भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.108

1.108.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुराणानुक्रमणीकथनं नाम सप्तोत्तरशततमो ऽध्यायः
ब्रह्मोवाच
मरीचे शृणु वक्ष्याभि पुराणं गारुडं शुभम् ।
गरुडायाब्रवीत्पृष्टो भगवान्गरुडासनः

1.108.2

एकोनविंशसाहस्रं तार्क्ष्यकल्पकथान्वितम् ।
पुराणोपक्रमप्रश्नः सर्गः संक्षेपतस्ततः

1.108.3

सूर्यादिपूजनविधिर्दीक्षाविधिरतः परम् ।
श्राद्धपूजा ततः पश्चान्नवव्यूहार्चनं द्विज

1.108.4

पूजाविधानं च तथा वैष्णवं पञ्जरं ततः ।
योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्तनम्

1.108.5

ध्यानं विष्णोस्ततः सूर्यपूजा मृत्युञ्जयार्चनम् ।
मालामन्त्रः शिवार्चाथ गणपूजा ततः परम्

1.108.6

गोपालपूजा त्रैलोक्यमोहनश्रीधरार्चनम् ।
विष्ण्वर्चा पञ्चतत्त्वार्चा चक्रार्चा देवपूजनम्

1.108.7

न्यासादिसंध्योपास्तिश्च दुर्गार्चाथ सुरार्चनम् ।
पूजा माहेश्वरी चातः पवित्रारोपणार्चनम्

1.108.8

मूर्तिध्यांनवास्तुमानं प्रासादानां च लक्षणम् ।
प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः

1.108.9

योगो ऽषटाङ्गो दानधर्माः प्रयश्चित्तविधिक्रिया ।
द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम्

1.108.10

सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् ।
माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम्

1.108.11

ततो मन्वन्तराख्यानं पृथक्पृथग्विभागशः ।
पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम्

1.108.12

श्राद्धं विनायकस्यार्चा ग्रहयज्ञस्तथआ श्रमाः ।
जननाख्यं प्रेतशौचं नीतिशास्त्रं व्रतोक्तयः

1.108.13

सूर्यवंशः सोमवंशो ऽवतारकथनं हरेः ।
रामायणं हरेर्वंशो भारताख्यानकं ततः

1.108.14

आयुर्वेदनिदानं प्राक् चिकिकत्सा द्रव्यजा गुणाः ।
रोगघ्नं कवचं विष्णोर्गारुडं त्रैपुरो मनुः

1.108.15

प्रश्नचूडामणिश्चान्तो हयायुर्वेदकीर्तनम् ।
ओषघीनाम कथनं ततो व्याकरणोहनम्

1.108.16

छन्दः शास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः ।
तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च

1.108.17

नित्यश्राद्धं सर्पिडाख्यं धर्मसारो ऽघनिष्कृतिः ।
प्रतिसंक्रम उक्ताः स्म युगधर्माः कृतेः फलम्

1.108.18

योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः ।
माहात्म्यं वैष्णवं चाथ नारसिंहस्तवोत्तमम्

1.108.19

ज्ञानामृतं गुहुष्टकं स्तोत्रं विष्ण्वर्चनाह्वयम् ।
वेदान्तसांख्यसिद्धान्तो ब्रह्मज्ञानं तथाल्मकम्

1.108.20

गीतासारः फलोत्कीर्तिः पूर्वखण्डो ऽयमीरितः ।
अथास्यैवोत्तरे खण्डे प्रेतकल्पः पुरोदितः

1.108.21

यत्र तार्क्ष्येण संपृष्टो भगवानाह वाडवाः ।
धर्मप्रकटनं पूर्वं योगिनां गतिकारणम्

1.108.22

दानादिकं फलं चापि प्रोक्तमन्त्रोर्द्धदैहिकम् ।
यमलोकस्थमार्गस्य वर्णन च तः परम्

1.108.23

षोडशश्राद्धफलको वृत्तान्तश्चात्र वर्णितः ।
निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम्

1.108.24

प्रेतपीडांविनिर्द्देशः प्रेतचिह्ननिरूपणम् ।
प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति

1.108.25

प्रेतकृत्यविचारश्च सर्पिडीकरणोक्तयः ।
प्रेतत्वमोक्षणाख्यानं दानानि च विमुक्तये

1.108.26

आवश्यकोत्तमं दानं प्रेतसौख्यकरोहनम् ।
शारीरकविनिर्देशो यमलोकस्य वर्णनम्

1.108.27

प्रेतत्वोद्धारकथनं कर्मकृर्त्तृविनिर्णयः ।
मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम्

1.108.28

मध्यषोडशकश्राद्धं स्वर्गप्राप्तिक्रियोहनम् ।
सूतकस्याथ संख्यांनं नारायणबलिक्रिया

1.108.29

वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् ।
अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम्

1.108.30

कृत्याकृत्यविचारश्च विष्णुध्यानविमुक्तये ।
स्वर्गतौ विहिताख्यानं स्वर्गसौख्यनिरूपणम्

1.108.31

भूर्लोकवर्णनं चैव सप्ताधोलोकवर्णनम् ।
पञ्चोर्द्ध्वलोककथनं ब्रह्माण्डस्थितिकीर्तनम्

1.108.32

ब्रह्माण्डानेकचरितं ब्रह्मजीवनिरूपणम् ।
आत्यन्तिकं लयाख्यानं फलस्तुति निरूपणम्

1.108.33

इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम् ।
कीर्तितं पापशमनं पठतां शृण्वतां नृणाम्

1.108.34

लिखित्वैतत्पुराणं तु विषुवे यः प्रयच्छति ।
सौवर्णहंसयुग्माढ्यं विप्राय स दिवं व्रजेत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc