भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.107

1.107.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपराणानुक्रमणीकथनं नाम षडुत्तरशततमो ऽध्यायः
ब्रह्मोवाच
अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्विजसत्तम ।
यत्रोक्तं सप्तकल्पानां वृत्तं संक्षिप्य भूतले

1.107.2

व्यासेन वेदविदुषा नारसिंहोपवर्णने ।
उपक्रम्य तदुद्दिष्टं चतुर्द्दशसहस्रकम्

1.107.3

मनुमत्स्यसुसंवादो ब्रह्माण्डकथनं ततः ।
ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च

1.107.4

मदनद्वादशी तद्वल्लोकपालाभिपूजनम् ।
मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनम्

1.107.5

सूर्यवैवस्वतोत्पत्तिर्बुधसंगमनं तथा ।
पितृवंशानुकथनं श्रद्धाकालस्तथैव च

1.107.6

पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च ।
कीर्तनं सोमवंशस्य ययातिचरितं तथा

1.107.7

पितृवंशानुकथनं सृष्टवंशानुकीर्तनम् ।
भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ

1.107.8

कीर्त्तनं पूरुवंशस्य वंशो हौताशनः परम् ।
क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम्

1.107.9

व्रतं नक्षत्रपुरुषं मार्तण्डशयनं तथा ।
कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम्

1.107.10

तडागविधि माहात्म्यं पादपोत्सर्ग एव च ।
सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च

1.107.11

तथानन्ततृतीयाया रसकल्याणिनीव्रतम् ।
तथैवानं दकर्याश्च व्रतं सारस्वतं पुनः

1.107.12

उपरागाभिषेकश्च सप्तमीशनं तथा ।
भीमाख्या द्वादशी तद्वदनङ्गशयनं तथा

1.107.13

अशून्यशयनं तद्वत्तथैवाङ्गारकव्रतम् ।
सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम्

1.107.14

मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च ।
ग्रहस्वरूपकथनं तथा शिवचतुर्दशी

1.107.15

तथा सर्वफलत्यागः सूर्यवारव्रतं तथा ।
संक्रान्तिस्नपनं तद्वद्विभूतिद्वादशीव्रतम्

1.107.16

षष्टीव्रतानां माहात्म्यं तथा स्नानविधिकमः ।
प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम्

1.107.17

तथान्तरिक्षचारश्च ध्रुवमाहात्म्यमेव च ।
भवनानि सुरेद्राणां त्रिपुरोद्योतनं तथा

1.107.18

पितृप्रवरमाहात्म्यं मन्वन्तरविनिर्णयः ।
चतुर्युगस्य संभूतिर्युगधर्मनिरूपणम्

1.107.19

वज्राङ्गस्य तु संभूति स्तारकोत्पत्तिरेव च ।
तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम्

1.107.20

पार्वतीसंभवस्तद्वत्तथा शिवतपोवनम् ।
अनङ्गदेहदाहश्च रतिशोकस्तथैव च

1.107.21

गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम् ।
पार्वतीऋषिसंवादस्तथैरोद्वाहमङ्गलम्

1.107.22

कुमारसंभवस्तद्वत्कुमारविजयस्तथा ।
तारकस्य वधो घोरो नरसिंहोपवर्णनम्

1.107.23

पद्मोद्भवविसर्गस्तु तथैवान्धकघातनम् ।
वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च

1.107.24

प्रवरानुक्रमस्तद्वत्पितृगाथानुकीर्तनम् ।
तथोभयमुखीदानं दानं कृष्णाजिनस्य च

1.107.25

ततः सावित्र्युपाख्यानं राजधर्मास्तथैव च ।
विविधोत्पातकथनं ग्रहणान्तस्तथैव च

1.107.26

यात्रानिमित्तकथनं स्वप्नमङ्गलकीर्तने ।
वामनस्य तु माहात्म्यं वाराहस्य ततः परम्

1.107.27

समुद्रमथनं तद्वत्कालकूटाभिशान्तनम् ।
देवासुरविमर्दश्च वास्तुविद्या तथैव च

1.107.28

प्रतिमालक्षणं तद्वद्देवतायतनं तथा ।
प्रासादलक्षणं तद्वन्मण्डपान च लक्षणम्

1.107.29

भविष्यराज्ञामुद्देशो महादानानुकीर्तनम् ।
कल्पानुकीर्तनं तद्वत्पुराणे ऽस्मिन्प्रकीर्तितम्

1.107.30

पवित्रमेतत्कल्याणमायुः कीर्तिविवर्द्धनम् ।
यः पठेच्छृणुयाद्वापि स याति भवनं हरेः

1.107.31

लिखित्वैतत्तु यो दद्याद्धेममत्स्यगवान्वितम् ।
विप्रायाभ्यर्च्य विषुवे स याति परमं पदम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc