नामलिङ्गानुशासन · अध्याय 3.5
सलिङ्गशास्त्रैः सन्नादि कृत् तद्धित समासजैः
अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत्
लिङ्गशेषविधिर् व्यापी विशेषैर् यद्यबाधितः
स्त्रियामीदूद्विरामैकाच् सयोनिप्राणिनाम च
नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम्
अदन्तैर् द्विगुरेकार्थो न स पात्रयुगादिभिः
तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन्
स्त्रीभावादावनि क्तिण् ण्वुल् णच् ण्वुच् क्यब् युजिञ्ङ् नि शाः
उणादिषु निरूरीश्च ङ्याषूडन्तं चलं स्थिरम्
तत्क्रीडायां प्रहरणं चेन् मौष्टा पाल्लवा ण दिक्
घञो ञः सा क्रियास्यां चेद् दाण्डपाता हि फाल्गुनी
श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक्
स्त्री स्यात्काचिन् मृणाल्यादिर् विवक्षापचये यदि
लङ्का शेफालिका टीका धातकीपञ्चिकाढकी
सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका
तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः
पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत्
सातिः कन्था तथासन्दी नाभी राजसभापि च
झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला
लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी
। इति स्त्रीलिङ्ग संग्रहः
पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः
स्वर्गयागाद्रिमेघाब्धि द्रु कालासिशरारयः
करगण्डोष्ठदोर्दन्तकन्ठकेशनखस्तनाः
अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः
श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः
कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः
कषणभमरोपान्ता यद्यदन्ता अमी अथ
पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः
नाम्न्यकर्तरि भावे च घञ् जब् नङ् ण घाथुचः
ल्युः कर्तरीमनिच् भावे को घोः किः प्रादितोन्यतः
द्वन्द्वे ऽश्ववडवावश्ववडवा न समाहृते
कान्तः सूर्येन्दुपर्यायपूर्वो ऽयः पूर्वको.पि च
वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः
पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः
कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत्
गडुः करण्डो लगुडो करण्डश्च किणो घुणः
दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः
कासमर्दो ऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ
आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः
पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः
वेतालभल्लमल्लाश्च पुराडाशो ऽपि पट्टिशः
कुल्माषो रभसश्चैव सकटाहः पतद्रहः
। इति पुंलिङ्गशेषसंग्रहः
द्विहीने ऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम्
शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम्
फलहेमशुल्बलोहसुखदुह्खशुभाशुभम्
जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम्
कोट्याः शतादिसंख्यान्या वा लक्षा नियुतं च तत्
द्वयष्कमसिसुसन्नन्तं यदनान्तमकर्तरि
त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम्
पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः
द्वन्द्वैक्त्वाव्ययीभावौ पथः संख्याव्ययात्परः
शड्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा
शालार्थापि परा राजामनुष्यार्थादराजकात्
दासीसभं नृपसभं रक्षस्सभमिमा दिशः
उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने
कोपज्ञकोपक्रमादि कन्थोशीनरनामसु
भावे न णकचिद्भ्यो ऽन्ये समूहे भावकर्मणोः
अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः
क्रियाव्ययानां भेदकान्येकत्वे ऽप्युक्थतोटके
चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम्
राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः
माणिक्यभाष्यसिन्दूरचीरचीवरपिञ्जरम्
लोकायतं हरितालं विदलस्थालबाह्लिकम्
। इति नपुंसकशेषसंग्रहः
पुन्नपुंसकयोः शेषो ऽर्धर्चपिण्याककण्टकाः
मोदकस्तण्डकष्टङ्कः शाटकः कर्पटो ऽर्बुदः
पातकोद्योगचरकतमालामलका नडः
कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम्
संगमं शतमानार्मशम्बलाव्ययताण्डवम्
कवियं कन्दकार्पासं पारावारं युगन्धरम्
यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ
अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम्
तन् नोक्तमिह लोके ऽपि तच् चेदस्त्यस्तु शेषवत्
। इति पुन्नपुंसकशेषसंग्रहः
स्त्रीपुंसयोरपत्यान्ता द्विचतुष्षट्पदोरगाः
जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः
ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः
मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी
। इति स्त्रीपुंसशेषसंग्रहः
स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ् क्वचिच्च वुञ्
औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः
षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः
स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक्
आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप्
त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि
। इति स्त्रीनपुंसकशेषसंग्रहः
त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ
इति त्रिलिङ्गशेषसंग्रहः
परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषे ऽपि तत्
अर्थान्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः
तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः
बहुर्व्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम्
गुणद्रव्यक्रियायोगोपाधयः परगामिनः
कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि
अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः
षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम्
परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः
इति लिङ्गादिसंग्रहवर्गः: 5, अत्र मूलश्लोकाः 46
इत्यमरसिंहकृतौ नामलिङ्गानुशासने
सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः
इति तृतीयः सामान्यकाण्डः समाप्तः
इत्यमरसिंहकृतं नामलिङ्गानुशासनम्
काण्डत्रयात्मकं साङ्गोपाङ्गं संपूर्णतामगात् ।
अत्र मूलश्लोकाः: 480, क्षे. श्लोकाः:25 सर्वे च मिलित्वा:513
अमरकोशस्थश्लोकानां कोष्टकम्
प्र. काण्डे मू. श्लो. 281\, क्षे. श्लो. 18\, सर्वे च मिलित्वा 299
द्वि. काण्डे मू. श्लो. 735\, क्षे. श्लो. 14\, सर्वे च मिलित्वा 750
त्रि. काण्डे मू. श्लो. 480\, क्षे. श्लो. 25\, सर्वे च मिलित्वा 513
एवं सर्वेषां काण्डानां योगः मू. श्लो. 1497\, क्षे.श्लो. 58\, सर्वे च
मिलित्वा 1563
मूल पाठ: Nāmaliṅgānuśāsana = Amarakośa · Data entry Avinash Sathaye · GRETIL (Göttingen) · CC BY-NC-SA 4.0