मूलमध्यमककारिका · अध्याय 10
यद् इन्धनं स चेद् अग्निर् एकत्वं कर्तृकर्मणोः ।
अन्यश् चेद् इन्धनाद् अग्निर् इन्धनाद् अप्य् ऋते भवेत्
नित्यप्रदीप्त एव स्याद् अप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यम् एवं चाकर्मकः सति
परत्र निरपेक्षत्वाद् अप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते
तत्रैतत् स्याद् इध्यमानम् इन्धनं भवतीति चेत् ।
केनेध्यताम् इन्धनं तत् तावन्मात्रम् इदं यदा
अन्यो न प्राप्स्यते ऽप्रप्तो न धक्ष्यत्य् अदहन् पुनः ।
न निर्वास्यत्य् अनिर्वाणः स्थास्यते वा स्वलिङ्गवान्
अन्य एवन्धनाद् अग्निर् इन्धनं प्राप्नुयाद् यदि ।
स्त्री संप्राप्नोति पुरुषं पुरुषश् च स्त्रियं यथा
अन्य एवेन्धनाद् अग्निर् इन्धनं कामम् आप्नुयात् ।
अग्नीन्धने यदि स्याताम् अन्योन्येन तिरस्कृते
यदीन्धनम् अपेक्ष्याग्निर् अपेक्ष्याग्निं यदीन्धनम् ।
कतरत् पूर्वनिष्पन्नं यद् अपेक्ष्याग्निर् इन्धनम्
यदीन्धनम् अपेक्ष्याग्निर् अग्नेः सिद्धस्य साधनम् ।
एवं सतीन्धनं चापि भविष्यति निरग्निकम्
यो ऽपेक्ष्य सिध्यते भावस् तम् एवापेक्ष्य सिध्यति ।
यदि यो ऽपेक्षितव्यः स सिध्यतां कम् अपेक्ष्य कः
यो ऽपेक्ष्य सिध्यते भावः सो ऽसिद्धो ऽपेक्षते कथम् ।
अथाप्य् अपेक्षते सिद्धस् त्व् अपेक्षास्य न युज्यते
अपेक्ष्येन्धनम् अग्निर् न नानपेक्ष्याग्निर् इन्धनम् ।
अपेक्ष्येन्धनम् अग्निं न नानपेक्ष्याग्निम् इन्धनम्
आगच्छत्य् अन्यतो नाग्निर् इन्धने ऽग्निर् न विद्यते ।
अत्रेन्धने शेषम् उक्तं गम्यमानगतागतैः
इन्धनं पुनर् अग्निर् न नाग्निर् अन्यत्र चेन्धनात् ।
नाग्निर् इन्धनवान् नाग्नाव् इन्धनानि न तेषु सः
अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ।
सर्वो निरवशेषेण सार्धं घटपटादिभिः
आत्मनश् च सतत्त्वं ये भावानां च पृथक् पृथक् ।
निर्दिशन्ति न तान् मन्ये शासनस्यार्थकोविदान्
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0