मूलमध्यमककारिका · अध्याय 11
पूर्वा प्रज्ञायते कोटिर् नेत्य् उवाच महामुनिः ।
संसारो ऽनवराग्रो हि नास्यादिर् नापि पश्चिमम्
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।
तस्मान् नात्रोपपद्यन्ते पूर्वापरसहक्रमाः
पूर्वं जातिर् यदि भवेज् जरामरणम् उत्तरम् ।
निर्जरा मरणा जातिर् भवेज् जायेत चामृतः
पश्चाज् जातिर् यदि भवेज् जरामरणम् आदितः ।
अहेतुकम् अजातस्य स्याज् जरामरणं कथम्
न जरामरणं चैव जातिश् च सह युज्यते ।
म्रियेत जायमानश् च स्याच् चाहेतुकतोभयोः
यत्र न प्रभवन्त्य् एते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज् जरामरणं च किम्
कार्यं च कारणं चैव लक्ष्यं लक्षणम् एव च ।
वेदना वेदकश् चैव सन्त्य् अर्था ये च के चन
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् ।
सर्वेषाम् अपि भावानां पूर्वा कोटी न विद्यते
मूल पाठ: Mūlamadhyamakakārikā · Data entry Douglas Bachman · GRETIL (Göttingen) · CC BY-NC-SA 4.0