भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 19

19.1

प्रत्युत्पन्नो ऽनागतश् च यद्य् अतीतम् अपेक्ष्य हि ।
प्रत्युत्पन्नो ऽनागतश् च काले ऽतीते भविष्यतः

19.2

प्रत्युत्पन्नो ऽनागतश् च न स्तस् तत्र पुनर् यदि ।
प्रत्युत्पन्नो ऽनागतश् च स्यातां कथम् अपेक्ष्य तम्

19.3

अनपेक्ष्य पुनः सिद्धिर् नातीतं विद्यते तयोः ।
प्रत्युत्पन्नो ऽनागतश् च तस्मात् कालो न विद्यते

19.4

एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ ।
उत्तमाधममध्यादीन् एकत्वादींश् च लक्षयेत्

19.5

नास्थितो गृह्यते कालः स्थितः कालो न विद्यते ।
यो गृह्येतागृहीतश् च कालः प्रज्ञप्यते कथम्

19.6

भावं प्रतीत्य कालश् चेत् कालो भावाद् ऋते कुतः ।
न च कश् चन भावो ऽस्ति कुतः कालो भविष्यति

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc