मूलमध्यमककारिका · अध्याय 27
अभूम् अतीतम् अध्वानं नाभूवम् इति दृष्टयः ।
यास् ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः
दृष्टयो न भविष्यामि किम् अन्यो ऽनागते ऽध्वनि ।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः
अभूम् अतीतम् अध्वानम् इत्य् एतन् नोपपद्यते ।
यो हि जन्मसु पूर्वेषु स एव न भवत्य् अयम्
स एवात्मेति तु भवेद् उपादानं विशिष्यते ।
उपादानविनिर्मुक्त आत्मा ते कतमः पुनः
उपादानविनिर्मुक्तो नास्त्य् आत्मेति कृते सति ।
स्याद् उपादानम् एवात्मा नास्ति चात्मेति वः पुनः
न चोपादानम् एवात्मा व्येति तत् समुदेति च ।
कथं हि नामोपादानम् उपादाता भविष्यति
अन्यः पुनर् उपादानाद् आत्मा नैवोपपद्यते ।
गृह्येत ह्य् अनुपादानो यद्य् अन्यो न च गृह्यते
एवं नान्य उपादानान् न चोपादानम् एव सः ।
आत्मा नास्त्य् अनुपादानो नापि नास्त्य् एष निश्चयः
नाभूम् अतीतम् अध्वानम् इत्य् एतन् नोपपद्यते ।
यो हि जन्मसु पूर्वेषु ततो ऽन्यो न भवत्य् अयम्
यदि ह्य् अयं भवेद् अन्यः प्रत्याख्यायापि तं भवेत् ।
तथैव च स संतिष्ठेत् तत्र जायेत चामृतः
उच्छेदः कर्मणां नाशः कृतम् अन्येन कर्म च ।
प्रतिसंवेदयेद् अन्य एवम् आदि प्रसज्यते
नाप्य् अभूत्वा समुद्भूतो दोषो ह्य् अत्र प्रसज्यते ।
कृतको वा भवेद् आत्मा संभूतो वाप्य् अहेतुकः
एवं दृष्तिर् अतीते या नाभूम् अहम् अभूम् अहम् ।
उभयं नोभयं चेति नैषा समुपपद्यते
अध्वन्य् अनागते किं नु भविष्यामीति दर्शनम् ।
न भविष्यामि चेत्य् एतद् अतीतेनाध्वना समम्
स देवः स मनुष्यश् चेद् एवं भवति शाश्वतम् ।
अनुत्पन्नश् च देवः स्याज् जायते न हि शाश्वतम्
देवाद् अन्यो मनुष्यश् चेद् अशाश्वतम् अतो भवेत् ।
देवाद् अन्यो मनुष्यश् चेत् संततिर् नोपपद्यते
दिव्यो यद्य् एकदेशः स्याद् एक्देशश् च मानुषः ।
अशाश्वतं शाश्वतं च भवेत् तच् च न युज्यते
अशाश्वतं शाश्वतं च प्रसिद्धम् उभयं यदि ।
सिद्धे न शाश्वतं कामं नैवाशाश्वतम् इत्य् अपि
कुतश्चिद् आगतः कश्चित् किंचिद् गच्छेत् पुनः क्व चित् ।
यदि तस्माद् अनादिस् तु संसारः स्यान् न चास्ति सः
नास्ति चेच् छाश्वतः कश्चित् को भविष्यत्य् अशाश्वतः ।
शाश्वतो ऽशाश्वतश् चापि द्वाभ्याम् आभ्यां तिरस्कृतः
अन्तवान् यदि लोकः स्यात् परलोकः कथं भवेत् ।
अथाप्य् अनन्तवाल् लोकः परलोकः कथं भवेत्
स्कन्धानाम् एष संतानो यस्माद् दीपार्चिषाम् इव ।
तस्मान् नानन्तवत्त्वं च नान्तवत्त्वं च युज्यते
पूर्वे यदि च भज्येरन्न् उत्पद्येरन् न चाप्य् अमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमान् अथ लोको ऽन्तवान् भवेत्
पूर्वे यदि न भज्येरन्न् उत्पद्येरन् न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमाल् लोको ऽनन्तो भवेद् अथ
अन्तवान् एकदेशश् चेद् एकदेशस् त्व् अनन्तवान् ।
स्याद् अन्तवान् अनन्तश् च लोकस् तच् च न युज्यते
कथं तावद् उपादातुर् एकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेश एवं चैतन् न युज्यते
उपादानैकदेशश् च कथं नाम विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशो नैतद् अप्य् उपपद्यते
अन्तवच् चाप्य् अनन्तं च प्रसिद्धम् उभयं यदि ।
सिद्धे नैवान्तवत् कामं नैवानन्तवद् इत्य् अपि
अथ वा सर्वभावानां शून्यत्वाच् छाश्वतादयः ।
क्व कस्य कतमाः कस्मात् संभविष्यन्ति दृष्टयः
सर्वदृष्टिप्रहाणाय यः सद्धर्मम् अदेशयत् ।
अनुकम्पाम् उपादाय तं नमस्यामि गौतमम्
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0