिथ्यं भृगुरप्यस्य चक्रे सन्मानपूर्वकम्
कृतातिथ्यक्रियो राजा भृगुणा परमर्षिणा ।
उवाच प्राञ्जलिर्भूत्वा विनयान्मुनिपुङ्गवम्
भगीरथ उवाच
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
पृच्छामि भवभीतो ऽहं नृणामुद्धारकारणम्
भगवांस्तुष्यते येन कर्मणा मुनिसत्तम ।
तन्ममाख्याहि सर्वज्ञ अनुग्राह्यो ऽस्मि ते यति
भृगुरुवाच
राजंस्तवेप्सितं ज्ञातं त्वं हि पुण्यवतां वरः ।
अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि
यो वा को वापि भूपाल स्वकुलं शुभकर्मणा ।
उद्धर्त्तकामस्तं विद्यान्नररुपधरं हरिम्
कर्मणा येन देवेशो नृणामिष्टफलप्रदः ।
तत्प्रवक्ष्यामि राजेन्द्र शृणुष्व सुसमाहितः
भव सत्यपरो राजन्न हिंसानिरतस्तथा ।
सर्वभूतहितो नित्यं मानृतं वद वै क्वचित्
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम्
कुरु पूजां महाविष्णोर्याहि शान्ति मनुत्तमाम् ।
द्वादशाष्टाक्षरं मन्त्रं जय श्रेयो भविष्यति
भगीरथा उवाच
सत्यं तु कीदृशं प्रोक्तं सर्वभूतहितं मुने ।
अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः
साधवः कीदृशाः प्रोक्तास्तथा पुण्यं च कीदृशम् ।
स्मर्तव्यश्च कथं विष्णुस्तस्य पूजा च कीदृशी
शान्तिश्च कीदृशी प्रोक्ता को मन्त्रो ऽष्टाक्षरो मुने ।
को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद
कृपां कृत्वा मयि परां सर्वं व्याख्यातमर्हसि ।
भृगुरुवाच
साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा
यत्पृष्टो ऽहं त्वया भूप तत्सर्वं प्रवदामि ते ।
यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः
धर्माविरोधतो वाच्यं तद्धि धर्मपरायणैः ।
देशकालादि विज्ञाय स्वयमस्याविरोधतः
यद्वचः प्रोच्यते सद्भिस्तस्तत्यमभिधीयते ।
सर्वेषामेव जन्तूनामक्लेषजननं हि तत्
अहिंसा सा नृप प्रोक्ता सर्वकामप्रदायिनी ।
कर्मकार्यसहायत्वमकार्यपरिपन्थिता
सर्वलोकहितत्वं वै प्रोच्यते धर्मकोविदैः ।
इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः
अनृतं तद्धि विज्ञेय सर्वश्रेयोविरोधि तत् ।
ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः
ते राजन्दुर्ज्जना ज्ञेयाः सर्वधर्मबहिष्कृताः ।
धर्माधर्मविवेकेन वेदमार्गानुसारिणः
सर्वलोकहितासक्ताः साधवः परिकीर्त्तिताः ।
हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम्
आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्त्तितम् ।
सर्वं जगदिदं विष्णुर्वष्णुः सर्वस्य कारणम्
अहं च विष्णुर्यज्ज्ञानं तद्विष्णुस्म रणं विदुः ।
सर्वदेवमयो विष्णुर्विधिना पूजयामि तम्
इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्तिताः ।
सर्वभूतमयो विष्णुः परिपूर्णः सनातनः
इत्यभेदेन या बुद्धिः समता सा प्रकीर्त्तिता ।
समता शत्रुमित्रेषु वशित्वं च तथा नृप
यदृच्छालाभसंतुष्टिः सा शान्तिः परिकीर्तिता ।
एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम्
समस्तपापराशीनां तरसा नाशहेतवः ।
अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम्
वक्ष्यामि तव राजेन्द्र पुरुषार्थैकसाधनम् ।
विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम्
नमो नारायणायेति जपेत्प्रणक्पूर्वकम् ।
नमो भगवते प्रोच्य वासुदेवाय तत्परम्
प्रणवाद्यं महाराज द्वादशार्णमुदाहृतम् ।
द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः
प्रवृत्तौ च निवृत्तौ च साम्यमुद्दिष्टमेतयोः ।
शङ्खचचक्रधरं शान्तं नारायणमनामयम्
लक्ष्मीसंश्रितवामाङ्कं तथाभयकरं प्रभुम् ।
किरीटकुण्डलधरं नानामण्डनशोभितम्
भ्राजत्कौस्तुभमालाढ्यं श्रीवत्साङ्कितवक्षसम् ।
पीताम्बरधरं देवं सुरासुरनमस्कृतम्
ध्यायेदनादिनिधनं सर्वकामफलप्रदम् ।
अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः
एतत्सर्वं समाख्यातं यत्तु पुष्टं त्वया नृप ।
स्वस्ति ते ऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम्
एवमुक्तो महीपालो भृगुणा परमर्षिणा ।
परमां प्रीतिमापन्नः प्रपेदेतपसे वनम्
हिमवद्गिरिमासाद्य पुण्यदेशे मनोहरे ।
नादेश्वरे महाक्षेत्रे तपस्तेपे ऽतिदुश्चरम्
राजा त्रिषवणस्नायी कन्दमूलफलाशनः ।
कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः
सर्वभूतहितः शान्तो नारायणपरायणः ।
पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः
एवं बहुतिथं कालं नीत्वा चात्यन्तधैर्यवान् ।
ध्यायन्नारायणं देवं शीर्णपर्णाशनो ऽभवत्
प्राणायामपरो भूत्वा राजा परमधार्मिकः ।
निरुच्छ्वास स्तपस्तप्तुं ततः समुपचक्रमे
ध्यायन्नारायणं देवमनं तमपराजितम् ।
षष्टिवर्षसहस्ताणि निरुच्छ्वासपरो ऽभवत्
तस्य नान्मापुटाद्राज्ञो वह्निर्जज्ञं भयङ्करः ।
तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः
अभिजग्मुर्महाविष्णुं यत्रास्ते जगतां पतिः ।
क्षीरोदस्योत्तरं तीर संप्राप्य त्रिदशेश्वराः ।
अस्तुवन्देवदेवेशं शरणागतपालकम्
देवा ऊचुः
नताः स्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् ।
स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः
ध्येयः सदा योगिवरैर्महात्मा स्वेच्छाशरीरैः कुतदेवकार्यः ।
जगत्स्वरुपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय
यनन्नामसंकीर्त्तनतो खलानां समस्त पापानि लयं प्रयान्ति ।
तमीशमीड्यं पुरुषं पुराणं नताः स्म विष्णुं पुरुषाथसिद्ध्यै
यत्तेजसा भान्ति दिवाकराद्या नातिक्रमं त्यस्य कदापि शिक्षाः ।
कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरुपम्
जगत्करो ऽत्यब्जभवो ऽत्ति रुद्रः पुनाति लोकाञ्श्रुतिभिश्च विप्राः ।
तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम्
वरं वरेण्यं मधुकैटभारिं सुरासुराभ्यर्चितपादपीठम् ।
॥ सद्भक्तिसंकल्पितासिद्धिहेतुं ज्ञानैकवेद्यं प्रणताः स्म देवम्
अनादिमध्यान्तमजं परेशमनाद्यविद्याख्यतमोविनाशम् ।
सच्चित्परानन्दघनस्वरुपं रुपादिहीनं प्रणताः स्म देवम्
नारायणं विष्णुमनन्तमीशं पीताम्बरं पद्मभवादिसेव्यम् ।
यज्ञाप्रियं यज्ञकरं विशुद्धं नताः स्म सर्वोत्तममव्ययं तम्
इति स्तुतो महाविष्णुर्देवैरिन्द्रादिभिस्तदा ।
चरितं तस्य राजर्षेर्देवानां संन्यवेदयत्
ततो देवान्समाश्वास्य दत्त्वाभयमनञ्जनः ।
जगाम यत्र राजर्षिस्तपस्तपति नारद
शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः ।
प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः
तं दुष्ट्वा पुण्डरीकाक्षं भाभासितदिगन्तरम् ।
अतिसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम्
स्निग्ध कुन्तलवक्राब्जं विभ्राजन्मुकुटोज्ज्वलम् ।
श्रीवत्सकौस्तुमधरं वनमालाविभूषितम्
दीर्घबाहुमुदाराङ्गं लोकेशार्चितपन्त्कजम् ।
ननाम दण्डवद्भूमौ भूपतिर्नम्रकन्धरः
अत्यन्तहर्षसंपूर्णः सरोमाञ्चः सगद्गदः ।
कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन्
तस्य विष्णुः प्रसन्नात्मा ह्यन्तर्यामी जगद्गुरुः ।
उवाच कृपयाविष्टो भगवान्भूतभावनः
श्रीभगवानुवाच
भगीरथ महाभाग तवाभीष्टं भविष्यति ।
आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः
मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैः स्वशक्तिवः ।
स्तुहि ते सकलं कामं सवै सद्यः करिष्यन्ति
यस्तु जग्राह शशिनं शूरणं समुपागतम् ।
तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम्
अनादिनिधनो देवः सर्वकाम फलप्रदः ।
त्वया संपुजितो राजन्सद्यः श्रेयो विधास्यति
इत्युक्त्वा देवदेवेशो जगतां पतिरच्युतः ।
अन्तर्दधे मुनिश्रेष्ठ उत्तस्थौसो ऽपि भूपतिः
किमिदं स्मम आहोस्वित्सत्यं साक्षाद्विजोत्तम् ।
भूपतिर्विस्मयं प्रात्पः किं करोमीति विस्मितः
अथान्तरिक्षे वागुज्चैः प्राह तं भ्रान्तचेतसम् ।
सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि
तन्निशम्यावनीपाल ईशानं सर्वकारणम् ।
समस्तदेवताराजमस्तौषीद्भक्तितत्परः
भगीरथ उवाच
प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् ।
प्रमाणागोचरं देवमीशानं प्रणवात्मकम्
जगद्रूपमजं नित्यं सर्गस्थित्यन्तकारणम् ।
विश्वरुपं विरुपाक्ष प्रणतो ऽस्म्युग्ररेतसम्
आदिमध्यान्तरहितमनन्तमजमव्ययम् ।
समामनन्ति योगीन्द्रा स्तं वन्दे पुष्टिवर्धनम्
नमो लोकाधिनाथाप वञ्चते परिवञ्चते ।
नमो ऽस्तु नीलग्रीवाय पसूनां पतये नमः
नमः कपालहस्ताय पाशपतये नमः ।
नमो ऽकल्पप्रकल्पाय भूतानां पतये नमः
नमः पिनाकहस्ताय शूलहस्ताय ते नमः ।
नमः कपालहस्ताय पाशमुद्गरधारिणे
नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः ।
नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः
नमः समस्तभूतानामादिभृताय भूभृते ।
अनेकरुपरुपाय निर्गुणाय परात्मने
नमो दणाधिदेवाय गणानां पतये नमः ।
नमो हिरण्यगर्भाय हिरण्यपतये नमः
हिरण्यरेतसे तुभ्यंनमो हिरण्यबाहवे ।
नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे
नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः ।
येनेदं विश्वमखिलं चराचरविराजितम्
वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना
स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् ।
यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम्
उमाकान्तनन्दिकेशन्तं नीलकण्ठं सदाशिवम् ।
मृत्युञ्जयं महादेवं परात्परतरं विभुम्
परं शब्दब्रह्मरुपं तं वन्दे ऽखिलकारणम् ।
कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः
भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे ।
मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे
ऊर्जे दिशां च पतये कालायाघोररुपिणे ।
कृशानुरेतसे तुभ्यं नमो ऽस्तु सुमाहात्मने
यतः समुद्राः सरितो ऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः ।
स्थाणु श्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीमास
नतो ऽस्मि तं योगिनताङ्घ्रिपद्मं सर्वान्तरात्मानमरुपमीशम् ।
स्वतन्त्रमेकं गुणुनां गुणं च नमामि भूयः प्रणमामि भूयः
इत्थं स्तुतो महादेवः शङ्करो लोकशङ्करः ।
आविर्बभूव भृपस्य संतत्पतपसोग्रतः
पञ्चवक्रं दशभुजं चन्द्रार्ध्दकृतशएखरम् ।
त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम्
विशालवक्षसं देवं तुहिनाद्रिसमप्रभम् ।
गजचर्माम्बरधरं सुरार्चितपदाम्बुजम्
दृष्ट्वा पपात पादाग्रे दण्डवद्भुवि नारद ।
तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः
प्रणनाम महादेवं कीर्तयञ्शङ्कराह्वयम् ।
विज्ञाय भक्तिं भूपस्य शङ्करः शशिशेखरः
उवाच राज्ञे तुष्टो ऽस्मि वरं वरय वाञ्छितम् ।
तोषितो ऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा
एवमुक्तः स देवेन राजा संतुष्टमानसः ।
उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरेश्वरम्
भगीरथ उवाच
अनुग्राह्यो ऽस्मि यदि ते वरदानान्महेश्वर ।
तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे
श्रीशिव उवाच
दत्ता गङ्गा मया तुभ्यं पितॄणां ते गतिः परा ।
तुभ्यं मोक्षं परश्चेति तमुक्त्वान्तर्दधे शिवः
परर्दिनो जटास्त्रस्ता गङ्गा लोकैकपाविर्नी ।
पावयन्ती जगत्सर्वमन्वगच्छद्भगीरथम्
ततः प्रभृति सा देवी निर्मला मलहारिणी ।
भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने
सगरस्यात्मजाः पूर्वं यत्र दग्धाः स्वपाप्मना ।
तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा
यदा संप्लावितं भस्म सागराणां तु गङ्गाया ।
तदैव नरके मग्ना उद्धृताश्च गतैनसः
पुरा संक्रुश्यमानेन ये यमेनातिपूडिताः ।
त एव पूचितास्तेन गङ्गाजलपरिप्लुताः
गतपापान्य विज्ञाय यमः सगरसंभवान् ।
प्रणम्याभ्यर्च्य विधिवत्प्राह तान्प्रीतमानसः
भो भो राजसुता यूयं नरकाद् भृशदारुणात् ।
मुक्ता विमानमारुह्य गच्छध्वं विष्णुमन्दिरम्
इत्युक्तास्ते महात्मानो यमेन गतकल्मषाः ।
दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे
एवंप्रभावा सा गङ्गा विष्णुपादाग्रसंभवा ।
सर्वलोकेषु विख्याता महापातकनाशिनी
य इदं पुण्यमाख्यानं महापातकनाशनम् ।
पठेच्च शृणुयाद्वापि गङ्गास्नानफलं लभेत्
यस्त्वे तत्पुण्यमाख्यानं कथयेद्र्वाह्यणाग्रतः ।
स याति विष्णुभवनं पुनरावृत्तिवर्जितम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0