मूलमध्यमककारिका · अध्याय 15
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः ।
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत्
स्वभावः कृतको नाम भविष्यति पुनः कथम् ।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च
कुतः स्वभावस्याभावे परभावो भविष्यति ।
स्वभावः परभावस्य परभावो हि कथ्यते
स्वभावपरभावाभ्याम् ऋते भावः कुतः पुनः ।
स्वभावे परभावे च सति भावो हि सिध्यति
भावस्य चेद् अप्रसिद्धिर् अभावो नैव सिध्यति ।
भावस्य ह्य् अन्यथाभावम् अभावं ब्रुवते जनाः
स्वभावं परभावं च भावं चाभावम् एव च ।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने
कात्यायनाववादे चास्तीति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना
यद्य् अस्तित्वं प्रकृत्या स्यान् न भवेद् अस्य नास्तिता ।
प्रकृतेर् अन्यथाभावो न हि जातूपपद्यते
प्रकृतौ कस्य वासत्याम् अन्यथात्वं भविष्यति ।
प्रकृतौ कस्य वा सत्याम् अन्यथात्वं भविष्यति
अस्तीति शाश्वतग्राहो नास्तीत्य् उच्छेददर्शनम् ।
तस्माद् अस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः
अस्ति यद् धि स्वभावेन न तन् नास्तीति शाश्वतम् ।
नास्तीदानीम् अभूत् पूर्वम् इत्य् उच्छेदः प्रसज्यते
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0