भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 2

2.1

गतं न गम्यते तावद् अगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते

2.2

चेष्टा यत्र गतिस् तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस् ततः

2.3

गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमानं विगमनं यदा नैवोपपद्यते

2.4

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर् गम्यमानं गम्यमानं हि गम्यते

2.5

गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद् गम्यमानं च यच् चात्र गमनं पुनः

2.6

द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।
गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते

2.7

गन्तारं चेत् तिरस्कृत्य गमनं नोपपद्यते ।
गमने ऽसति गन्ताथ कुत एव भविष्यति

2.8

गन्ता न गच्छति तावद् अगन्ता नैव गच्छति ।
अन्यो गन्तुर् अगन्तुश् च कस् तृतीयो ऽथ गच्छति

2.9

गन्ता तावद् गच्छतीति कथम् एवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते

2.10

पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर् गमनम् इच्छतः

2.11

गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चाज्यते येन गन्ता सन् यच् च गच्छति

2.12

गते नारभ्यते गन्तुं गन्तुं नारभ्यते ऽगते ।
नारभ्यते गम्यमाने गन्तुम् आरभ्यते कुह

2.13

न पूर्वं गमनारम्भाद् गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनम् अगते गमनं कुतः

2.14

गतं किं गम्यमानं किम् अगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा

2.15

गन्ता न तिष्ठति तावद् अगन्ता नैव तिष्ठति ।
अन्यो गन्तुर् अगन्तुश् च कस् तृतीयो ऽथ तिष्ठति

2.16

गन्ता तावत् तिष्ठतीति कथम् एवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते

2.17

न तिष्ठति गम्यमानान् न गतान् नागताद् अपि ।
गमनं संप्रवृत्तिश् च निवृत्तिश् च गतेः समा

2.18

यद् एव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर् गन्ता गतेर् इति न युज्यते

2.19

यद् एव गमनं गन्ता स एव हि भवेद् यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च

2.20

अन्य एव पुनर् गन्ता गतेर् यदि विकल्प्यते ।
गमनं स्याद् ऋते गन्तुर् गन्ता स्याद् गमनाद् ऋते

2.21

एकीभावेन वा सिद्धिर् नानाभावेन वा ययोः ।
न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते

2.22

गत्या ययाज्यते गन्ता गतिं तां स न गच्छति ।
यस्मान् न गतिपूर्वो ऽस्ति कश्चिद् किंचिद् धि गच्छति

2.23

गत्या ययाज्यते गन्ता ततो ऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्माद् एके तु गन्तरि

2.24

सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति

2.25

गमनं सदसद्भूतः त्रिप्रकारं न गच्छति ।
तस्माद् गतिश् च गन्ता च गन्तव्यं च न विद्यते

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc