मूलमध्यमककारिका · अध्याय 6
रागाद् यदि भवेत् पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद् रागो रक्ते रागो भवेत् सति
रक्ते ऽसति पुना रागः कुत एव भविष्यति ।
सति वासति वा रागे रक्ते ऽप्य् एष समः क्रमः
सहैव पुनर् उद्भूतिर् न युक्ता रागरक्तयोः ।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम्
नैकत्वे सहभावो ऽस्ति न तेनैव हि तत् सह ।
पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति
एकत्वे सहभावश् चेत् स्यात् सहायं विनापि सः ।
पृथक्त्वे सहभावश् चेत् स्यात् सहायं विनापि सः
पृथक्त्वे सहभावश् च यदि किं रागरक्तयोः ।
सिद्धः पृथक्पृथग्भावः सहभावो यतस् तयोः
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
सहभावं किमर्थम् तु परिकल्पयसे तयोः
पृथग् न सिध्यतीत्य् एवं सहभावं विकाङ्क्षसि ।
सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि
पृथग्भावाप्रसिद्धेश् च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि
एवं रक्तेन रागस्य सिद्धिर् न सह नासह ।
रागवत् सर्वधर्माणां सिद्धिर् न सह नासह
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0