भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 4

4.1

रूपकारणनिर्मुक्तं न रूपम् उपलभ्यते ।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम्

4.2

रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकं न चास्त्य् अर्थः कश्चिद् आहेतुकः क्व चित्

4.3

रूपेण तु विनिर्मुक्तं यदि स्याद् रूपकारणम् ।
अकार्यकं कारणं स्याद् नास्त्य् अकार्यं च कारणम्

4.4

रूपे सत्य् एव रूपस्य कारणं नोपपद्यते ।
रूपे ऽसत्य् एव रूपस्य कारणं नोपपद्यते

4.5

निष्कारणं पुना रूपं नैव नैवोपपद्यते ।
तस्माद् रूपगतान् कांश्चिन् न विकल्पान् विकल्पयेत्

4.6

न कारणस्य सदृशं कार्यम् इत्य् उपपद्यते ।
न कारणस्यासदृशं कार्यम् इत्य् उपपद्यते

4.7

वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः ।
सर्वेषाम् एव भावानां रूपेणैव समः क्रमः

4.8

विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते

4.9

व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc