भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 9

9.1

दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ ।
भवन्ति यस्य प्राग् एभ्यः सो ऽस्तीत्य् एके वदन्त्युत

9.2

कथं ह्य् अविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात् प्राग् एभ्यः सो ऽस्ति भावो व्यवस्थितः

9.3

दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग् व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः

9.4

विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्य् अपि भविष्यन्ति विना तेन न संशयः

9.5

अज्यते केनचित् कश्चित् किंचित् केन चिद् अज्यते ।
कुतः किंचिद् विना कश्चित् किंचित् किंचिद् विना कुतः

9.6

सर्वेभ्यो दर्शनादिभ्यः कश्चित् पूर्वो न विद्यते ।
अज्यते दर्शनादिनाम् अन्येन पुनर् अन्यदा

9.7

सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।
एकैकस्मात् कथं पूर्वो दर्शनादेः स विद्यते

9.8

द्रष्टा स एव स श्रोता स एव यदि वेदकः ।
एकैकस्माद् भवेत् पूर्वम् एवं चैतन् न युज्यते

9.9

द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर् यदि ।
सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत्

9.10

दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ ।
भवन्ति येभ्यस् तेष्व् एष भूतेष्व् अपि न विद्यते

9.11

दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ ।
न विद्यते चेद् यस्य स न विद्यन्त इमान्य् अपि

9.12

प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वम् एव च ।
न विद्यते ऽस्ति नास्तीति निवृत्तास् तत्र कल्पनाः

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc