मूलमध्यमककारिका · अध्याय 5
नाकाशं विद्यते किंचित् पूर्वम् आकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात् पूर्वं यदि लक्षणात्
अलक्षणो न कश्चिच् च भावः संविद्यते क्व चित् ।
असत्य् अलक्षणे भावे क्रमतां कुह लक्षणम्
नालक्षणे लक्षणस्य प्रवृत्तिर् न सलक्षणे ।
सलक्षणालक्षणाभ्यां नाप्य् अन्यत्र प्रवर्तते
लक्षणासंप्रवृत्तौ च न लक्ष्यम् उपपद्यते ।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्य् असंभवः
तस्मान् न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते
अविद्यमाने भावे च कस्याभावो भविष्यति ।
भावाभावविधर्मा च भावाभावाव् अवैति कः
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् ।
आकाशम् आकाशसमा धातवः पञ्च ये ऽपरे
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम्
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0