मूलमध्यमककारिका · अध्याय 8
सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्य् असद्भूतः कर्मासद्भूतम् ईहते
सद्भूतस्य क्रिया नास्ति कर्म च स्याद् अकर्तृकम् ।
सद्भूतस्य क्रिया नास्ति कर्ता च स्याद् अकर्मकः
करोति यद्य् असद्भूतो ऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत् कर्म कर्ता चाहेतुको भवेत्
हेताव् असति कार्यं च कारणं च न विद्यते ।
तदभावे क्रिया कर्ता कारणं च न विद्यते
धर्माधर्मौ न विद्येते क्रियादीनाम् असंभवे ।
धर्मे चासत्य् अधर्मे च फलं तज्जं न विद्यते
फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते
कारकः सदसद्भूतः सदसत् कुरुते न तत् ।
परस्परविरुद्धं हि सच् चासच् चैकतः कुतः
सता च क्रियते नासन् नासता क्रियते च सत् ।
कर्त्रा सर्वे प्रसज्यन्ते दोषास् तत्र त एव हि
नासद्भूतं न सद्भूतः सदसद्भूतम् एव वा ।
करोति कारकः कर्म पूर्वोक्तैर् एव हेतुभिः
नासद्भूतो ऽपि सद्भूतं सदसद्भूतम् एव वा ।
करोति कारकः कर्म पूर्वोक्तैर् एव हेतुभिः
करोति सदसद्भूतो न सन् नासच् च कारकः ।
कर्म तत् तु विजानीयात् पूर्वोक्तैर् एव हेतुभिः
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते नान्यत् पश्यामः सिद्धिकारणम्
एवं विद्याद् उपादानं व्युत्सर्गाद् इति कर्मणः ।
कर्तुश् च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत्
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0