भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 16

16.1

संस्काराः संसरन्ति चेन् न नित्याः संसरन्ति ते ।
संसरन्ति च नानित्याः सत्त्वे ऽप्य् एष समः क्रमः

16.2

पुद्गलः संसरति चेत् स्कन्धायतनधातुषु ।
पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति

16.3

उपादानाद् उपादानं संसरन् विभवो भवेत् ।
विभवश् चानुपादानः कः स किं संसरिष्यति

16.4

संस्काराणां न निर्वाणं कथं चिद् उपपद्यते ।
सत्त्वस्यापि न निर्वाणं कथं चिद् उपपद्यते

16.5

न बध्यन्ते न मुच्यन्त उदयव्ययधर्मिणः ।
संस्काराः पूर्ववत् सत्त्वो बध्यते न न मुच्यते

16.6

बन्धनं चेद् उपादानं सोपादानो न बध्यते ।
बध्यते नानुपादानः किमवस्थो ऽथ बध्यते

16.7

बध्नीयाद् बन्धनं कामं बन्ध्यात् पूर्वं भवेद् यदि ।
न चास्ति तच् छेषम् उक्तं गम्यमानगतागतैः

16.8

बद्धो न मुच्यते तावद् अबद्धो नैव मुच्यते ।
स्यातां बद्धे मुच्यमाने युगपद् बन्धमोक्षणे

16.9

निर्वास्याम्य् अनुपादानो निर्वाणं मे भविष्यति ।
इति येषां ग्रहस् तेषाम् उपादानमहाग्रहः

16.10

न निर्वाणसमारोपो न संसारापकर्षणम् ।
यत्र कस् तत्र संसारो निर्वाणं किं विकल्प्यते

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc