मूलमध्यमककारिका · अध्याय 18
आत्मा स्कन्धा यदि भवेद् उदयव्ययभाग् भवेत् ।
स्कन्धेभ्यो ऽन्यो यदि भवेद् भवेद् अस्कन्धलक्षणः
आत्मन्य् असति चात्मीयं कुत एव भविष्यति ।
निर्ममो निरहंकारः शमाद् आत्मात्मनीनयोः
निर्ममो निरहंकारो यश् च सो ऽपि न विद्यते ।
निर्ममं निरहंकारं यः पश्यति न पश्यति
ममेत्य् अहम् इति क्षीणे बहिर्धाध्यात्मम् एव च ।
निरुध्यत उपादानं तत्क्षयाज् जन्मनः क्षयः
कर्मक्लेशक्षयान् मोक्षः कर्मक्लेशा विकल्पतः ।
ते प्रपञ्चात् प्रपञ्चस् तु शून्यतायां निरुध्यते
आत्मेत्य् अपि प्रज्ञपितम् अनात्मेत्य् अपि देशितम् ।
बुद्धैर् नात्मा न चानात्मा कश्चिद् इत्य् अपि देशितम्
निवृत्तम् अभिधातव्यं निवृत्तश् चित्तगोचरः ।
अनुत्पन्नानिरुद्धा हि निर्वाणम् इव धर्मता
सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यम् एव च ।
नैवातथ्यं नैव तथ्यम् एतद् बुद्धानुशासनम्
अपरप्रत्ययं शान्तं प्रपञ्चैर् अप्रपञ्चितम् ।
निर्विकल्पम् अनानार्थम् एतत् तत्त्वस्य लक्षणम्
प्रतीत्य यद् यद् भवति न हि तावत् तद् एव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम्
अनेकार्थम् अनानार्थम् अनुच्छेदम् अशाश्वतम् ।
एतत् तल् लोकनाथानां बुद्धानां शासनामृतम्
संबुद्धानाम् अनुत्पादे श्रावकाणां पुनः क्षये ।
ज्ञानं प्रत्येकबुद्धानाम् असंसर्गात् प्रवर्तते
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0