भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 14

14.1

द्रष्टव्यं दर्शनं द्रष्टा त्रीण्य् एतानि द्विशो द्विशः ।
सर्वशश् च न संसर्गम् अन्योन्येन व्रजन्त्य् उत

14.2

एवं रागश् च रक्तश् च रञ्जनीयं च दृश्यताम् ।
त्रैधेन शेषाः क्लेशाश् च शेषाण्य् आयतनानि च

14.3

अन्येनान्यस्य संसर्गस् तच् चान्यत्वं न विद्यते ।
द्रष्टव्यप्रभृतीनां यन् न संसर्गं व्रजन्त्य् अतः

14.4

न च केवलम् अन्यत्वं द्रष्टव्यादेर् न विद्यते ।
कस्यचित् केनचित् सार्धं नान्यत्वम् उपपद्यते

14.5

अन्यद् अन्यत् प्रतीत्यान्यन् नान्यद् अन्यद् ऋते ऽन्यतः ।
यत् प्रतीत्य च यत् तस्मात् तद् अन्यन् नोपपद्यते

14.6

यद्य् अन्यद् अन्यद् अन्यस्माद् अन्यस्माद् अप्य् ऋते भवेत् ।
तद् अन्यद् अन्यद् अन्यस्माद् ऋते नास्ति च नास्त्य् अतः

14.7

नान्यस्मिन् विद्यते ऽन्यत्वम् अनन्यस्मिन् न विद्यते ।
अविद्यमाने चान्यत्वे नास्त्य् अन्यद् वा तद् एव वा

14.8

न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते ।
संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc