मूलमध्यमककारिका · अध्याय 17
आत्मसंयमकं चेतः परानुग्राहकं च यत् ।
मैत्रं स धरमस् तद् बीजं फलस्य प्रेत्य चेह च
चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा ।
तस्यानेकविधो भेदः कर्मणः परिकीर्तितः
तत्र यच् चेतनेत्य् उक्तं कर्म तन् मानसं स्मृतम् ।
चेतयित्वा च यत् तूक्तं तत् तु कायिकवाचिकम्
वाग्विष्पन्दो ऽविरतयो याश् चाविज्ञप्तिसंज्ञिताः ।
अविज्ञप्तय एवान्याः स्मृता विरतयस् तथा
परिभोगान्वयं पुण्यम् अपुण्यं च तथाविधम् ।
चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः
तिष्ठत्य् आ पाककालाच् चेत् कर्म तन् नित्यताम् इयात् ।
निरुद्धं चेन् निरुद्धं सत् किं फलं जनयिष्यति
यो ऽङ्कुरप्रभृतिर् बीजात् संतानो ऽभिप्रवर्तते ।
ततः फलम् ऋते बीजात् स च नाभिप्रवर्तते
बीजाच् च यस्मात् संतानः संतानाच् च फलोद्भवः ।
बीजपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम्
यस् तस्माच् चित्तसंतानश् चेतसो ऽभिप्रवर्तते ।
ततः फलम् ऋते चित्तात् स च नाभिप्रवर्तते
चित्ताच् च यस्मात् संतानः संतानाच् च फलोद्भवः ।
कर्मपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम्
धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश ।
फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च
बहवश् च महान्तश् च दोषाः स्युर् यदि कल्पना ।
स्याद् एषा तेन नैवैषा कल्पनात्रोपपद्यते
इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते ।
बुद्धैः प्रत्येकबुद्धैश् च श्रावकैश् चानुवर्णिताम्
पत्त्रं यथा ऽविप्रणाशस्तथर्णम् इव कर्म च ।
चतुर्विधो धातुतः स प्रकृत्याव्याकृतश् च सः
प्रहाणतो न प्रहेयो भावनाहेय एव वा ।
तस्माद् अविप्रणाशेन जायते कर्मणां फलम्
प्रहाणतः प्रहेयः स्यात् कर्मणः संक्रमेण वा ।
यदि दोषाः प्रसज्येरंस् तत्र कर्मवधादयः
सर्वेषां विसभागानां सभागानां च कर्मणाम् ।
प्रतिसंधौ सधातूनाम् एक उत्पद्यते तु सः
कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः ।
द्विप्रकारस्य सर्वस्य विपक्वे ऽपि च तिष्ठति
फलव्यतिक्रमाद् वा स मरणाद् वा निरुध्यते ।
अनास्रवं सास्रवं च विभागं तत्र लक्षयेत्
शून्यता च न चोच्छेदः संसारश् च न शाश्वतम् ।
कर्मणो ऽविप्रणाशश् च धर्मो बुद्धेन देशितः
कर्म नोत्पद्यते कस्मान् निःस्वभावं यतस् ततः ।
यस्माच् च तद् अनुत्पन्नं न तस्माद् विप्रणश्यति
कर्म स्वभावतश् चेत् स्याच् छाश्वतं स्याद् असंशयम् ।
अकृतं च भवेत् कर्म क्रियते न हि शाश्वतम्
अकृताभ्यागमभयं स्यात् कर्माकृतकं यदि ।
अब्रह्मचर्यवासश् च दोषस्तत्र प्रसज्यते
व्यवहारा विरुध्यन्ते सर्व एव न संशयः ।
पुण्यपापकृतोर् नैव प्रविभागश् च युज्यते
तद् विपक्वविपाकं च पुनर् एव विपक्ष्यति ।
कर्म व्यवस्थितं यस्मात् तस्मात् स्वाभाविकं यदि
कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः ।
न चेत् ते तत्त्वतः क्लेशाः कर्म स्यात् तत्त्वतः कथम्
कर्म क्लेशाश् च देहानां प्रत्ययाः समुदाहृताः ।
कर्म क्लेशाश् च ते शून्या यदि देहेषु का कथा
अविद्यानिवृतो जन्तुस् तृष्णासंयोजनश् च सः ।
स भोक्ता स च न कर्तुर् अन्यो न च स एव सः
न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् ।
अस्ति यस्माद् इदं कर्म तस्मात् कर्तापि नास्त्य् अतः
कर्म चेन् नास्ति कर्ता च कुतः स्यात् कर्मजं फलम् ।
असत्य् अथ फले भोक्ता कुत एव भविष्यति
यथा निर्मितकं शास्ता निर्मिमीत र्द्धिसंपदा ।
निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः
तथा निर्मितकाकारः कर्ता यत् कर्म तत् कृतम् ।
तद्यथा निर्मितेनान्यो निर्मितो निर्मितस् तथा
क्लेशाः कर्माणि देहाश् च कर्तारश् च फलानि च ।
गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0