भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 25

25.1

यदि शून्यम् इदं सर्वम् उदयो नास्ति न व्ययः ।
प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणम् इष्यते

25.2

यद्य् अशून्यम् इदं सर्वम् उदयो नास्ति न व्ययः ।
प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणम् इष्यते

25.3

अप्रहीणम् असंप्राप्तम् अनुच्छिन्नम् अशाश्वतम् ।
अनिरुद्धम् अनुत्पन्नम् एतन् निर्वाणम् उच्यते

25.4

भावस् तावन् न निर्वाणं जरामरणलक्षणम् ।
प्रसज्येतास्ति भावो हि न जरामरणं विना

25.5

भावश् च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
नासंस्कृतो हि विद्यते भावः क्व चन कश् चन

25.6

भावश् च यदि निर्वाणम् अनुपादाय तत् कथम् ।
निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते

25.7

भावो यदि न निर्वाणम् अभावः किं भविष्यति ।
निर्वाणं यत्र भावो न नाभावस् तत्र विद्यते

25.8

यद्य् अभावश् च निर्वाणम् अनुपादाय तत् कथम् ।
निर्वाणं न ह्य् अभावो ऽस्ति यो ऽनुपादाय विद्यते

25.9

य आजवंजवीभाव उपादाय प्रतीत्य वा ।
सो ऽप्रतीत्यानुपादाय निर्वाणम् उपदिश्यते

25.10

प्रहाणं चाब्रवीच् छास्ता भवस्य विभवस्य च ।
तस्मान् न भावो नाभावो निर्वाणम् इति युज्यते

25.11

भवेद् अभावो भावश् च निर्वाणम् उभयं यदि ।
भवेद् अभावो भावश् च मोक्षस् तच् च न युज्यते

25.12

भवेद् अभावो भावश् च निर्वाणम् उभयं यदि ।
नानुपादाय निर्वाणम् उपादायोभयं हि तत्

25.13

भवेद् अभावो भावश् च निर्वाणम् उभयं कथम् ।
असंस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ

25.14

भवेद् अभावो भावश् च निर्वाण उभयं कथम् ।
तयोर् अभावो ह्य् एकत्र प्रकाशतमसोर् इव

25.15

नैवाभावो नैव भावो निर्वाणम् इति या ऽञ्जना ।
अभावे चैव भावे च सा सिद्धे सति सिध्यति

25.16

नैवाभावो नैव भावो निर्वाणं यदि विद्यते ।
नैवाभावो नैव भाव इति केन तद् अज्यते

25.17

परं निरोधाद् भगवान् भवतीत्य् एव नाज्यते ।
न भवत्य् उभयं चेति नोभयं चेति नाज्यते

25.18

तिष्ठमानो ऽपि भगवान् भवतीत्य् एव नाज्यते ।
न भवत्य् उभयं चेति नोभयं चेति नाज्यते

25.19

न संसारस्य निर्वाणात् किंचिद् अस्ति विशेषणम् ।
न निर्वाणस्य संसारात् किंचिद् अस्ति विशेषणम्

25.20

निर्वाणस्य च या कोटिः कोटिः संसरणस्य च ।
न तयोर् अन्तरं किंचित् सुसूक्ष्मम् अपि विद्यते

25.21

परं निरोधाद् अन्ताद्याः शाश्वताद्याश् च दृष्टयः ।
निर्वाणम् अपरान्तं च पूर्वान्तं च समाश्रिताः

25.22

शून्येषु सर्वधर्मेषु किम् अनन्तं किम् अन्तवत् ।
किम् अनन्तम् अन्तवच् च नानन्तं नान्तवच् च किम्

25.23

किं तद् एव किम् अन्यत् किं शाश्वतं किम् अशाश्वतम् ।
अशाश्वतं शाश्वतं च किं वा नोभयम् अप्य् अथ

25.24

सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः ।
न क्व चित् कस्यचित् कश्चिद् धर्मो बुद्धेन देशितः

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc