मूलमध्यमककारिका · अध्याय 1
न स्वतो नापि परतो न द्वाभ्यां नाप्य् अहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्व चन के चन
चत्वारः प्रत्यया हेतुर् आरम्बणम् अनन्तरम् ।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
अविद्यमाने स्वभावे परभावो न विद्यते
क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया ।
प्रत्यया नाक्रियावन्तः क्रियावन्तश् च सन्त्य् उत
उत्पद्यते प्रतीत्येमान् इतीमे प्रत्ययाः किल ।
यावन् नोत्पद्यत इमे तावन् नाप्रत्ययाः कथम्
नैवासतो नैव सतः प्रत्ययो ऽर्थस्य युज्यते ।
असतः प्रत्ययः कस्य सतश् च प्रत्ययेन किम्
न सन् नासन् न सद् असन् धर्मो निर्वर्तते यदा ।
कथं निर्वर्तको हेतुर् एवं सति हि युज्यते
अनारम्बण एवायं सन् धर्म उपदिश्यते ।
अथानारम्बणे धर्मे कुत आरम्बणं पुनः
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरम् अतो युक्तं निरुद्धे प्रत्ययश् च कः
भावानां निःस्वभावानां न सत्ता विद्यते यतः ।
सतीदम् अस्मिन् भवतीत्य् एतन् नैवोपपद्यते
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत् फलम् ।
प्रत्ययेभ्यः कथं तच् च भवेन् न प्रत्ययेषु यत्
अथासद् अपि तत् तेभ्यः प्रत्ययेभ्यः प्रवर्तते ।
अप्रत्ययेभ्यो ऽपि कस्मान् नाभिप्रवर्तते फलम्
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः ।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम्
तस्मान् न प्रत्ययमयं नाप्रत्ययमयं फलम् ।
संविद्यते फलाभावात् प्रत्ययाप्रत्ययाः कुतः
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0