भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 20

20.1

हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि ।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्

20.2

हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि ।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्

20.3

हेतोश् च प्रत्ययानां च सामग्र्याम् अस्ति चेत् फलम् ।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते

20.4

हेतोश् च प्रत्ययानां च सामग्र्यां नास्ति चेत् फलम् ।
हेतवः प्रत्ययाश् च स्युर् अहेतुप्रत्ययैः समाः

20.5

हेतुं फलस्य दत्त्वा च यदि हेतुर् निरुध्यते ।
यद् दत्तं यन् निरुधं च हेतोर् आत्मद्वयं भवेत्

20.6

हेतुं फलस्यादत्त्वा च यदि हेतुर् निरुध्यते ।
हेतौ निरुद्धे जातं तत् फलम् आहेतुकं भवेत्

20.7

फलं सहैव सामग्र्या यदि प्रादुर्भवेत् पुनः ।
एककालौ प्रसज्येते जनको यश् च जन्यते

20.8

पूर्वम् एव च सामग्र्याः फलं प्रादुर्भवेद् यदि ।
हेतुप्रत्ययनिर्मुक्तं फलम् आहेतुकं भवेत्

20.9

निरुद्धे चेत् फलं हेतौ हेतोः संक्रमणं भवेत् ।
पूर्वजातस्य हेतोश् च पुनर्जन्म प्रसज्यते

20.10

जनयेत् फलम् उत्पन्नं निरुद्धो ऽस्तंगतः कथम् ।
हेतुस् तिष्ठन्न् अपि कथं फलेन जनयेद् वृतः

20.11

अथावृतः फलेनासौ कतमज् जनयेत् फलम् ।
न ह्य् अदृष्ट्वा न दृष्ट्वापि हेतुर् जनयते फलम्

20.12

नातीतस्य ह्य् अतीतेन फलस्य सह हेतुना ।
नाजातेन न जातेन संगतिर् जातु विद्यते

20.13

न जातस्य ह्य् अजातेन फलस्य सह हेतुना ।
नातीतेन न जातेन संगतिर् जातु विद्यते

20.14

नाजातस्य हि जातेन फलस्य सह हेतुना ।
नाजातेन न नष्टेन संगतिर् जातु विद्यते

20.15

असत्यां संगतौ हेतुः कथं जनयते फलम् ।
सत्यां वा संगतौ हेतुः कथं जनयते फलम्

20.16

हेतुः फलेन शून्यश् चेत् कथं जनयते फलम् ।
हेतुः फलेनाशून्यश् चेत् कथं जनयते फलम्

20.17

फलं नोत्पत्स्यते ऽशून्यम् अशून्यं न निरोत्स्यते ।
अनिरुद्धम् अनुत्पन्नम् अशून्यं तद् भविष्यति

20.18

कथम् उत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते ।
शून्यम् अप्य् अनिरुद्धं तद् अनुत्पन्नं प्रसज्यते

20.19

हेतोः फलस्य चैकत्वं न हि जातूपपद्यते ।
हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते

20.20

एकत्वे फलहेत्वोः स्याद् ऐक्यं जनकजन्ययोः ।
पृथक्त्वे फलहेत्वोः स्यात् तुल्यो हेतुर् अहेतुना

20.21

फलं स्वभावसद्भूतं किं हेतुर् जनयिष्यति ।
फलं स्वभावासद्भूतं किं हेतुर् जनयिष्यति

20.22

न चाजनयमानस्य हेतुत्वम् उपपद्यते ।
हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति

20.23

न च प्रत्ययहेतूनाम् इयम् आत्मानम् आत्मना ।
या सामग्री जनयते सा कथं जनयेत् फलम्

20.24

न सामग्रीकृतं फलं नासामग्रीकृतं फलम् ।
अस्ति प्रत्ययसामग्री कुत एव फलं विना

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc