भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.109

1.109.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारुडानुक्रमणीवर्णनं नामाष्टोत्तरशततमो ऽध्यायः
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि ब्रह्माण्डाख्यं पुरातनम् ।
यच्च द्वादशसाहस्रमादिकल्पकथायुतम्

1.109.2

प्रक्रियाख्यो ऽनुषङ्गाख्य उपोद्घातस्तृतीयकः ।
चतुर्थ उपसंहारः पादाश्चत्वार एव हि

1.109.3

पूर्वपादद्वयं पूर्वो भागो ऽत्र समुदाहृतः ।
तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः

1.109.4

आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः ।
हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च

1.109.5

एष वै प्रथमः पादो द्वितीयं शृणु मानद ।
कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम्

1.109.6

मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् ।
महादेवविभूतिश्च ऋषिसर्गस्ततः परम्

1.109.7

अग्नीनां विजयश्चाथ कालसद्भाववर्णनम् ।
प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः

1.109.8

वर्णनं भारतस्यास्य ततो ऽन्येषां निरूपणम् ।
जम्ब्वादिसप्तद्वीपाख्या ततो ऽधोलोकवर्णनम्

1.109.9

उर्द्ध्वलोकानुकथनं ग्रहचारस्ततः परम् ।
आदित्यव्यूहकथनं देवग्रहानुकीर्तनम्

1.109.10

नीलकण्ठाह्वयाख्यानं महादेवस्य वैभवम् ।
अमावास्यानुकथनं युगतत्त्वनिरूपणम्

1.109.11

यज्ञप्रवर्तनं चाथ युगयोरन्त्ययोः कृतिः ।
युगप्रजालक्षणं च ऋषिप्रवरवर्णनम्

1.109.12

वेदानां व्यसनाख्यानं स्वायम्भुवनिरूपणम् ।
शेषमन्वन्तराख्यानं पृथिवीदोहनं ततः

1.109.13

चाक्षुषे ऽद्यतने सर्गे द्वितीयो ऽङ्घ्रिः पुरोदले ।
अथोपोद्घातपादे तु सप्तर्षिपरिकीर्तनम्

1.109.14

प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः ।
ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम्

1.109.15

काश्यपेयानुकथनं ऋषिवंशनिरूपणम् ।
पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम्

1.109.16

वैवस्वतसमुत्पत्तिः सृष्टिस्तस्य ततः परम् ।
मनुपुत्रान्वयश्चान्तो गान्धर्वस्य निरूपणम्

1.109.17

इक्ष्वाकुवंशकथनं वंशो ऽत्रेः सुमहात्मनः ।
अमावसोरन्वयश्च रजेश्चरितमद्भुतम्

1.109.18

ययातिचरितं चाथ यदुवंशनिरूपणम् ।
कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम्

1.109.19

वृष्णिवंशानुकथनं सगरस्याथ संभवः ।
भार्गवस्यानुचरितं पितृकार्यवधाश्रयम्

1.109.20

सगरस्याथ चरितं भार्गवस्य कथा पुनः ।
देवासुराहवकथा कृष्णाविर्भाववर्णनम्

1.109.21

इन्द्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः ।
विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम्

1.109.22

भविष्यराजचरितं संप्राप्ते ऽथ कलौ युगे ।
समुपोद्धातपादो ऽयं तृतीयो मध्यमे दले

1.109.23

चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे ।
वैवस्वतान्तराख्यानं विस्तरेण यथातथाम्

1.109.24

पूर्वमेव समुद्दिष्टं संक्षेपादिह कथ्यते ।
भविष्याणां मनूनां च चरितं हि ततः परम्

1.109.25

कल्पप्रलयनिर्देशः कालमानं ततः परम् ।
लोकाश्चतुर्द्दश ततः कथिताः प्राप्तलक्षणैः

1.109.26

वर्णनं नरकाणां च विकर्माचरणैस्ततः ।
मनोमयपुराख्यानं लयः प्राकृतिकस्ततः

1.109.27

शैवस्याथ पुरस्यापि वर्णनं च ततः परम् ।
त्रिविधा गुणसंबन्धाज्जन्तूनां कीर्तिता गतिः

1.109.28

अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः ।
अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम्

1.109.29

इत्येष उपसंहारपादो वृत्तः सहोत्तरः ।
चतुष्पादं पुराणं ते ब्रह्माण्डं समुदाहृतकम्

1.109.30

अष्टादशमनौपम्यं सारात्सारतरं द्विज ।
ब्रह्माण्डं यच्चतुर्लक्षं पुराणं येन वठ्यते

1.109.31

तदेतदस्य गदितमत्राष्टादशधा पृथक् ।
पासशर्येण मुनिना सर्वेषामपि मानद

1.109.32

वस्तुतस्तूपदेष्ट्राथ मुनीनां भावितात्मनाम् ।
मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे

1.109.33

मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः ।
मयाचेदं पुराणं तु वसिष्टाय पुरोदितम्

1.109.34

तेन शक्तिसुतायोक्तं जातूकर्ण्याय तेन च ।
व्यासो लब्ध्वा ततश्चैतत्प्रभञ्जनमुखोद्गतम्

1.109.35

प्रमाणीकृत्य लोके ऽस्मिन्प्रावर्तयदनुत्तमम् ।
य इदं कीर्तयेद्वत्स शृणोति च समाहितः

1.109.36

स विधूयेह पापानि याति लोकमनामयम् ।
लिखित्वैतत्पुराणं तु स्वर्णसिंहासनस्थितम्

1.109.37

वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति ।
स यादि ब्रह्मणो लोकं नात्र कार्या विचारणा

1.109.38

मरीचे ऽष्टादशैतानि मया प्रोक्तानि यानि ते ।
पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात्

1.109.39

अष्टादश पुराणानि यः शृणोति नरोत्तमः ।
कथयेद्वा विधानेन नेह भूयः स जायते

1.109.40

सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना ।
तन्नित्यं शीलनीयं हि पुराणफलमिच्छता

1.109.41

न दांभिकाय पापाय देवगुर्वनुसूयवे ।
देयं कदापि साधूनां द्वेषिणे न शठाय च

1.109.42

शान्ताय शमचित्ताय शुश्रूषाभिरताय च ।
निर्मत्सराय शुचये देयं सद्वैष्णवाय च

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc