मूलमध्यमककारिका · अध्याय 3
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षड् एतेषां द्रष्टव्यादीनि गोचरः
स्वम् आत्मानं दर्शनं हि तत् तम् एव न पश्यति ।
न पश्यति यद् आत्मानं कथं द्रक्ष्यति तत् परान्
न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः
नापश्यमानं भवति यदा किं चन दर्शनम् ।
दर्शनं पश्यतीत्य् एवं कथम् एतत् तु युज्यते
पश्यति दर्शनं नैव नैव पश्यत्य् अदर्शनम् ।
व्याख्यातो दर्शनेनैव द्रष्टा चाप्य् अवगम्यताम्
द्रष्टा नास्त्य् अतिरस्कृत्य तिरस्कृत्य च दर्शनम् ।
द्रष्टव्यं दर्शनं चैव द्रष्टर्य् असति ते कुतः
प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः ।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः
द्रष्टव्यदर्शनाभावाद् विज्ञानादिचतुष्टयम् ।
नास्तीत्य् उपादानादीनि भविष्यन्ति पुनः कथम्
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच् छ्रोतृश्रोतव्यकादि च
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0