मूलमध्यमककारिका · अध्याय 26
पुनर्भवाय संस्कारान् अविद्यानिवृतस् त्रिधा ।
अभिसंस्कुरुते यांस् तैर् गतिं गच्छति कर्मभिः
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ ।
संनिविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते
निषिक्ते नामरूपे तु षडायतनसंभवः ।
षडायतनम् आगम्य संस्पर्शः संप्रवर्तते
चक्षुः प्रतीत्य रूपं च समन्वाहारम् एव च ।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते
संनिपातस् त्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः स तस्मात् स्पर्शाच् च वेदना संप्रवर्तते
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते ।
तृष्यमाण उपादानम् उपादत्ते चतुर्विधम्
उपादाने सति भव उपादातुः प्रवर्तते ।
स्याद् धि यद्य् अनुपादानो मुच्येत न भवेद् भवः
पञ्च स्कन्धाः स च भवो भवाज् जातिः प्रवर्तते ।
जरामरणदुःखादि शोकाः सपरिदेवनाः
दौर्मनस्यम् उपायासा जातेर् एतत् प्रवर्तते ।
केवलस्यैवम् एतस्य दुःखस्कन्धस्य संभवः
संसारमूलं संस्कारान् अविद्वान् संस्करोत्य् अतः ।
अविद्वान् कारकस् तस्मान् न विद्वांस् तत्त्वदर्शनात्
अविद्यायां निरुद्धायां संस्काराणाम् असंभवः ।
अविद्याया निरोधस् तु ज्ञानस्यास्यैव भावनात्
तस्य तस्य निरोधेन तत् तन् नाभिप्रवर्तते ।
दुःखस्कन्धः केवलो ऽयम् एवं सम्यग् निरुध्यते
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0