नागानन्द · अध्याय 4
इति तृतीयो ऽङ्क ।
चतुर्थो ऽङ्कः
कञ्चुकी-
अन्तःपुराणां विहितव्यवस्थः पदे पदे ऽहं स्खलनानि रक्षन् ।
जरातुरः सम्प्रति दण्डनीत्या सर्वां नृपस्यानुकरोमि वृत्तिम्
शय्या शाद्वलमासनं शुचिशिला सद्म द्रुमाणामधः
शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ।
इत्यप्रार्थितलभ्यसर्वविभवे दोषो ऽयमेको वने
दुष्प्रापार्थिनि यत् परार्थघटनावन्ध्यैर्वृथा स्थीयते
उन्मज्जज्जलकुञ्जरेन्द्ररभसास्फालानुबन्धोद्धतः
सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिताः ।
उच्चैरुच्चरति ध्वनिः श्रुतिपथोन्माथी यथायं तथा
प्रायः प्रेङ्खदसंख्यशङ्खधवला वेलेयमागछति
कवलितलवङ्गपल्लकरिमकरोदूगारिसुरभिणा पयसा ।
एषा समुद्रवेला रत्नद्युतिरञ्जिता भाति
जिह्वासहस्रद्वितयस्य मध्ये नैकापि सा तस्य किमस्ति जिह्वा ।
एकाहिरक्षार्थमहिद्विषे ऽद्य दत्तो मयात्मेति यया ब्रवीति
इत्येष भोगिपतिना विहितव्यवस्थो यान् भक्षयत्यहिपतीन् पतगाधिराजः ।
यास्यन्ति यान्ति च गताश्च दिनैर्बिवृद्धिं तेषाममी तुहिनशैलरुचो ऽस्थिकूटाः
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ।
शरीरकस्यापि कृते मूढाः पापानि कुर्वते !
क्रोडीकरोति प्रथमं यदा जातमनित्यता ।
धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः?
मूढाया मुहुरश्रुसन्ततिमुचः कृत्वा प्रलापान् बहून्
कस्त्राता तव पुत्रकेति कृपणं दिक्षु क्षिपन्त्या दृशम् ।
अङ्के मातुरवस्थितं शिशुमिमं त्यक्त्वा घृणामश्नतः
चञ्चुर्नैव खगाधिपस्य हृदयं वज्रेण मन्ये कृतम्।9 ॥
यैरत्यन्तदयापरैर्न विहिता वन्ध्यार्थिनां प्रार्थना
यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थ प्रति ।
ये नित्यं परदुःखदुःखितधियस्ते साधवो ऽस्तं गता
मातः ! संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते?
आर्त्त कण्ठगतप्राणं परित्यक्तं स्वबन्धुभिः ।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः
अस्या विलोक्य मन्ये पुत्रस्नेहेन विक्लवत्वमिदम् ।
अकरुणहृदयः करुणां कुर्वीत भुजङ्गशत्रुरपि
महाहिमस्तिष्कविभेदमुक्तरक्तच्छटाचर्च्चितचण्डचञ्चुः ।
क्वासौ गरुत्मान् क्व च नाम सौम्यस्वभावरूपाकृतिरेष साधुः?
ममैतदम्बार्पय वध्यचिह्नं प्रावृत्य यावद्विनतात्मजाय ।
पुत्रस्य ते जीवितरक्षणाय स्वदेहमाहारयितुं ददामि
विश्वामित्रः श्वमांसं श्वपच इव पुराभक्षयद्यन्निमित्तं
नादिजङ्घो निजध्ने कृततदुपकृतिर्यत्कृते गौतमेन ।
पुत्रो ऽयं कश्यपस्य प्रतिदिनमुरगानत्ति तार्क्ष्यो यदर्थं
प्राणांस्तानेष साधुस्तृणमिव कृपया यः परार्थ ददाति
जायन्ते च म्रियन्ते च मादृशाः क्षुद्रजन्तवः ।
परार्थेबद्धकक्षाणां त्वादृशामुद्भवः कुतः?
म्रियते म्रियमाणे या त्वयि जीवति जीवति ।
तां यदीच्छसि जीवन्तीं रक्षात्मानं ममासुभिः
चञ्चच्चञ्चूद्धृतार्द्ध च्युतपिशितलवग्राससंवृद्धगर्द्धै-
र्गृद्धैरारब्धपक्षद्वितयविधुतिभिर्बद्धसान्द्रान्धकारे ।
वक्त्रोद्धान्ताः पतन्त्यश्छमिति शिखिशिखाश्रेणयोस्मिन् शिवाना-
मस्रस्रोतस्मजस्रस्रु तबहलवसावासविस्रे स्वनन्ति
प्रतिदिनमशून्यमहिकाहारेण विनायकाहितप्रीति ।
शशिधवलास्थिकपालं वपुरिव रौद्रं श्मशानमिदम्
समुत्पस्यामहे मातर्यस्यां यस्यां गतौ वयम् ।
तस्यां तस्यां प्रियसुते ! माता भूयास्त्वमेव नः
वासोयुगमिदं रक्तं प्राप्ते आले समागतम् ।
महतीं प्रीतिमाधत्ते परार्थे देहमुज्झतः
तुल्याः संवर्त्तकाभ्रईः पिदधति गगनं पङ्क्तयः पक्षतीनां
तीरे वेगानिलो ऽम्भः क्षिपति भुव इव लावनायाम्बुराशेः ।
कुर्वन् कल्पान्तशङ्कां सपदि च सभयं वीक्षितो दिग्द्विपेन्द्रै-
र्देहोद्योतो दशाशाः कपिशयति मुहुर्द्वादशादित्यदीप्तिः
न तथा सुखयति मन्ये मलयवती मलयचन्दनरसार्द्रा ।
अभिवाञ्छितार्थसिद्धत्यै वध्यशिलेयं यथाश्लिष्टा
शयितेन मातुरङ्के विस्रब्धं शैशवे न तत् प्राप्तम् ।
लब्धं सुखं मयास्या वध्यशिलाया यदुत्सङ्गे
क्षिप्त्वा बिम्बं हिमंशोर्भयकृतवलयां संमरञ्छेषमूर्त्ति
सानन्दं स्यन्दनाश्वत्रसनविचलिते पूष्णि दृष्टो ऽग्रजेन ।
एष प्रान्तावसज्जज्जलधरपटलैअरायतीभूतपक्षः
प्राप्तो वेलामहीध्रं मलयमहिग्रासगृध्नुः क्षणेन
संरक्षता पन्नगमद्य पुण्यं मयार्जितं यत्स्वशरीरदानात् ।
भवे भवे तेन ममैवमेवं भूयात् परार्थः खलु देहलाभः
अस्मिन्वध्यशिलातले निपतितं शेषानहीन् रक्षितुं
निर्भिद्याशनिदण्डचण्डतरया चञ्च्वाधुना वक्षसि ।
भोक्तुं भोगिनमुद्धरामि तरसा रक्ताम्बरप्रावृतं
दिग्धं मद्भयदीर्य्यमाणहृदयप्रस्यन्दिनेवासृजा
आमोदानन्दितालिर्निपतति किमियं पुस्पवृष्टिर्नभस्तः?
स्वर्गे किं वैष चक्रं मुखरयति दिशां दुन्दुभीनां निनादः?
आं ज्ञातं ! सो ऽपि मन्ये मम जवमरुता कम्पितः पारिजातः
सर्वैः संवर्त्तकाभ्रैरिदमपि रसितं जातसंहारशङ्कैः
नागानां रक्षिता भाति गुरुरेष यथा मम ।
तथा सर्पाशिनाकाङ्क्षां व्यक्तमद्यापनेष्यति
मूल पाठ: Nāgānanda · Edition: Sansarachandra, Motilal Banarsidas: Delhi 1997. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0