भाषा

ENहिગુ
ग्रंथ पाठ

मूलमध्यमककारिका · अध्याय 13

13.1

तन् मृषा मोषधर्म यद् भगवान् इत्य् अभाषत ।
सर्वे च मोषधर्माणः संस्कारास् तेन ते मृषा

13.2

तन् मृषा मोषधर्म यद् यदि किं तत्र मुष्यते ।
एतत् तूक्तं भगवता शून्यतापरिदीपकम्

13.3

भावानां निःस्वभावत्वम् अन्यथाभावदर्शनात् ।
नास्वभावश् च भावो ऽस्ति भावानां शून्यता यतः

13.4

कस्य स्याद् अन्यथाभावः स्वभावश् चेन् न विद्यते ।
कस्य स्याद् अन्यथाभावः स्वभावो यदि विद्यते

13.5

तस्यैव नान्यथाभावो नाप्य् अन्यस्यैव युज्यते ।
युवा न जीर्यते यस्माद् यस्माज् जीर्णो न जीर्यते

13.6

तस्य चेद् अन्यथाभावः क्षीरम् एव भवेद् दधि ।
क्षीराद् अन्यस्य कस्यचिद् दधिभावो भविष्यति

13.7

यद्य् अशून्यं भवेत् किंचित् स्याच् छून्यम् इति किं चन ।
न किंचिद् अस्त्य् अशून्यं च कुतः शून्यं भविष्यति

13.8

शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः ।
येषां तु शून्यतादृष्टिस् तान् असाध्यान् बभाषिरे

मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc