मूलमध्यमककारिका · अध्याय 12
स्वयं कृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् ।
दुःखम् इत्य् एक इच्छन्ति तच् च कार्यं न युज्यते
स्वयं कृतं यदि भवेत् प्रतीत्य न ततो भवेत् ।
स्कन्धान् इमान् अमी स्कन्धाः संभवन्ति प्रतीत्य हि
यद्य् अमीभ्य इमे ऽन्ये स्युर् एभ्यो वामी परे यदि ।
भवेत् परकृतं दुःखं परैर् एभिर् अमी कृताः
स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर् विना ।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम्
परपुद्गलजं दुःखं यदि यस्मै प्रदीयते ।
परेण कृत्वा तद् दुःखं स दुःखेन विना कुतः
परपुद्गलजं दुःखं यदि कः परपुद्गलः ।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत्
स्वयं कृतस्याप्रसिद्धेर् दुःखं परकृतं कुतः ।
परो हि दुःखं यत् कुर्यात् तत् तस्य स्यात् स्वयं कृतम्
न तावत् स्वकृतं दुःखं न हि तेनैव तत् कृतम् ।
परो नात्मकृतश् चेत् स्याद् दुःखं परकृतं कथम्
स्याद् उभाभ्यां कृतं दुःखं स्याद् एकैककृतं यदि ।
पराकारास्वयंकारं दुःखम् अहेतुकं कुतः
न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।
बाह्यानाम् अपि भावानां चातुर्विध्यं न विद्यते
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0