भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 21

21.1

विना वा सह वा नास्ति विभवः संभवेन वै ।
विना वा सह वा नास्ति संभवो विभवेन वै

21.2

भविष्यति कथं नाम विभवः संभवं विना ।
विनैव जन्म मरणं विभवो नोद्भवं विना

21.3

संभवेनैव विभवः कथं सह भविष्यति ।
न जन्म मरणं चैवं तुल्यकालं हि विद्यते

21.4

भविष्यति कथं नाम संभवो विभवं विना ।
अनित्यता हि भावेषु न कदाचिन् न विद्यते

21.5

संभवो विभवेनैव कथं सह भविष्यति ।
न जन्म मरणं चैव तुल्यकालं हि विद्यते

21.6

सहान्योन्येन वा सिद्धिर् विनान्योन्येन वा ययोः ।
न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते

21.7

क्षयस्य संभवो नास्ति नाक्षयस्यास्ति संभवः ।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च

21.8

संभवो विभवश् चैव विना भावं न विद्यते ।
संभवं विभवं चैव विना भावो न विद्यते

21.9

संभवो विभवश् चैव न शून्यस्योपपद्यते ।
संभवो विभवश् चैव नाशून्यस्योपपद्यते

21.10

संभवो विभवश् चैव नैक इत्य् उपपद्यते ।
संभवो विभवश् चैव न नानेत्य् उपपद्यते

21.11

दृश्यते संभवश्चैव विभवश् चैव ते भवेत् ।
दृश्यते संभवश्चैव मोहाद् विभव एव च

21.12

न भावाज् जायते भावो भावो ऽभावान् न जायते ।
नाभावाज् जायते ऽभावो ऽभावो भावान् न जायते

21.13

न स्वतो जायते भावः परतो नैव जायते ।
न स्वतः परतश् चैव जायते जायते कुतः

21.14

भावम् अभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् ।
प्रसज्यते स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत्

21.15

भावम् अभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।
उदयव्ययसंतानः फलहेत्वोर् भवः स हि

21.16

उदयव्ययसंतानः फलहेत्वोर् भवः स चेत् ।
व्ययस्यापुनरुत्पत्तेर् हेतूच्छेदः प्रसज्यते

21.17

सद्भावस्य स्वभावेन नासद्भावश् च युज्यते ।
निर्वाणकाले चोच्छेदः प्रशमाद् भवसंततेः

21.18

चरमे न निरुद्धे च प्रथमो युज्यते भवः ।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः

21.19

निरुध्यमाने चरमे प्रथमो यदि जायते ।
निरुध्यमान एकः स्याज् जायमानो ऽपरो भवेत्

21.20

न चेन् निरुध्यमानश् च जायमानश् च युज्यते ।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते

21.21

एवं त्रिष्व् अपि कालेषु न युक्ता भवसंततिः ।
त्रिषु कालेषु या नास्ति सा कथं भवसंततिः

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc