भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 7

7.1

यदि संस्कृत उत्पादस् तत्र युक्ता त्रिलक्षणी ।
अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम्

7.2

उत्पादाद्यास् त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युर् एकत्र कथम् एकदा

7.3

उत्पादस्थितिभङ्गानाम् अन्यत् संस्कृतलक्षणम् ।
अस्ति चेद् अनवस्थैवं नास्ति चेत् ते न संस्कृताः

7.4

उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादम् उत्पादो मौलो जनयते पुनः

7.5

उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस् तं ते स कथं जनयिष्यति

7.6

स ते मौलेन जनितो मौलं जनयते यदि ।
मौलः स तेनाजनितस् तम् उत्पादयते कथम्

7.7

अयम् उत्पाद्यमानस् ते कामम् उत्पादयेद् इमम् ।
यदीमम् उत्पादयितुम् अजातः शक्नुयाद् अयम्

7.8

प्रदीपः स्वपरात्मानौ संप्रकाशयते यथा ।
उत्पादः स्वपरात्मानाव् उभाव् उत्पादयेत् तथा

7.9

प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयते दीपः प्रकाशो हि तमोवधः

7.10

कथम् उत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा

7.11

अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति

7.12

प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि ।
तमो ऽपि स्वपरात्मानौ छादयिष्यत्य् असंशयम्

7.13

अनुत्पन्नो ऽयम् उत्पादः स्वात्मानं जनयेत् कथम् ।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः

7.14

नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथं चन ।
उत्पद्यते तद् आख्यातं गम्यमानगतागतैः

7.15

उत्पद्यमानम् उत्पत्ताव् इदं न क्रमते यदा ।
कथम् उत्पद्यमानं तु प्रतीत्योत्पत्तिम् उच्यते

7.16

प्रतीत्य यद् यद् भवति तत् तच् छान्तं स्वभावतः ।
तस्माद् उत्पद्यमानं च शान्तम् उत्पत्तिर् एव च

7.17

यदि कश्चिद् अनुत्पन्नो भावः संविद्यते क्व चित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति

7.18

उत्पद्यमानम् उत्पादो यदि चोत्पादयत्य् अयम् ।
उत्पादयेत् तम् उत्पादम् उत्पादः कतमः पुनः

7.19

अन्य उत्पादयत्य् एनं यद्य् उत्पादो ऽनवस्थितिः ।
अथानुत्पाद उत्पन्नः सर्वम् उत्पद्यतां तथा

7.20

सतश् च तावद् उत्पत्तिर् असतश् च न युज्यते ।
न सतश् चासतश् चेति पूर्वम् एवोपपादितम्

7.21

निरुध्यमानस्योत्पत्तिर् न भावस्योपपद्यते ।
यश् चानिरुध्यमानस् तु स भावो नोपपद्यते

7.22

नास्थितस् तिष्ठते भावः स्थितो भावो न तिष्ठति ।
न तिष्ठते तिष्ठमानः को ऽनुत्पन्नश् च तिष्ठति

7.23

स्थितिर् निरुध्यमानस्य न भावस्योपपद्यते ।
यश् चानिरुध्यमानस् तु स भावो नोपपद्यते

7.24

जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना

7.25

स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना

7.26

निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथा निरुध्यमानं च किम् अजातं निरुध्यते

7.27

स्थितस्य तावद् भावस्य निरोधो नोपपद्यते ।
नास्थितस्यापि भावस्य निरोध उपपद्यते

7.28

तयैवावस्थयावस्था न हि सैव निरुध्यते ।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते

7.29

यदैव सर्वधर्माणाम् उत्पादो नोपपद्यते ।
तदैवं सर्वधर्माणां निरोधो नोपपद्यते

7.30

सतश् च तावद् भावस्य निरोधो नोपपद्यते ।
एकत्वे न हि भावश् च नाभावश् चोपपद्यते

7.31

असतो ऽपि न भावस्य निरोध उपपद्यते ।
न द्वितीयस्य शिरसश् छेदनं विद्यते यथा

7.32

न स्वात्मना निरोधो ऽस्ति निरोधो न परात्मना ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना

7.33

उत्पादस्थितिभङ्गानाम् असिद्धेर् नास्ति संस्कृतम् ।
संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्य् असंस्कृतम्

7.34

यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस् तथा स्थानं तथा भङ्ग उदाहृतम्

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc