नागानन्द · अध्याय 5
इति चतुर्थो ऽङ्कः ।
पञ्चमो ऽङ्कः
प्रतीहारः-
स्वगृहोद्यानगते ऽपि स्निग्धे पापं विशङ्क्यते स्नेहात् ।
किमु दृष्तवह्वपायप्रतिभयकान्तारमध्यस्थे?
क्षौमे भङ्गवतीइ तरङ्गितदशे फेनाम्बुतुल्ये वहन्
जाह्नव्येव विराजितः सवयसा देव्या महापुण्यया ।
धत्ते तोयनिधेरयं सुसदृशीं जीमूतकेतुः श्रियं
यस्यैषान्तिकवर्त्तिनी मलयवत्याभाति वेला यथा
भुक्तानि यौवनसुखानि यशो ऽवकीर्णं
राज्ये स्थितं स्थिरधिया चरितं तपो ऽपि ।
श्लाध्यः सुतः सुसदृशान्वयजा स्नुषेयं
चिन्त्यो माय ननु कृतार्थतयाद्य मृत्युः
स्फुरसि किमु दक्षिणेतर ! मुहुर्मुहुः सूचयन्ममानिष्टम् ।
हतचक्षुरपहतं ते स्फुरितं मम पुत्रकः कुशली
आलोक्यक्यमानमतिलोचनदुःखदायिरक्तच्छटानिजमरीचिरुचो विमुञ्चत् ।
उत्पातवाततलीकृततारकाभमेतत्पुरः पतति किं सहसा नभस्तः?
तार्क्ष्येण भक्ष्यमाणानां पन्नगानामनेकशः ।
उल्कारूपाः पतन्त्येते शिरोमणय ईदृशाः
गोकर्णमर्णवतटे त्वरितं प्रणम्य प्राप्तो ऽस्मि तां खलु भुजङ्गमवध्यभूमिम् ।
आढाय तं नखमुखक्षतसञ्च विद्याधरं गगनमुत्पतितो गरुत्मान् !
नाहित्राणत्कीर्तिरेका मयाप्ता नापि श्लाघ्या स्वामिनो ऽनुष्ठिताज्ञा ।
दत्त्वात्मानं रक्षितो ऽन्येन शोच्यो हा धिक् ! कष्टं ! वञ्चितो वञ्चितो ऽस्मि
आदावुत्पीडपृथ्वीं प्रविरलपतितां स्थूलबिन्दुं ततो ऽग्रे
ग्रावस्वापातशीर्णप्रसृततनुकणां कीटकीर्णा स्थलीषु ।
दुर्लक्ष्यां धातुभित्तौ घतनरुशिखरे स्त्याननीलस्वरूपा-
मेनां ताक्ष्य दिदृक्षुर्निपुणमनुसरन् रक्तधारां व्रजामि
आवेदय ममात्मीयं पुत्र ! दुखं सुदुःसहम्
मयि सङ्क्रान्तमेतत्ते येन सह्यं भविष्यति
विद्याधरेण केनापि करुणाविष्टचेतसा ।
मम संरक्षिताः प्राणा दत्त्वात्मानं गरुत्मत्ते
चूडामणिं चरणयोर्मम पातयता त्वया ।
लोकान्तरगतेनापि नोज्झितो विनयक्रमः !
भक्त्या सुदूरमवनामितनम्रमौलेः शश्वत्तव प्रणमतश्चरणौ मदीयौ ।
चूडामणिर्निकषणौर्मसृणो ऽप्यहिंस्त्रः गाढं विदारयति मे हृदयं कथं नु?
कुर्वाणो रुधिरार्द्रचञ्चुकषणैर्द्रोणीरिवाद्रेस्तटीः
प्लुष्टोपान्तवतान्तरः स्वनयनज्योतिःशिखाश्रेणिभिः ।
सज्जद्वज्रकठोघोरनखरप्रान्तावगाढावनिः
श्रृङ्गाग्रे मलयस्य पन्नगरिपुर्दूरादयं दृश्यते
ग्लानिर्नाधिकपीयमानरुधिरस्याप्यस्ति धैर्य्योदधे-
र्मासोत्कर्त्तनजा रूजो ऽपि वहतः प्रसन्नं मुखम् ।
गात्रं यन्न विलुप्तमेष पुलकस्तत्र स्फुटो लक्ष्यते
दृष्टिर्मय्युपकारिणीव निपतत्यस्यापकारिण्यपि
शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसभस्ति ।
तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात्त्वं विरतो गरुत्मन्!
आवर्जितं मया चञ्च्वा हृदयात् तव शोणितम् ।
अनेन धैर्य्येण पुनस्त्वया हृदयमेव नः
आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नालोक्यते कञ्चुकः
जिह्वे जल्पत एव मे न गणिते नाम त्वया द्वे अपि !
तिस्त्रस्तीव्रविषाग्निधूमपटलव्याजिह्यरत्नत्विषो
नैता दुःसहशोकशूत्कृतमरुत्स्फीताः फणाः पश्यसि !
मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले ।
कैलासस्य शिलातलेषु मलयप्राग्भारदेशेष्वपि ।
उद्देशेष्वपि तेषु तेषु बहुशो यस्य श्रुतं तन्मया ।
लोकालोकविचारणगणैरुदुगीयमानं यशः
स्वशरीरेण शरीरं तार्क्ष्यात् परिरक्षता मदीयमिदम् ।
युक्तं नेतुं भवता पातालतलादपि तलं माम्?
आत्मीयः पर इत्ययं खलु कुतः सत्यं कृपायाः क्रमः?
किं रक्षामि बहून् किमेकमिति ते जाता न चिन्ता कथम्?
तार्क्ष्यात्त्रातुमहिं स्वजीवितपरित्यागं त्वया कुर्वता
येनात्मा पितरौ वधूरिति हतं निःशेषमेतत्कुलम्
ज्वालाभङ्गैस्त्रिकग्रसनरसचलत्कालजिह्वाग्रकल्पैः
सर्पद्भिः सप्त सर्पिष्कणमिव कवलीकर्त्तुमीशे समुद्रान् ।
स्वैरेवोत्पातवातप्रसरपटुतरैर्धुक्षिते पक्षवातै-
रस्मिन् कल्पावसानज्वलनभयकरे वाडवाग्नौ पतामि
विलुप्तशेषाङ्गतया प्रयातान् निराश्रयत्वादिव कण्ठदेशम् ।
प्राणांस्त्यजन्तं तनयं निरीक्ष्य कथं न पापः शतधा व्रजामि
मेदोस्थिमांसमज्जासृक्सङ्घाते ऽस्मिंस्त्वचावृते ।
शरीरनाम्नि का शोभा सदा बीभत्सदर्शने?
नित्यं प्राणाभिघातात् प्रतिविरम कुरु प्राक्कृतस्यानुतापं
यत्नात् पुण्यप्रवाहं समुपचिनु दिशन्न् सर्वसत्त्वेष्वभीतिम् ।
मग्नं येनात्र नैनः फलति परिणतं प्राणिहिंसासमुत्थं
दुर्गाधे वारिपूरे लवणपलमिव क्षिप्तमन्तर्ह्रदस्य
अज्ञाननिद्राशयितो भवता प्रतिबोधितः ।
सर्वप्राणिवधादेष विरतो ऽद्य प्रभृत्यहम्
क्वचिदूद्वीपाकारः पुलिनविपुलैर्भोगनिवहैः
कृतावर्त्तभ्रान्तिर्वलयितशरीरः क्वचिदपि ।
व्रजन् कूलात् कूलं क्वचिदपि च सेतुप्रतिसमः
समाजो नागानां विहरतु महोदन्वति सुखम्
स्रस्तानापादलम्बान् घनतिमिरनिभान् केशपाशान् वहन्त्यः
सिन्दूरेणेव दिग्धैः प्रथमरविकरस्पर्शताम्रैः कपोलैः ।
आयासेनालसाङ्गयो ऽप्यवगणितरुजः कानने चन्दनाना-
मस्मिन् गायन्तु रागादुरगयुवतयः कीर्तिमेतां तवैव
उत्प्रेक्षमाणा त्वां तार्क्ष्यचञ्चुकोटिविपाटितम् ।
त्वदूदुःखदुःखिता नूनमास्ते सा जननी तव
गात्राण्यमूनि न वहन्ति सचेतनत्वं श्रात्रं स्फुटाक्षरपदां न दिरं श्रृणोति ।
कष्टं निमीतिलमिदं सहसैव चक्षुर्हा तात ! यान्ति विवशस्य ममासवो ऽमी
निराधारं धैर्य्य कमिव शरणं यातु विनयः?
क्षमः क्षान्तिं वोढुं क इह विरता दानपरता ।
हतं सत्यं सत्यं व्रजतु कृपणा क्वाद्य करुणा?
जगज्जातं शून्यं त्वयि तनय लोकान्तरगते
पक्षोत्क्षिप्ताम्बुनाथः पटुतरजवनैः प्रेर्य्यमाणैः समीरैः
नेत्राग्निप्लोषमूर्च्छाविधुरविनिपतत्सानलद्वादशार्कः ।
चञ्च्वा सञ्चूर्ण्य शक्राशनिधनदगदाप्रेतलोकेशदण्डान्
आजौ निर्जत्य देवान् क्षणममृतमयीं वृस्टिमभ्युत्सृजामि
उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णोयमन्तर्भ्रुवो-
श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्धते ।
चक्राङ्कौ चरणौ तथापि हि कथं हा वत्स मदूदुष्कृतै-
स्त्वं विद्याधरचक्रवर्तिपदवीमप्राप्य विश्राम्यसि
निजेन जीवितेनापि जगतामुपकारिणः ।
परितुष्टास्मि ते वत्स ! जीव जीमूतवाहन
अभिलषिताधिकवरदे ! प्रणिपतितजनार्त्तिहारिणि ! शरण्ये !
चरणौ नमाम्यहं ते विद्यावरपूजिते ! गौरि !
सम्प्राप्ताखण्डदेहाः स्फुटफणमणिभिर्भासुरैरुत्तनाङ्गै-
र्जिह्वाकोटिद्वयेन क्षितिममृतरसास्वादलोभाल्लिहन्तः ।
सम्प्रत्याबद्धवेगा मलयगिरिसरिद्वारिपूरा इवामी
वक्रैः प्रस्थानमार्गेर्विषधरपतयस्तोयराशिं विशन्ति
हंसासेवितेमपङ्कजरजःसम्पर्कपङ्कोज्झितै-
रुत्पन्नैर्मम मानसादुपनतैस्तोयैर्महापावनैः ।
स्वेच्छानिर्मितरत्नकुम्भनिहितैरेषाभिषिच्य स्वयं
त्वां विद्याधरचक्रवर्त्तिनमहं प्रीत्या करोमि क्षणात्
अग्रेसरीभवतु काञ्चनक्रमेतदेष द्विपश्च धवलो दशनैश्चतुर्भिः ।
श्यामो हरिर्मलयवत्यपि चेत्यमूनि रत्नानि ते समवलोक्य चक्रवर्त्तिन् !
त्रातो ऽयं शङ्खचूडः पतगपतिमुखाद्वैनतेयो विनीत-
स्तेन प्राग्भक्षिता ये विषधरपतयो जीवितास्ते ऽपि सर्वे ।
मत्प्राणाप्त्या विमुक्ता न गुरुभिरसवश्चक्रवर्त्तित्वमाप्तं
साक्षात्त्वं देवि ! दृष्टा प्रियमपरमतः किं पुनः प्रार्थ्यते यत्
वृष्टिं हृष्टशिखण्डताण्डवभृतो मुञ्चन्तु काले धनाः
कुर्वन्तु प्रतिरूढसन्ततहरिच्छस्योत्तरीयां क्षितिम् ।
चिन्वानाः सुकृतानि वीतविपदो निर्मन्सरैर्मानिसै-
र्मोदन्तां सततं च बान्धवसुहृद्गोष्ठिप्रमोदाः प्रजाः
शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः
मूल पाठ: Nāgānanda · Edition: Sansarachandra, Motilal Banarsidas: Delhi 1997. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0