मुक्ताचरित · भाग 2140
राग-ताम्बूल-रक्तौष्ठीं प्रेम-कौटिल्य-कज्जलाम् ।
नर्म-भाषित-निस्यन्द-स्मित-कर्पूर-वासिताम् ॥7॥
सौरभान्तः-पुरे गर्व-पर्यङ्कोपरि लीलया ।
निविष्टां प्रेम-वैचित्त्य-विचलत्-तरलाञ्चिताम् ॥8॥
प्रणय-क्रोध-सच्-चोली-बन्ध्-गुप्ती-कृत-स्तनाम् ।
सपत्नी-वक्त्र-हृच्-छोषि-यशः-श्री-कच्छपी-वराम् ॥9॥
मध्यतात्म-सखी-स्कन्ध-लीलान्यस्त-कराम्बुजाम् ।
श्यामां श्याम-स्मरामोद-मधुली-परिवेशिकाम् ॥10॥
त्वां नत्वा याचते धृत्वा तृणं दन्तैर् अयं जनः ।
स्व-दास्यामृत-सेकेन जीवयामुं सुदुःखितम् ॥11॥
न मुञ्चेच् छरणायातम् अपि दुष्टं दयामयः ।
अतो गान्धर्विके हा हा मुञ्चैनं नैव तादृशम् ॥12॥
प्रेमाम्भोज-मरन्दाख्यं स्तवराजम् इमं जनः ।
श्री-राधिका-कृपा-हेतुं पठंस् तद्-दास्यम् आप्नुयात् ॥13॥
इमं स्तव-राजम् अप्य् उपदिशतु ॥
ततः श्री-गुरोर् लब्धाभीष्ट-कामोऽस्मि इति सगद्गदं वदन्तं सकम्पं
तच्-चरण-कमलयोः पतितं मां सानन्दं समुत्थाप्य समालिङ्ग्य
स्वाधरोच्छिष्ट-पीयूष-प्रसादं संभोज्य च स्व-मुखोद्गीर्ण-ताम्बूलं
मन्-मुखे वितरतु । ब्रह्मचारिणो मम ताम्बूल-भक्षणम् अनुचितम् इति चेत्
तर्हि कर्पूर-वासित-निज-मुख-वासेन मन्-मुख-शुद्धिं वितनोतु । ततः
कृतार्थेन मयैतद्-अभीप्सितानि अन्यान्य् अपि बहूनि च मुक्ताफलानि दक्षिनात्वेन
समर्प्यमाणानि कृपया स्वीकृत्य माम् अनुगृह्णातु ॥
इति निशम्य सर्वासु स-स्मितं तुङ्गविद्या-मुखम् अवलोकयन्तीषु तयाप्य्
उच्छलितान्तरानन्दम् आवृत्य भ्रू-भङ्गेन सरोषम् इव माम् ईषद् अवलोक्य
भाषितं । नान्दीमुखि त्वं सिद्धा तपस्विन्य् असि । तस्माद् एतद्-विधिना त्वम्
एवैनं दीक्षय । तदास्य सिद्धातो मन्त्र-ग्रहणात् स्वाभीष्ट-काम-लाभो झटिति
सम्पत्स्यत इति व्याहृत्य सक्रोधं गृहाय गच्छन्तीं करेण गृहीत्वा व्याघोट्य
विशाखा विहस्य नान्दीमुखीं प्राह -- नान्दीमुखि! अस्य सम्प्रति
प्राप्त-व्यलीकस्य दीक्षा-दाने महान् एव प्रत्यवायः स्याद् इत्य् आचार्येयं त्वां
प्रति क्रुध्यति ॥
नान्दीमुखी -- मिथ्या-वादिनि विशाखे! सकल-सधर्म-राजीव-बन्धोर्
गोकुल-राजस्य सत्-तनये कथम् अलीक-परिवादम् आरोपयसि ।
विशाखा -- तुभ्यं शपे सत्यम् एवैतद् दोषम् ।
नान्दीमुखी -- कस् तावद् दोषः ?
विशाखा -- उच्छिष्ट-भोजनम् ।
नान्दीमुखी -- कस्य ?
विशाखा -- दास्याः ।
नान्दीमुखी विहस्य -- का तावत् सा दासी ?
विशाखा -- शाखोट-वन-वासिनी काचिन् मायया गोपीव भूत्वा
कंस-भृत्य-गोवर्धन-मल्ल-गृहिणीम् आसाद्य ताम् उवाच चन्द्रावलि! त्वं
भुवनेश्वर्याश् चण्डिकायाः प्रिय-परिचारिकासि । अहम् अपि तद्-गण-मध्ये
एकास्मि । ततः स्नेह-भरेण त्व-सखीत्वम् इच्छामि । तच् छ्रुत्वा समीचीनम् एतद्
इत्य् आलिङ्ग्य सा चन्द्रावली यां सख्येन परिजग्राह सैव ।
नान्दीमुखी -- सैव का ?
विशाखा -- अपूर्वा पद्मा सा सर्वत्र प्रसिद्धा भवत्यापि ज्ञायते ।
नान्दीमुखी -- किं तद् उच्छिष्टम् ?
विशाखा -- तन् मेचकाधर-कुपी-स्थितं परम-पावनं मधु ॥
एतन् निशम्य किञ्चित् स्मयमानां राधिकाम् अवलोकयन्तस् तत्-सभासदः सर्वे जना
जहसुः । ततो नान्दीमुखी -- विशाखे! केनाप्य् एतद् दृष्टम् अस्ति ?
विशाखा -- अथ किम् ।
नान्दीमुखी -- केन ?
विशाखा - विविध-गिरिधातु-परिच्छदान् आनेतुं प्रिय-सख्या गान्धर्वया
प्रेषिताभ्यां मल्ली-भृङ्गीभ्यां मानस-गङ्गा-निकटोषर-तटे प्रकटम्
एवैतत् परम-पावनं कर्म परश्व एव साक्षाद् अवलोक्यागत्य सर्वासां पुरतो
विविच्य कथितम् ।
नान्दीमुखी सचिन्तम् इव -- सकल-गोकुल-जीवनीभूतस्यास्य कथं
तद्-दोष-ध्वंसो भवति ?
विशाखा -- प्रायश्चित्ताचरणेनैव ।
नान्दीमुखी -- ततो भगवतीतस् तद्-दोष-विहित-निष्कृतिं सम्पाद्य पुरुषोत्तमम्
एनं शुद्धं विधाय दीक्षयन्तु भवय्तः ।
तच् छ्रुत्वा चम्पकलता प्राह -- मुग्धे! उज्ज्वल-मणि-संहितायाम् एव विवृतोऽस्ति
तन्-निष्कृति-विधिर् भवत्याः प्रायेण गोचरो न भवतीति तयैव कथा-प्रसङ्गे
कथितम् अस्ति ॥
नान्दीमुखी -- अत्र तत्-संहितां कस् तावज् जानाति ?
चम्पकलता -- प्रिय-सखी गान्धर्वैव ।
नान्दीमुखी -- अधुना सा किलात्र सभा-मध्ये न विद्यते । तत् कथम् इदं
झटिति निर्वहतु ?
विशाखा -- तद्-अद्वितीयेयं ततोऽधीत-सन्दर्भ-तत्-संहिता-ललिता निरन्तरं तद्
अभ्यस्यन्ती सुष्ठु तज् जानन्ती तन् निरूपयिष्यति ।
नान्दीमुखी स-काकु -- सखि ललिते! विचार्य यथोचित-निष्कृतिर् आदिश्यताम् ।
ललिता किञ्चिद् विहस्य -- प्रिय-सखि! कृत-वय्लीको जनो यदि सभा-मध्ये स्वयम्
आगत्य निःशेषं स्वयम् अघं निष्कापट्येन निवेद्यानुतपति, तदैवास्य
प्रायश्चित्तं कार्यते इति पुरान-कृद्भिः निर्णितम् अस्ति । तथा हि --
संकथ्य स्वम् अघं गोष्ठ्यां पश्चात् तपति यः स्फुटम् ।
तस्यैव निष्कृतिः साङ्गा मुनिभिः कार्यतेऽखिला ॥ इति ।
इत्य् आकर्ण्य नान्दीमुख्यां मन्-मुखं साकूतम् आलोकयन्त्यां मयि च
सुबल-मधुमङ्गलाभ्यां सह ललिता-सविधम् आसाद्य किञ्चिद् विवक्षमाणे सति,
विशाखा प्राह -- हे धीर! कामातुराणां न घृणा न लज्जेति स्वभावतः कामिना
त्वया यत् कृतं तत् कृतम् एव । अधुना त्व् एतत् तस्याः पुरो विविच्य तत् सर्वं
कथय ।
ततोऽहं स्मितम् अपवार्य सानुतापम् इव -- ललिते! चतुर्थेऽहनि
विघटित-गवान्वेषणे गौरी-तीर्थम् एवाप्तस्य मम गौरी-मन्दिरान् निःसृत्य
काचिद् गौरी सहचरी चर्चिका हठेन मद्-उरसि सव्य-कुचेनाहत्य
माधवी-चतुःशालिकान्तरालं माम् आनीय कम्पमानस्य मम मुखे
ताम्बूल-चर्वितं प्रदाय यत् किञ्चित् कृतवती तन्-मोहितोऽहं किम् अपि नावेदिषम् ।
परश्वोऽपि सुवर्ण-सूत्रेण विविध-कुसुमैर् ग्रथित-मालाम् आदाय
राधा-कुण्ड-तट-निकुञ्ज-नागरीं गान्धर्वाम् अनुस्मरतो मम
माल्य-हरण-कुण्ड-तट-निकट-मन्दारोद्यान-परिसरे सा चर्चिका पुनर् अप्य्
आविर्भूय बलेनैव मम वाम-गण्डं परिचुम्ब्य मुखे स्वाधर-पीयूषम्
अर्पितवती तद् एतद् अघ-युगल-निराशाय
तन्-मुख-कमलोच्छिष्ट-मधु-पान-रूपं प्रायश्चित्तम् आदिशतु भवती ।
मधुमङ्गलो विहस्याह -- वयस्य! भद्रतरम् इदं निष्कृतं यत् तद् अघस्यैव
वृद्धिं वितनोति ।
ततोऽहम् -- धिङ् मूर्ख! किम् अपि न जानासि । विषस्य विषमौषधम् इति । यथा --
वह्नि-सन्तापतो नश्येद् वह्नि-सन्तापजो ब्रणः । इति ।
एवं --
दरयेत् कण्टकं विद्धं कण्टकेनैव पण्डितः ।
इत्य् आदिवद् उच्छिष्ट-भोजन-दोषम् उच्छिष्ट-भोजनम् एव दरयति ।
मधुमङ्गलः -- एवंविध-पाप-व्याधि-चिकित्सायां त्वम् एव सद्-वैद्योऽसि तत् किं
ललिताम् अनुवर्तसे ?
ततोऽहम् -- सखे ।
ज्ञात-सारोऽपि खल्व् एकः सन्दिग्धः स्यात् सकर्मणि ।
इति चिकित्सकस्यापि चिकित्सान्यैः क्रियत एव ॥
इति निशम्य ललिता स्मयमाना प्राह -- हे देव! देव्या सह देवस्यैव सङ्गः
सम्पत्स्यते तत् कथम् अस्माकं मानुषीणां सा गोचरीभवतु ?
ततो मयोक्तं -- ललिते! सा कुत्रापि मानुषि भवतीनाम् अदूर एव विराजमाना
वर्तते ।
ततः सर्वासु सकौतुकं स-शङ्कं कर्णाकर्णि केयम् इति विचारयन्तीषु राधा
स्वगतं -- एतस्य धूर्तस्य नर्म-न्यास एतद्-गोष्ठ्याम् एव भविष्यतीति लक्ष्यते ।
विशाखा -- देव! कथ्यताम् कुत्र सा यथैनां संस्तुत्य सभा-मध्ये समानीय
भवत्-कार्यम् अचिराद् अस्माभिर् निष्पाद्यते ?
ततोऽहं -- विशाखे! भवद्-गोष्ठ्याम् एव तडिद् इव विराजयन्ती सा । किं
दीर्घ-नेत्रयापि त्वया न दृश्यते ?
इति मद्-गम्भीरालापम् आकर्ण्य ललितायाम् अन्यासु सर्वासु च आत्मन्य् आत्मनि तां
नर्म-भङ्गीम् आशङ्क्य परस्परम् आलोकयन्तीषु विशाखयोक्तं -- लम्पट! किं
चम्पकलता ?
ततोऽहं -- न हि न हि ।
विशाखा -- किं ज्येष्ठा ।
अहं -- न हि न हि ।
सुबलः -- रङ्गदेवी-सुदेव्ययोर् एकतरा भविष्यति ।
अहं -- अनयोर् एकतरापि न ।
विशाखा -- आं निष्कृति-कारिणी ललितैव भविष्यति ।
ततोऽहं -- विशाखे! इयम् अपि न ।
विशाखा -- इयम् अपि न एषापि न असाव् अपि न । तत् किं इतोऽन्तर्हिता ।
ततोऽहं -- धूर्ते! त्वम् एव तां जानासि । स्मृत्वा पश्य ।
ललिता -- हा हा सखि विशाखे! तां प्रकाश्य विकलस्यास्य कार्य-सिद्धिं द्रुतम्
आपादय ।
विशाखा स्मृतिम् अभिनीय -- ललिते! या मया ज्ञायते सा देवी-मनुष्ययोर् एकतरापि
न स्यात् ।
नान्दीमुखी -- गोष्ठ-मध्ये देवीं मानुषीं वा विना का पुनर् इतरा ?
विशाखा -- सा खलु शङ्खिनी ।
ललिता -- का तावत् सा ?
विशाखा स्मित्वाह -- सा दुर्मुखी पद्मा ययास्य व्यलीकं कृतम् अस्ति ।
तुङ्गविद्या -- सखि विशाखे! सा शङ्खिनीति संकथ्य कथं कलुषम् उत्पादयसि
? एषा खलु बहुतिथं कात्यायनी-देव्या बहुतर-सेवा-प्रसादतः साक्षात्
कात्यायनी वृतास्ति ।
तच् छ्रुत्वा मधुमङ्गलादिषु हसत्सु मयोक्तं -- विशाखे! तल्-लज्जया यदि त्वम्
अन्यतः क्षिपसि तन् मयैव कथ्यते ।
विशाखा -- कथय कथय ।
ततो मयोक्तं -- सा चर्चिका-देवी त्वम् एव ।
ततः सा सर्वाः स्मयमाना विलोक्य सकम्पाधरम् आह -- अये चञ्चल वञ्चक!
गोप-निष्ठूर!
कंसासुर-सेवक-दुष्टकालिङ्ग-मल्ल-गृहिणी-हारिद्र-राग-चर्चित-सर्वाङ्ग!
विदग्ध्य-सत्-खण्ड! चातुर्य-सच्-चन्द्र-विरहित!
तद्-धृत-स्नेह-लुब्ध-तत्-केलि-कोलि-कानन-चर ।
अयुक्त-पद्मा-शङ्खिनी-परिवृढ ।
अवैदग्ध्य-रङ्ग0मिलित-पञ्चबाण-रस-व्यापारि-महाधूर्त-वणिग्-वर! एतद्
धार्ष्ट्य-जम्बुल-गुड-हट्टं तत्रैव शाखोट-वने गत्वा प्रसारय । इतो द्रुतम्
अपसर ॥
इति श्रुत्वा राधा अनुच्चैः स-श्लाघम् आह -- प्रिय-सखि विशाखे! विजयिनी भव
यन् मन्-मानस-गत-सम्बोधनोक्त्या मां सुखयन्त्य् असि ॥
रङ्गदेवी -- सखि विशाखे! त्वं कथं कुपसीत्य् उक्त्वा सखि ललिते! शाखोटवनीं
माधवी-चतुःशालिकात्वेन मानस-गङ्गा-तटोषर-प्रदेशं
माल्य-हरण-सरस्-तीर-मन्दारोद्यानत्वेन, पद्मा-शङ्खिनी-मुखोच्छिष्टं च
प्रिय-सखी-विशाखाधरामृतत्वेन निरूप्य स्वमुखेनैव सानुतापं स्व-दुरितम्
अशेषम् अनेन विदग्ध-धूर्तेन स्व-कदर्य-कार्य-प्रकटन-जनिष्यमाण-लज्जया
अर्थोत्थ-व्यङ्गेनैव त्वयि निवेदितम् । तद् उपदिशास्य प्रायश्चित्तम् ॥
इति श्रुत्वा ललिता विहस्य -- आर्य मधुमङ्गल! सखे सुबल! सन्निधाय श्रूयताम्
प्रायश्चित्तम् ॥
चित्रा -- सखि ललिते!
सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् ।
ततोऽपि राज-पुत्राणां निष्कृतिः षड्-गुणा मता ॥
इति स्मृति-वाक्यं स्मृत्वैव प्रायश्चित्तम् आदिश्यताम् ॥
ललिता -- मुग्धे! ततोऽपि राज-पुत्राणां निष्कृतिः स्याद् द्विषड्-गुणा इति पाठः
संहिता-संमतो मया ज्ञायते । षड्गुणेति कथं भण्यते ?
चित्रा -- एतच्-छास्त्र-विज्ञया त्वया यज् ज्ञायते तद् एव सत्यम् ।
किन्तुगोवर्धनोद्धरण-दावाग्नि-विमोचन-शङ्खचूडादि-मर्दनादिभिः
कतिधानेन युवराजेन वयं न रक्षिताः स्म ? तस्माद्
इदानीन्तन-तत्-कृत-बहुतर-वैगुण्यम् अविगणय्य कृपया षड्-गुणेनैव
निरूप्यताम् ॥
ललिता -- भद्रं त्व-कथितम् एवेदम् अनुष्ठीयते । आदौ पाप-मोचने स्नात्वा
तथा मानस-गङ्गायां त्रि-दिनानि स्नातः सन्न् एक-विंशति-दिनानि
मल्ली-भृङ्गाधर-पञ्चामृत-पानेन प्रथमं मुख-दोषम् उत्सारयतु ।
पश्चाद् द्वि-षड्-गुणा निष्कृतिः करणीया ॥
इति श्रवणेन कपट-कोप-विकटो मधुमङ्गलः प्राह -- ललितिके!
सद्-धम्र-सेतु-व्रजेन्द्रयोर् एतन्-मात्र-पुत्रस्य
तथास्मद्-विध-वयस्य-वर्गाणां सकल-गोकुल-वासिनाम् अप्य् एक-जीवातोर् अस्य
चेटिका-पुलिन्दी-जुष्ट-भक्षणेन जाति-ध्वंसः कर्तुम् आरब्धो भवतीभिस् तद्
अहम् अतिद्रुतं गत्वा वृत्तम् एतत् स-विशेषम् आश्राव्य एतत्-पितराव् अत्रानीय एतत्
सङ्कटाद् अमुं मोचयन् सौहृदं वितनोमि । इति निगद्य फुत्कृत्य द्रुतं
गच्छन्तं मधुमङ्गलं सुबलः करे गृहीत्वा बलाद् इव निवर्तयामास ।
ललिता -- अनार्य बटो! अस्मत्-प्रिय-सखी-प्रणयि-सख्योर् अनयोर् माहात्म्य-विज्ञाने
त्वम् अनभिज्ञोऽसि । तद् भवन् नान्दीमुखी-मुखाद् एतच् छ्रूयताम् ॥
नान्दीमुखी -- भ्रातर् मधुमङ्गल!
गोवर्धन-गिरौ रम्ये राधा-कुण्डं प्रियं हरेः ।
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ॥
तथा --
वैकुण्ठाज् जनितो वरा मधुपुरी तत्रापि रासोत्सवात्
वृन्दारण्यम् उदार-पाणि-रमणात् तत्रापि गोवर्धनः ।
राधा-कुण्डम् इहापि गोकुल-पतेः प्रेमामृताप्लवनात्
कुर्याद् अस्य विराजतो गिरि-तटे सेवां विवेकी न कः ॥
इत्य् आद्य्-अनुसारेण
श्री-भगवती-गुरु-श्री-देवर्षि-प्रभृति-महा-महा-मुनीन्द्र-गणैर्
वर्णित-महा-महिम्नः श्री-गोवर्धनोपरि-विराजमानस्य राधा-कुण्डस्य
दक्षिण-तटे गिरि-दरी-वासिन्याः पूर्णाः पुलिन्द्य उरुगायेत्य् आदि
श्री-शुकदेव-वर्णित-महा-सौभाग्य-भरयोः पुलिन्द-राज-सुतयोर् अनयोर्
अधर-गलित-परम-पावन-पञ्चामृतम् एतद्-दुरित-नाशकं किं न स्यात् ? अन्यच्
च श्रूयताम् । व्रज-नवीन-युव-द्वन्द्व-रत्नं प्रति विशाखादि-द्वारा क्वचित्
स्वयं वा लज्जाम् अभिनीय मृदु
भाषित-विविच्यमान-नर्म-कला-कलाप-जनित-परमानन्द-विशेष-लाभाय तथा
स्वाभिलषित-परिचरण-विशेष-लाभाय च रङ्गमाला-प्रभृतय एताः
परम-प्रणयि-सख्योऽपि परिचारिका इव व्यवहरन्ति ॥
एतद्-अवसरअ एव नेत्र-कुणनेन गोष्ठी-मध्यात् तुलसीम् आहूय
बन्धुरातिबन्धुर-सुगन्धी-गन्ध-फली-सदृक्ष-दक्षिण-कर-कनिष्ठाङ्ग्
उलि-शिखराकृष्ट-स्व-सीमन्त-सिन्दूर-रस-प्रकटित-तत्-सौरभ-प्रसर-रूप-स्
उरूप-लिपि-प्रचयेनाति-सुवासितीकृत-कनक-केतकी-कुसुम-दल-भूत-वर्ण-दूत
एकः । श्री-गान्धर्वया तत्-करेण ललितादिषु सञ्चारितः । ततस् तं ललिता शिरसि
निधाय सखीभिः सह रहः परिपठ्य नान्दीमुखी-करे स-स्मितम् अर्पितवती ।
नान्दीमुखी स्मित्वानन्दम् अभिनीय वक्षसि निधाय वाचयति --
स्वस्ति
श्रीनान्दीमुखी-श्री-ललिता-श्री-विशाखा-प्रभृति-प्राण-प्रेष्ठ-सखी-वर्गेषु
परिष्वङ्ग-परार्ध-रङ्ग-पूर्विका कस्याश्चिद् विज्ञप्तिर् इयम् --
श्रीदाम-सुबल-भद्रसेनादि-प्रमुख-प्रिय-वयस्य-गणैः सह
गोवर्धन-परिसरे सम्भृत-गोचारण-परमामोदस्य
व्रज-राज-निज-जीवित-परार्ध-शताधिक-परम-प्रियतम-तनयस्य
व्रजेन्द्र-महिषी-स्व-प्राण-परार्ध-परिपक्व-हिरण्मयेष्टकाघटा-घटित-
महा-मन्दिरान्तराल-विनिर्मित-प्राण-परार्ध-विविध-रत्न-खचित-महा-पर्
यङ्क-कृङ्प्त-वात्सल्य-नाना-विध-कुसुम-सुवासित-सुकुमार-सुतूलिकोपरि-सम
धिगत-शयन-केलि-परमानन्दस्य
मत्-प्राण-परार्धार्बुद-परार्ध-शत-निर्मञ्छ्यमान-वाम-चरण-कनिष्ट्
हाङ्गुलि-नखाञ्चल-प्रतीकस्य
नव-मृगमद-परिमलित-नवनीत-नीलोत्पल-दल-कुल-रचित-सुन्दर-सुकुमार
-विग्रहस्य धीर-ललितस्यास्य एतावत् कठोर-प्रायश्चित्त-श्रवणेन मम हृदयं
नवनीतम् इव विद्रववद् आस्ते ।
ततः --
कृतानुताप-लक्षाणां सुकुमार-शरीरिणाम् ।
स्निग्धानां निष्कृतिः सम्यक् तन्त्रेणैव विधीयते ॥
इत्य् उज्ज्वल-संहिता-वचनम् अननुस्मृत्यैव ललितया यत् पञ्चामृत-पान-रूपं
प्रायश्चित्तं केवल-मुख-शोधनाय च तन्त्रेण विधायास्मिन् निर्दोषे विहिते
मम महत्य् एव निर्वृतिर् जायते इत्य् अलम् अतिविस्तरेण ॥
इहैव प्राण-प्रतिम-प्रणयि-सख्यौ मल्ली-भृङ्ग्यय् प्रति
स-प्रणय-परिष्वङ्ग-सञ्चारः कार्यश् च ।
राज-पुत्रोऽयं परम-पवित्रो महा-विलासी च । तन् निज-चरण-क्मल-घातेन
कङ्केल्लि-लतिकां पुस्पितीकृत्य तन्-मकरन्द-प्रस्यन्द-गण्डूषैश् चतुर्विंशत्या
स्व-मुखं विशेषेण प्रक्षाल्य स्मित-कर्पूर-वासित-मधुर-पञ्चामृतं विधाय
प्रेम्णा शनैः शनैस् तथा पाययितव्यं यथास्य सुकुमारस्य दुरितं द्रुतम्
अपयाति परम-सुखम् अपि निष्पद्यते इति ॥
इति निशम्य सान्तरानन्दं राधा-निकुञ्जम् अवलोकयति मयि स्मित्वा ललिता प्राह
-- यद्यपि कृतानुताप-लक्षाणाम् इत्य् आदि सामान्य-वचनान्तरं
सम्पत्तौ विद्यमानायां प्रायश्चित्तं चतुर्गुणम् ।
तत्रापि राज -पुत्राणां निष्कृतिः स्याद् द्विषड्-गुणा ॥
इति विशेष-वचनेन सामान्य-विशेषयोर् विशेष-विधिर् बलवान् इति न्यायेनास्य
द्विषड्-गुणम् एव प्रायश्चित्तं युक्तम् एव पृथक् पृथक् निरूपितम् अस्ति तथाप्य्
आज्ञा गुरूणां ह्य् अविचारणीयेति तद्-आज्ञां शिरसि निधाय तन्त्रेणैव कारयितव्यम्
इति ॥
ततः शिष्ये विद्या गरीयसीति मयोक्ते ललिता साकूतम् आह -- नान्दीमुखि!
सौन्दर्य-रस-भरेणाप्यायित-निखिल-गोकुल-जननयनारविन्दां
पर-रास-स्थली-विहारिणीं परम-रस-तरङ्गिणीं रङ्गिणि-सहचरीं हरिणीम् एतां
परिहाय बाढम् अयस-विदग्ध-कृष्णसार-युवा सखी-स्थल्य्-उपशल्ये
तद्-वास्तव्य-शैव्या-सहचरी-मृगतृष्णिकां मुहुर् मुहुर् धावति । तथा
गान्धर्वा-सरोवर-निकुञ्जाङ्गने सौरभ-प्रसर-परिवासित-सकल-दिशां
चम्पकलता-सखीं काञ्चन-यूथिकाम् अपहाय गोवर्धन-मल्ल-गृहकोण-स्थां
निर्गन्ध-पुष्पवतीं कुष्माण्ड-लतां तन् निकट-स्थ-नीरसोषर-स्थल-पद्मां
च त-सहचरीं चञ्चलोऽयम् अविदग्ध-भ्रमरः पुनः पुनर् उड्डीयोड्डियानुसरति
तद् एतद् आलम्बनावदग्ध्य-रूप-वैरूप्येण वृन्दावन-महेश्वरी-सहचरी
मधुरा रतिर् अप्रसन्ना सती एतच् छ्यामल-रसं न पुष्णाति । तस्मात् तथैनम्
अनभिज्ञं युक्त-माधुरीभिः प्रबोधय । यथा ताम् अविदग्धां
रस-गन्ध-शून्यां सर्वदैव विहायैनां वृन्दावन-महा-देवीं
सर्वतो-भावेनानुसरति । तर्हि तत्-प्रिय-सखी मधुरा रतिः स्वयम् एव
परमोज्ज्वला भवन्ती एतद् अभीष्ट-कामान् सम्पादयिष्यत्य् एव ।
इत्य् अखिल-विलास-रस-माधुरीम् आपीय सत्यभामा व्याजहार -- प्राणनाथ! एतद्
अपूर्व-रस-सागरे निमज्जन्त्या मम मनाग् अपि तृप्तेः पर्याप्तिर् न विद्यते ।
कृष्णः -- प्रिये! एतद् गोकुल-विलासानन्द-निष्कुटे विहरमाणस्य मम त्वत्-प्रश्न
एव मत्-प्रिय-वयस्य-समय-राज-वसन्तोल्लास इति ताम् आलिलिङ्गति ।
सत्यभामा सानन्दं -- ततस् ततः ?
कृष्णः -- ततः सुबलः सस्मितम् आह -- प्रियवयस्य! प्रिय-सखीयम् इन्दुलेखा
दुर्दुरूढात् स्व-भर्तुर् भास्वराख्याद् उद्विग्ना माम् इङ्गितेन प्रेरयति । तद्
अस्याः मौक्तिक्-मूल्यं निर्णीय तद् दत्त्वा झटिति गृह-कृत्याय गन्तुम्
आज्ञाप्यताम् ।
ततोऽहं -- सखे सत्यं सत्यं मय्य् अतीवानुरक्तेयं माम् अपि त्यक्तुं न शक्नोति ।
ततोऽपि सुष्ठु बिभेतीत्य् अहम् अपि जानामि । तद् एतन् मौक्तिक-मूल्यं शृणु --
यथार्थ-नाम्नीयं मद्-विरहम् असहमाना काय-द्वयं कृत्वा
श्यामलतर-मद्-वक्षो-नभसि शाणित-नखाग्रेण रचिताम् एकां स्व-मूर्तिं
संरक्षतु । अहम् अप्य् असह्यैतद्-विरहस् तावद् अस्याः वक्षोज-पर्वतोपरि
स्व-विद्या-बलेनार्ध-चन्द्र-युगलीभवन्न् उदयं करोमि । तदैषा
लब्ध-महा-रत्नम् इव सर्वतो मां चेलाञ्चलेनावृणोतु । रहसि च क्षणे क्षणे
स-रोमाञ्चम् अवलोकयन्ती परमानन्दम् आसादयतु । अथवा
मृग-लाञ्छन-रहिताया एतस्या हृन्-मध्ये मञ्जुल-कृष्ण-सारोऽहं भवामीति ।
ततः सकम्पाधरं कुटिलं माम् अवलोकयन्तीम् इन्दुलेखाम् आलोक्य स्मयमाना
तुङ्गविद्या प्राह -- नागर! रङ्गदेवीयं यथार्थ-नाम्नी तद् अस्या
मौक्तिक-पणः प्रणियताम् ।
ततोऽहम् -- सखि रङ्गदेवि! रास-मध्ये तव लास्य-विलासोल्लासः सन्ततम्
आलोकितोऽस्ति । तद् अधुना निकुञ्ज-मन्दिराङ्गने रहसि तद्-विशेषम् अनुभवितुम्
अभिलषामि । तद् एहि स्व-वक्षोज-कनक-कुम्भौ मद्-उरसि तथा नर्तय
यथाहम् आनन्दितः
सकल-वल्लवी-समुदय-सर्वस्व-भूत-मत्-स्वाधर-पीयूष-महा-प्रसाद-दानेन
त्वाम् आनन्दयामीति ॥
तच् छ्रुत्वा अपैहि भण्ड-शेखर! अपैहीत्य् उक्त्वा कुटिलं माम् अवलोक्य
विशाखा-पृष्ठान्तरितायां रङ्गदेव्यां सुदेवी स-स्मितम् आह -- रसिक-शेखर!
बल्लवी-कुल-भुक्त-मुक-सुजुष्ट-महा-प्रसादास्वादनेनेयं त्वरितम् एव
सिद्धिम् आसादयन्ती स्फुटम् अस्मान् अपि सिद्धार्थाः कृतवत्य् एव ।
सुबलः -- वयस्य! सुदेवी स्व-मौक्तिक-मूल्यं श्रोतु-कामा
श्रीमद्-भवन्-मुखम् ईक्षमाणेयम् उत्कण्ठते ।
ततोऽहम् -- सखे सुबल! सुदेवीयम् अक्ष-केलि-दक्षेति प्रसिद्धा तच् छपथम् एव
ददद् अस्मि केनापि कस्यापि पक्षो न ग्राह्यः । आवाम् एव स्व-बुद्धि-बलेन
खेलिष्यावः । तत्र यद्य् अहम् अनया सुष्ठु जीयेयं, तर्हि वामेन वक्षोजेन
मद्-वक्ष्षसि माम् आपीड्य मम सर्वस्व-भूतम् अधरं द्विः पिबतु । यदि वा
मयेदं जीयते, तदा स्व-दक्षिण-कठिन-वक्षोजं मद्-दक्षिण-करेण निकामं
पीडयित्वा द्विः स्वाधरामृतम् आपाययत्व् इति ।
ततः सा भ्रू-भङ्गेन माम् अवलोकयन्ती सासूयं विशाखाम् आह -- अयि विशाखे!
सर्व-कालम् एव नर्म-स्वर्ण-विक्रय्य् असौ महाजनः । साम्प्रतम् एव
मुक्ता-मणि-व्यापारम् आरभ्य ततो वृद्धिम् अलभमानः पुनः स्व-वृत्तिम्
एवारब्धवान् अस्ति । ततः परार्ध-द्वि-गुण-पञ्चबाण-ललितां
काञ्चन-मुद्रा-ततिम् इतः प्रकाम-मूल्येन प्रगृह्य तयैव मुक्ताफलान्य् अस्माद्
आनयन्तु भवत्यः । मया तु गृहाय गम्यते ।
इति चलितुम् उद्यताञ्चले गृहीत्वानङ्ग-मञ्जर्या निवर्तिता स-क्रोधम् इव साकूतं
पुनर् आह -- केलि-लम्पट! निकामम् अक्ष-केलि-निपुणेयम् अनङ्ग-मञ्जरी त्वया
सह दीव्यन्ती ते गर्व-पर्वतं खर्वयिष्यति ।
ततस् तद्-वचन-माधुर्यम् अवधार्य मयोक्तं -- अस्यास् त्व् अबलायास् तत्-केलिषु का
शक्तिः ? किन्तुमद्-वक्षो-हरिद्-ग्राव-हरितालीय-रेखिकाया राधिकायाः
प्राण-सहोदरेयं मय्य् अतीव स्निह्यति । मम च मानस-मधुकरः परम्
अस्याम् अनवरतम् अनुव्रज्यति । अतः समुचित-पणम् अन्तरापि सुताराणि सुवृत्तानि
बहूनि मौक्तिकान्य् अप्य् अस्यै वितरिष्यामि । परं च निर्जन-निकुञ्ज-वेदिकायां
स्मर-पुञ्जराक्षराण्य् अस्याः पञ्चाशद् अङ्ग-प्रत्यङ्गेषु स्व-हस्तेन विन्यस्य
स्वाङ्गं स्वाङ्गेनालिन्ङ्ग्य मन्त्रेणैनां व्यापय्य तथा सिद्ध-मन्त्रम् एकम्
उपदिशामि यथा तद्-ग्रहण-मात्राद् अनङ्गं साङ्गं विरचय्य सन्तुष्टेन तेन
प्रसादीकृत-स्व-सर्वस्व-स्वरूप-विलास-रत्नानि मन्त्र-गुरौ मयि दक्षिणात्वेन
स-विनयम् उपढौकयति । ततः सुप्रसन्नेन मया तादृग्-आशीः-शतम् आधास्यते
येन विषम-शर-विलासाचार्येति पदवीम् आसाद्य द्वि-गुणं माम् एव भक्त्या
परिचरति ।
इति मद्-भाषित-कुसुम-स्तवकं श्रवणावतंसीकृत्य सकम्पाधरं माम् ईषद्
अवलोकयन्ती स्मित-सुभग-वदनाभिर् आभिः स्नेहेनोत्फुल्लतया तद्-अग्रजया च
स-स्मितं स-स्नेहं च निरीक्ष्यमाणा तुलसी-रङ्गणमालिकयोर् उपपृष्ठम्
अन्तर्हितासीत् ॥
सत्यभामा स्मित्वा -- प्राणनाथ! ततस् ततः ।
कृष्णः -- तदानीम् एव मल्ली-भृङ्गीभ्याम् आनीय दत्तं लेख-द्वयम् । सर्वाभिः
समम् एव वाचयित्वा परमोत्फुल्ला ललिता तयोर् एकं लेखं सुबल-हस्ते
समर्पितवती ।
ततोऽहम् -- ललिते! कस्यायं लेखः ?
ललिता स्मित्वा -- लेख एव कथयिष्यति ।
ततः सुबले लेखम् उद्घाट्य लघु लघु वाचयति सति नान्दीमुखी -- सुबल!
स्फुटम् एव वाचय ।
सुबलः स्मित्वा -- सखे! अपूर्व-पत्रीयम् अवधार्यताम् ।
अहं -- सखे! वाचय ममापि महती शुश्रूषा वर्तते ।
सुबलः -- स्वस्ति
समस्त-संमुख-सर्वोपमा-योग्य-बन्ध-प्र्बन्ध-सद्-गुण-प्र्कर-परिवृतेषु
श्री-सुबलाभिधान-प्रिय-नर्म-सख-महानुभावेषु यावटाभिध-ग्रामतो
राधायाह्ः
प्रणय-भर-पीयूष-परिपूरिताक्षर-प्रकर-सुमिष्ट-पिष्टक-परिवेषाण-हिर्
अण्मय-भाजन-रूपूऽयं स्वस्तिमुखम् --
भवत्-प्राण-बन्धु-पाद-पद्मानां भवादृशां च मङ्गल-कुलम्
अनवरत-विराजमानम् अपि व्रज-मण्डले शश्वन् नितरां विराजताम् ॥ काऋयम् इदम्
अन्यद् अपि अवधेहि प्रिय-जन-सकाशात् कर-ग्रहणम् अनुचितम् इति बहुतरम् अपि
कर-द्रव्यम् अपहायैव एतावद्-दिनं किम् अपि नोक्तम् आसीत् । सम्प्रति
मौक्तिक-व्ययेन क्षुभ्यद्-गुरु-जन-दीयमान-महानुयोग-निचयेन क्षणम्
अपि निर्वृति-लवम् अलभमानया यत् किञ्चिन् मया विज्ञाप्यमानम् अस्ति । तद्-अगुणम्
अविगणय्य मद्-वृन्दावन-जनपदे यमुनोपकण्ठ-केदारिकायां
भवत्-प्राण-बन्धुना सम्प्रति क्षेत्राजीवताम् आश्रयता कृत-मौक्तिक-कृषेर्
ललितया सह लेख-प्रतिलेखम् आचार्य समुचित-कर-द्रव्य्म् इह त्वरितम् एव
प्रहित्य दीयतां, यथा द्रव्येणैव मथुरातो मौक्तिकान्य् आनाय्य गुरुभ्यः
प्रदाय कदन-सागराद् अस्माद् उत्तरामः । अथवा
बहु-मूल्य-मौक्तिकोत्पत्ति-भूमेः करस्याप्य् अतिबाहुल्याद् एतद्-द्रव्य-प्रदाने
यदि भवादृशाम् अशक्तिः स्यात् तर्हि पञ्चभिर् मिलित्वा समुचित-मूल्यं निर्णीय
एतद्-द्रव्य-परिवर्तनेन मौक्तिकनि ललिता-हस्ते देयानीति किं बहुना
परमाभिज्ञ-वरेष्व् इति ।
एतन् निशम्य परमानन्द-पूर्णेनापि मया साकूतम् उक्तं -- अयि मल्लि! अयि
भृङ्गि! भवद्-ईश्वरी सुखं वर्तते ?
मल्ली-भृङ्गौ -- श्रीमन्-नाथ-चरण-शुभानुध्यानेन ।
ततस् तन्-निकुञ्ज-दिशं तिर्यग्-अवलोकयन्न् अहं -- कुत्र वर्तते सा ?
ते यावटाभिध-ग्रामे ।
अहं -- किं कुर्वती तिष्ठति ?
ते ललिता-देवी-प्रभृतीनां वर्म-दिशम् अवलोकयन्ती
वृन्दावन-राज्य-सार्वभौम-कामम् उत्कण्ठितेव विराजमाना वर्तते ।
ततोऽहं -- सखे सुबल! ,अमुए लिटिओलया ललितयैव कस्यचिद् द्वारा लेखयित्वा
लेखोऽयं वितीर्णोऽस्ति ।
सुबलः -- नहि नहि । राधाया एव स्व-हस्त-लिखित-वर्णानां विन्यासोऽयम् ।
ततोऽहम् -- सखे! तत् तावद् इदं दर्शयति तद्-धस्ताद् आकृष्य लेखम् आलोक्य
स-चमत्कारम् आत्मगतं -- अहो अक्षराणां पङ्क्ति-विस्तृतिर् इयं मन्-नेत्रयोः
पीयूष-वर्तिकेय्व प्रतिभातीत्य् आनन्द-जनित-पुलकान् विस्मय-सञ्चारि-भावेनैव
कृतान् इति भङ्ग्या विख्याप्य प्रकाशं विहस्य आश्चर्यम् आश्चर्यम्
आकाश-कुसुमम् इव धूर्ताभिर् एताभिः किम् अप्य् अन्यद् अकस्माद् एव
समुत्थापितम् ।
मधुमङ्गलः -- वयस्य!
विकट-कुटिनाटि-कपट-नाटिका-ताण्डवोद्भट-नटाचार्य-महा-नटीम् इमां
तद् अद्वितीयां दुर्ललितां ललितां वाग्-विलासाभास-मात्रेणैओव पराजित्य् अ अवतिष्ठ
ते ध्रियते यावद् एकोऽपि रिपुस् तावत् कुतः सुखम् इत्य् आदि संस्मृत्य सर्वासाम्
अस्मद्-वृन्दावन-राज्य-काङ्क्षिणीनां धूर्तानां ततिम् इमाम् इतो वृन्दावनात्
झटिति विद्रावय । ततो निष्कण्टक-राज्ये मधुराणि रसवन्ति फलान्य् उपभुज्य
सुखेनैवाहं नृत्यन्न् इव वसामि ।
ततो मयोक्तं -- ललिते! इयम् अस्मद्-वृन्दाटवी । भवत्-सख्या राज्यं कुतो जातम् ।
ललिता -- परम-कपटिन्! तद्-राज्य-महाभिषेक-महोत्सवं समक्षम् आकलय्यापि
किम् एवं गोपायसि ?
ततोऽहम् -- ललिते! समक्ष-दर्शनं तावद्-दूरे ऽस्तु तच्-छ्रवणम् अपि जातम् अस्तीति
नाहं स्मरामि ?
विशाखा --ललिते! अस्य तावद् दूषणं नास्ति ।
बल्लव-साध्वी-शत-धर्मोल्लङ्घन-जनित-तमः-प्रचयेनान्तर्हितम् अस्त्य् अस्य
चेतस् तत्-संसर्गी च तादृश इति एतद्-वयस्ययोर् अनयोर् अपि । तत् कथम् एते स्मरन्तु
नाम ? तस्मात् तत् कथन-पीयूष-प्रस्यन्देन कर्ण-विवरेषु प्रवेशितेन् बाढम्
अमीषां चेतांसि कारुण्येनाविर्भावय यथैषां स्मृतिः सम्पद्यते ।
ततस् तदानीम् एवागतां सर्वाभिर् एवानन्दितां वृन्दाम् आलिङ्ग्य ललिता स-स्मितम्
आह -- वृन्दे! भद्रावसरे त्वं प्राप्तासि । तत् त्वयैव निर्वर्ण्यतां
महोत्सव-रङ्गः ।
वृन्दा स-विनयानन्दं -- सखि ललिते! त्वन्-मुख-पद्माद्
विनिष्यन्दमान-तन्-महोत्सव-रस-मकरन्दम् अहम् अप्य् आपातुम् आगतास्मि तत्
त्वयैव परिवेष्यताम् ।
ललिता सानन्दम् -- भद्रं सर्वैर् अवधाय श्रूयताम् । ऋतु-पतिवसन्त-समये
पौर्णमास्यां विशाखा-नक्षत्रे भगवतो हिरण्यगर्भस्य गगन-वाण्या
वृन्दावन-वासिनो भगवतः श्री-गोपीश्वरस्य स्वप्न-कृत-निदेशेन च
मानस-सुरधुनी-कालिन्द्यादि-सरिद्-वरोभिः
सावित्री-संज्ञैकानंशा-प्रभृति-देवीभिश् च समं
मुरली-महती-झर्झरी-मुरज-दुन्दुभि-प्रभृति-वाद्य-शब्द-कोलाहलेनाकृष्
टेषु किन्नरी-गन्धर्वी-कुलेषु सानन्दं गायत्सु । अप्सरो-विद्याधरी-वर्गेषु
नृत्यत्सु शच्यादि-सुराङ्गना-निचयेषु जय-जय-शब्द-पूर्वकं
पारिजातादि-कुसुम-वृष्टिं कुर्वत्सु विशाखादि-सहचरी-समुदयेषु
परिमिलित-पट-वास-सुराग-बन्धन-नव-घनसार-क्षोद-मञ्जुल-मृगमद
-सुललित-कुङ्कुम-पटीर-द्रव-विविध-सुरभि-कुसुम-कुलानि
सुललित-गान-पुरःसरम् इतस् ततो विकिरत्सु भूसुर-रमणी-वृन्देषु
शुभाशीः-शतानि वितरत्सु च
सखी-वृन्द-समर्प्यमाण-शोभन-कुङ्कुमागुरु-कर्पूर-चन्दन-विविध-सु
रभि-कुसुमादि-सुवासित-जल-परिपूरित-काञ्चनाष्टोत्तर-शत-घटैः
सुवर्ण-वेदिका-निहित-पद्मराग-मणि-पीठोपरि सन्निविष्टां प्रिय-सखीं
गान्दर्वां भगवती पौर्णमासी सानन्दम् अभिषिच्य
विविध-सुलक्षण-महारत्न-सञ्चयोदक-सहस्र-धाराभिर्
जय-जय-शब्द-पूर्वकं रत्नाभिषेकं चकार ।
वृन्दा स-हर्षम् -- ततस् ततः ?
ललिता ततो मयैव सुचीन-वसनेन शनैः शनैर् अङ्गान्य् आमृज्य सुरक्त-दुकूलं
परिधाप्य केतकी-कुसुम-सुवासित-जलद-नीलोत्तरीय-वसनेनावगुण्ठ्य सुखम्
अन्यतर-कनक-0पीठे निवेश्य
नानाविध-कुसुम-नव-गुञ्जा-पुञ्ज-सुमधुर-मुक्तादि-मणि-निकरै
निन्दित-शिखि-पिञ्छ-कलाप-कान्ति-सुकेश-पाशं
सुदीर्घ-प्रान्तोच्छलत्-कुसुम-गुच्छं वेणीत्वेनाविर्भाव्य
स्व-स्व-सेवा-कर्म-कर्मठ-परिजन-गण-दीयमान-विविधालेप-भूषण-मा
ल्यादिभिर् यथा-स्थानं यथा-शोभं निकामम् अलङ्कृतेत्य् अर्धोक्ते
तत्-स्मरणानन्द-जनित-कम्प-पुलक-स्वर-भङ्ग-परिमिलित-दिव्य-मोहम्
आसादयन्ती सा ललिता विशाखया ससम्भ्रमं पृष्ठे समालम्ब्य कर्णे राधे
कृष्ण राधे कृष्णेति कीर्तनामृतेन सन्धुक्षिता क्षणं मौनेन धैर्यम्
आलम्ब्य पुनः कथयितुम् आरेभे ॥
तदानीम् एव मूर्च्छितां ललिताम् आलक्ष्य -- हा
मत्-प्राण-प्रदीप-राजिनीराजित-चरिते प्रिय-सखि ललिते! हत-भाग्याहं त्वया
निराशा कृतास्मि । हा भगवन्! भक्त-वत्सल! भास्कर-देव! रक्ष रक्ष । हा
सन्ततम्
आपुलिन्द-सकल-गोकुल-जनावनार्थ-कलित-निर्विकल्प-महा-सङ्कल्प-गोकुल-सुद्
हानिधे झटिति निज-सुधामय-कराभिमर्षणेन
मद्-विध-जीवित-कोकिल-कुल-जीवातु-ललिता-नामाद्भुत-पीयूष-रसाल-वल्लीं
जीविताम् आचार्य किलैतत्-पणेनैव संक्रीय दासी क्रित्यताम् इयं तपस्विनी राधिकेति
विलप्य साश्रु-धारं वेगेन ताम् आलिङ्गितुम् आगच्छन्ती राधिका
रसमय-सात्त्विक-महा-स्तम्भ-सन्तति-सहचर्या सुष्ठु परिष्वज्य रक्षितासीत् ।
इत्य् अवकलनात् त्रासेन सान्तःकम्पं रङ्गणवल्ली-तुलसीभ्यां तत्-सविधम्
उपलब्धं ततो रङ्नणवल्ल्या वाम-भुजया तत्-पृष्ठम् अवष्टभ्य
दक्षिण-करेण मृदु मृदु मृज्यमाना हा नाथ रक्ष रक्ष इति साश्रु-प्रवाहं
स-गद्गद-भाषितेन तुलस्या तु नव-मृदुल-तमाल-पल्लव-कुल-व्यजनेनातिजवेन
बीज्यमाना बाह्यम् उपालभ्य सुस्थाम् इव ललिताम् आलोकयन्ती सानन्दा बभूव ।
ललिता -- हुं ? तां तदा
तदानन्दोच्छलित-सात्त्विक-भावालङ्कार-भूषित-सभ्य-गणैः सह भगवती
विचित्र-रत्न-सिंहासनोपरि समुपवेश्य
एकानंशा-सोदर-कामाख्या-श्यामल-देवता-हृद्यस्थासकाद्
आहृत-दत्त-मृगमदेन वृन्दावन-राज्य-महा-राज्ञीत्वेन
शङ्ख-घण्टा-दुन्दुभि-कोलाहल-शब्द-पूर्वकं जय-जय-शब्देन तिलकं
चकार ।
तत एतच्-छ्रवणेन सर्वासाम् आनन्द-हास-कोलाहले जाते
तच्-छ्रवणानन्द-समुत्थित-सात्त्विकाद्य्-अनुभावान् यत्नेनावृत्य किञ्चिद् विहस्य
मयोक्तं -- ललिते! एतत् कथं मया न ज्ञायते एतेन किं वो राज्यम् आयातम् ?
प्रत्युत एतद् उट्टङ्कनात् स्व-मुखेनैव भवतीभिर् युष्मत्-सहितम् इदं राज्यं
ममैवेति निर्णीतम् ।
नान्दीमुखी -- कथम् इव ?
ततोऽहम् -- यतो वृन्दावन-पुरन्दरस्य ममैव राज्ञीत्वेन मद्-इङ्गितेनैव
भगवत्य्-अभिषिक्तेयम् ॥
विशाखा विहस्य -- असङ्गत-भाषिन्! पुरन्दरस्य महिषि देव्य् एव भवति । सा
खलु शचीति प्रसिद्धा स्वर्गे वसति । इयं तु मम सखी भूमि-विहारिणी
सुभगाभिमन्योर् जाया मानुषी ।
मयोक्तं -- तर्काचार्य-शिरोमणिं-मन्ये विशाखे! त्वं सुष्ठु जडासि यद् बारं
बारम् अधीतम् अपि प्रत्यक्ष-खण्डं त्वया विस्मृतम् एव ।
विशाखा -- किं तद् विस्मृतम् ?
मयोक्तं -- श्रूयताम् । यदि भवत्-सहचरी मत्-प्रेयसी न स्यात् तर्हि
मद्-वक्षः-स्थासकाहृत-मृगमदेन कथं भगवती तां तिलकिनीं चकार ?
कथं वा मत्-कण्ठ-माला-हार-वैजयन्तीभ्यां तत्-कण्ठम् अलञ्चकार ?
ललिता -- भोः शश-शृङ्ग-धनुर्धरालीक-पुरन्दर!
प्रवर-सुभग-लेखावलि-कलित-पदारविन्दायाः
गन्धर्व-विद्याधर-गण-गीयमान-महा-वैभवायाः आत्मभुवापि
संस्तूयमान-चरितायाः विविध-काम-सम्पत्ति-दायिन्याः
नन्द्य्-आदीश्वर-गृहिण्याः कामारिपुर्-वासिन्याः विन्ध्य-वास्तव्यैकानंशाग्रजायाः
कामाख्या-नाम-श्यामल-देवतायाः महाप्रसाद-मृगमद-मालाभिर् एव सा
किल भगवत्या विभूषिता । तव कस् तत्र सम्बन्धः ?
तुङ्गविद्या -- सखि ललिते! साधु सम्बोधितं यद् अयम् अलीक-पुरन्दर एव ।
विशाखा -- कथम् इव ?
तुङ्गविद्या -- श्रूयतां अस्मिन् माथुर-प्रदेशे याचक-द्विज-कलावदादिभिर् एव
पञ्चविंशति-कपर्र्दिका-मात्र-लब्धये देव! महाराजेत्य्-अलीक-सम्बोधनैः
क्षुद्रतरैक-ग्रामाध्यक्षोऽपि यथा प्रफुल्लितो भवति तथैव
शक्राशनाशन-दुर्गत-भण्ड-भट्टादि-वर्गैः
पलैक-परिमित-नवनीत-मात्रम् आप्तुं वृन्दावन-पुरन्दरेति
कृतासम्भवालीक-सम्बोधन-पूर्वक-स्तवाभासेनैव निसर्गागम्भीर एष
कृषीबलो बाढम् आत्मनः पुर्नदरता-मननेन
निज-जाल्मतोऽमरावती-पुरन्दरत्वम् एव प्रकटीचकार ।
ततस् तुङ्गविद्या नर्म-स्मितम् अपवार्य -- भोः
पावन-सरोवर-जम्बाल-जात-जाम्बुनद-जात-सुतार-मुक्ताफलादि-विविध-रत्न्
अ-व्रात-विरचित-महा-सिंहासनोपरि सुष्ठु निविष्टस्य
सौरभ-भरोन्मादीकृतारुण-भ्रमर-कुलोच्छलित-झङ्कार-रव-निकरेणानु
गम्यमान-निर्मल-गगन-सुमनः-प्रपञ्चाविर्भावित-वर-मुकुट-बन्धाति
बन्धूरोत्तमाङ्गस्य सानन्दं शिरसि सुबलेन
धृत-परिणत-कमठ-कठोर-पृष्ठ-सुपक्ष-कृत-प्रकट-सुरभि-सुध्-क
णाभिवर्षि-प्रवराटपत्रस्य
मसृणतरकरतलोद्भुत-तनुरूह-प्रकर-रचित-चामर-द्वयेनोज्ज्वल-चतुराभ्
याम् उभय-पार्श्वयोर् आनन्देनाभिवीज्यमानस्य,
अतिसुप्रतिष्ठित-बन्ध्या-गर्भ-जात-महा-महा-सत्-पुरुष-वर्गैः
पद्म-गन्धाभिधादिवलीवर्ध-सञ्चयानां सुमधुर-पयः-प्रवाहेण
वृन्दाटवी-महेन्द्रत्वेऽभिषिक्तस्य,
परिणत-सशोत्तुङ्ग-शृङ्ग-विनिर्मित-मञ्जुल-कार्मुकालङ्कृत-वाम-कर-मुष्ट्
इकस्यास्य, तद् अवधि यशः-प्रताप-प्रकाश-लहरी ब्रह्माण्ड-भरे यादृशी
प्रसरन्ती वर्तते । ताम् अनुभवन्तीभिर् भवतीभिर् अपि साक्षान् महेन्द्रत्वं यन्
न मन्यते, तद् भवतीनाम् अनयोऽयं महान् एवेति मयि प्रभासते ।
इति निशम्य स-स्मितं नयन-कूणनेन स-स्मित-लज्जित-मन्-मुखम् आलोक्य
परस्परं चालोकयन्तीषु तासु चित्रा विहस्य - भोः कथम् असौ परिअहस्यते
भवतीभ्याम् ? सत्यम् एवायं देवेन्द्रः ।
तुङ्गविद्या - चित्रे! इति चेत् स कथम् अत्रागतः ?
चित्रा - श्रूयताम् । पर-रमणीतोऽयम् इति सर्वतः समधिगम्य क्रोधिन्या देवा
पदाघातेन निर्भर्त्स्तस् तां परम-सुखद-तन्-निज-भवनं च निर्वेदतः
परित्यज्य वनम् इदम् आगत्य परम-मञ्जुल-नवीन-गोपत्वम् इवासाद्य
पुरश्चरण-विधानेनैव वृन्दावनेश्वर्याः कर्षको भूत्वा सुखेन समयं
गमयन्न् अस्ति । तद् एनं हास्य-रस-विषयालम्बनम् अविधाय
बाटिक-रूप-प्राघुणेऽ स्मिन् स्नेह एव निकामं विधीयताम् ।
तच् छ्रुत्वा सर्वासु स्मेर-मुखीषु नान्दीमुखी विहस्य - सखि चित्रे! व्रज एव
नित्य-विहारिणि व्रजेन्द्र-नन्दने यत् किञ्चित् त्वयेदं व्याहृतम् । तस्य
शब्दार्थोत्थ-गूढाभिप्रायेण भवितव्यम् इति लक्ष्यते । ततस् तस्य
विवेचन-पूर्वक-कथनेनास्मान् बढम् आनन्दय ।
ततः स्मित्वा मुनि-व्रतम् आलम्बितवत्यां चित्रायां वृन्दा सानन्दम् आह -
नान्दीमुखि! अस्याः परम-विदग्धाया गूढाभिप्रायः स्फुटं मयैव
निर्वर्ण्यमानः सुष्ठु समाकर्ण्यताम् ।
नान्दीमुखीन् - कथम् अस्य देवेन्द्रत्वम् ? तत् प्रकटय ।
वृन्दा - दीव्यन्ति क्रीडन्तीति देवाः - विचित्र-विविध-मनोहर-केलि-विलास-शालिनः ।
तथा दीव्यन्ति विशेषेण द्योतन्ते इति देवाः ।
परमोज्ज्वल-तेजस्-तरङ्ग-हृद्याद्भुत-सौन्दर्यामृत-प्रवाह-शालिनस् तेषां
तेषाम् अपीन्द्रो महा-परिवृढ इति देवेन्द्रस् तेभ्योऽपि परमोत्कर्षेण सुष्ठु
विराजमान इत्य् अर्थः ।
नान्दीमुखी स-स्मितं - समीचीनोऽयम् अर्थो विवृतः किन्तु पर-रमणी-रत इत्य्
अस्य कोऽर्थः ?
वृन्दा - परा अन्या तथा परा विपक्षा, तथा परा परमोत्कृष्टा, परा चासौ
रमणी चेति पर-रमणी श्री-राधिका तस्यां रतः परमाशक्तस् ताम् एव
परमानुरागेण रमयन्न् इत्य् अर्थः ।
चम्पकलता स्मित्वा - वृन्दे! देव्य् अपि निरूप्यताम् ।
वृन्दा - नादेवो देवम् अर्चयेद् इति चण्डिका-परिचर्यापरत्वात् अस्य देवस्य भार्येति
वा । किं वा अमङ्गले मङ्गल-शब्दवद् इयं देवी ।
नान्दीमुखी - सेयं का ?
विशाखा - एतादृशी चन्दावल्य् एव भविष्यति ।
वृन्दा स्मित्वा मौनम् आलम्बते । सर्वाः स्मितं कुर्वन्ति । नान्दीमुखी
पदाघातेनेति धार्ष्ट्यातिशयेन तस्या अनुत्तमता स्फुटैव किन्तु
परम-सुखद-तन्-निज-भवनं वा कतरत् ?
वृन्दा - निविडत्व-पुष्पवत्त्व-भृङ्ग-गुञ्जित्वादि-राहित्वात् परम् असुखदम् । किं
वा परम-सुखं दारयतीति परम-सुखदं यत् तस्या देव्या निज-भवनं
सखीस्थली-निकट-वर्तिनं तद् अपहाय ।
नान्दीमुखी - अहो! शब्दानां गूढार्थ-विज्ञायास् तव व्याख्या-कौशलं तद्
अस्मादृशीभिर् दुरवगाहो नवीन-गोपत्वादि-पदानां गूढोऽर्थः कृपया
प्रकाश्यताम् ।
वृन्दा -
वेणु-विषाण-लगुड-निर्योग-पाश-गिरि-धातु-चित्र-नव-शिखण्ड-गुञ्जाहारारण्य्
अ-शृङ्गार-धारित्वं मञ्जुल-नवीन-गोपत्वं तत्रापि नवीन-शब्देन तस्य
प्रथमतो नित्य-नूतनता च ध्वनिता । पुरश्चरण-संविधानेनेति पुरः
संमुखे भृङ्ग-रणित-कुसुम-कलित-बकुल-राज-तले चरणं
प्रोद्दाम-मदोन्मत्त-गजेन्द्रवद्-विविध-विलास-समुल्लासितम् इतस् ततो भ्रमणं
तत्-पुरः-सरं यत् संविधानं
लीला-कमल-चुम्बन-कङ्केल्लि-नव-पल्लववद्-अंशेन
निस्तुल=निस्तल-दाडिमी-फल-कर-विन्यास-काञ्चन्-यूथिका-समालिङ्गन-पूर्वक
-स्मित-नव-कर्पूर-संमिलित-चञ्चल-नयन-कमलाञ्चलावलोकन-परमोन्माद्
अक-मधुर-माध्वीक-पायनम् । तेन
मल्लि-बकुल-चम्पक-माधवी-कनक-यूथिकादि-कुसुम-चयन-विलास-माधुर्
ई-भरम् अनुभवन्त्याः श्री-वृन्दावन-राजधानी-विलासिन्याः कर्षक आकर्षको
भूत्वा तेन ताम् उन्माद्य निज-निकटम् आकृष्येत्य् अर्थः ।
सुखेन श्लाघ्य-मधुर-मधुर-रसास्वादन-जनित-परमानन्द-सन्दोहेन
समयं सहज-सर्वदोज्जृम्भमाण-वसन्त-कालं निरन्तरं
निरुपम-विलास-माधुरीभिः सौभाग्य-लक्ष्मी-भरं गमयन् प्रापयन्न् अस्ति
तया सहानवरतम् अनिर्वचनीय-मधुर-खेला-विलास-तत्-परः सन् सदा विराजत
एवेति ।
ततोऽहं सान्तर्-आनन्दं -विशाखा-घातिनि वृन्दे मम वृन्दावनोद्यान-पालिकापि
त्वं कथम् एतासु मिलितासि ?
मधुमङ्गलः - प्रिय-वयस्य! इयम् उद्यान-पाली
स-लवण-तक्र-श्लथित-भक्त-भक्षणाय तद्-उद्यान-पालनं परित्यज्य
साम्प्रतम् आसां गृह-पाली वृत्तास्ति । तत् कथं न बुक्किष्यते ?
वृन्दा - अये भूसुराभास! कुटबटो!
निज-सहचर-प्रथम-मुदिर-वचन-जलधारा-वर्षेण प्रफुल्ल-वर्षाभूस् त्वं
सन्तत-श्रवण-कटु-शब्दं कुर्वन् सर्वान् उद्वेजयन्न् असि ।
मल्ली-भृङ्ग्यौ - देवि ललिते! स्वामिन्या यद् अन्य-पत्रेण लिखितम् अस्ति । तत् किं
विस्मृतं भवत्या ?
ललिता - किं तत् स्मार्यताम् ।
मल्ली-भृङ्ग्यौ - समुचित-कर-दाने यः कुयुक्तिम् उत्तोल्य विरोधम् आचरति सोऽत्र
बद्ध्वा शीघ्रं प्रहेय इति ।
ललिता - आं । तत्-कर-दान-विरोधी मधुमङ्गल एव । तद् एनं लता-पाशेन
दृढं निबध्य कोमलायाः प्रिय-सख्याः सविधम् आनीत्वैव
जटिलाभिमन्यु-पार्श्वे युवाभ्याम् एव सत्वरं समर्प्यताम् । यथा स
याव-ग्राम-सिंहोऽभिमन्युर् एव ताडन-पूर्वकं स्व-करं गृह्णाति ।
मधुमङ्गलः अन्तः-स-भयम् इव - वयस्य! किञ्चिन् निगूढं कार्यं मम गृहे
विद्यते । तत् सम्पाद्यागच्छन्न् अस्मि ।
ततोऽहं - धिग् ब्राह्मण! कथम् अबला-वाग्-आडम्बरेण मद्-अग्रतोऽपि बिभेषि ?
मधुमङ्गलः - महाशूर! घट्टी-पालस्य तव गोवर्धने दान-वर्तन्यां
बहुशः शौर्यं अनुभूतम् अस्ति । यत् तस्मिन् दिने एताभिर् एव
वृन्दावन-कर-निमित्तं गान्धर्वा-निदेशेन निजोत्तरीय-पटाञ्चलेन बद्धा
नीयमानम् अपि मां वीक्षमाण एव विलक्षस् त्वम् आसीः । अहम् एव
निज-भूसुरत्वं विवृत्य भाग्येन कथञ्चिद् उर्वारितोऽस्मि ।
इत्य् उक्त्वा भीतिम् अनुकृत्य पलायन्तम् इव तं करे गृहीत्वा परावर्त्य मयोक्तं -
ललिते! तादृश्याः कोमलाबलाया अपि कथम् अहं करं दास्यामि ? प्रत्युत बलात्
कामम् आदास्य एव ।
इति निशम्य नेत्र-भागेन माम् ईषद् अवलोकयन्ती राधा सुस्मिता आसीत् ।
नान्दीमुखी - चित्रे! बाटिका-प्राघुण इत्य् अस्य कस् तावद् अभिप्रायः ?
ललिता - नान्दीमुखि! तज् जानत्य् अपि कथं पृच्छसि ? यत्
सर्व-कालीन-निज-वास-ग्राम-महावनम् अपहाय वत्सर-षट्-सप्तक-मात्रम्
अत्रागतोऽस्ति ।
नान्दीमुखी - प्रिय-जन्म-भूमेस् त्यागेन किं तावत् कारणम् ?
राधा औच्चैः - तत्-स्थानस्यास्वाच्छन्द्यात् जनताधिक्येन तद्-ग्रामे नगर इव
जाते
अबला-वध-भाण्ड-स्फोटन-नव-नीत-हरणादि-विविध-विसदृश-व्यवसायाभ्
यासेन जनित-बहु-विध-विकर्माभिलाषस्यासिद्धत्वात् निर्जनेऽस्मिन् महति घने
वृन्दावने कुलाबला-कुलानां गेह-देह अधर-दशन-वसनानि
स्वाच्छन्द्येनापहर्तुम् अधिक-लालसैव ।
इत्य् एवं ललितया स्फुटं व्याहृते स-स्मितं साकूतम् आह - ललिते! साम्प्रतम् अस्य
तादृश-व्यवसायो न दृश्यते ।
राधा पुनर् अनुच्चैः - सत्यम् एव कथ्यते । यद् अयं सम्प्रति स्व-धर्म-त्यागेन
विसदृश-संस्कारेण च जनितान्यादृश-बुद्धि-कृत-चौर्यादि-दुष्कृतं ललिताचार्यया
पूर्वम् अपि विहित-निष्कृतेन निर्वास्य, निर्वेद-कृत-विवेकेन तासाम् एव कृषि-वृत्तम्
एव निज-धर्मम् आचर्य प्रकामं शस्यान्य् उत्पाद्य ताभ्यः प्रदाय तत् स्वांशम्
अपि स्वयम् आदाय ताः स्वात्मानम् अप्य् आनन्दयन् महाशुचिर् इव विराजते । इत्य् एव
स्फुटं विशाखापि स-स्मितं भाषितवती ।
ततस् तन् निशम्य सर्वेषु हास-कोलाहल-महोत्सवम् आविष्कुर्वत्सु स-कपटासूयं
मयोक्तम् - सखे सुबल! धूर्ताभिर् इमाभिर् नर्म-भङ्गी-मिषेण मम
वृन्दावन-राज्याधिकारितैव दूरीक्रियमाणास्तीति समधिगतं भवता ।
सुबलः - न केवलम् अधिकारितैव दूरीकृता किन्तु कर्षकोऽपि कृतोऽसि ।
वृन्दा - सुबल! त्वं बहु-श्रुतो विचक्षणस् तथानयोर् अपि परम-स्निग्धः । तत्
कथं नान्दीमुख्या सहानयोर्ः परम-स्निग्धयोर् अपि राज्य-हेतोर्
विवदमानयोर् उचित-न्यायावलोकनेन विरोधं न दवयसि ?
ततो भद्रं भद्रम् इति मया ललितया चोक्ते सुबलः प्राह - वयस्य! प्रथमं
तावत् कथम् आसाम् एतद् राज्यं तल् ललितैव कथयतु । पश्चाद् भवान् अपि कथं
वा भवद्-राज्यं तज् ज्ञापयतु ।
ततोऽहं - सुबल! यासां व्रज-देव-कन्यानाम् अज्ञानेनापि सङ्गम् आचर्य
जात-व्यलीकोऽहं प्रायश्चित्तेन शुद्धोऽभवं स कथं ताभिः समम् अपि पुनर्
वाकोवाकं विस्तरयामि ?
वृन्दा - महाशुद्ध! भवद्-वाग्-गन्ध-मात्रेणापि समुदित-कलुष-सञ्चया एता
अपि श्री-वृन्दावन-चक्रवर्तिन्या नूनम् अशेष-विधिना
श्यामल-विषम-शर-सरोवर-महा-तीर्थे पुनः पुनः स्नपनेन शुद्दीकृता एव
स्व-निकटम् आपिताः सन्ति तच् चीर्ण-निष्कृतयोर् उभयोः संवादे दोषो नास्ति । तल्
ललिते! भवत्य् एव कथयतु ।
ललिता - प्रथमं तावद् अस्मिन् वृन्दावन-राज्येऽस्यालीक-वादिनो धूर्तस्याधिपत्यं
तावद् दूरेऽस्तु सम्बन्ध-लेशोऽपि नास्ति ।
नान्दीमुखी - कथम् इव ?
ललिता - स्व-पैतृक-राज्ये बृहद्-वन एव कुल-क्रमागत-सन्तत-वासित्वात् ।
नान्दीमुखी - किम् अत्र प्रमाणम् ?
ललिता - भागवतादि-पुराण-वक्तृ-व्यासादि-मुनीन्द्र-वचनान्य् एव ।
सुबलः - ललिते! मध्यस्थेन मया यथार्थम् एव वक्तव्यम् । त्वन्-मुखम्
आलोक्य मिथ्या वक्तुं न शक्यते । तद् अस्य बृहद्-वन-राज्यत्वेनैव भवत्या
वृन्दावन-राज्याधिपत्यं किम् आयाति ? किन्तु तत्र चेत् महा-प्रमाणम् अस्ति, तद्
वद ।
ललिता - प्रत्यक्षं परोक्षम् अपि बहुतर-पुराण-वचन-कुलम् अस्ति । तत्रापि
प्रत्यक्ष-परोक्षयोः प्रत्यक्षम् एव बलीय इत्य् अनुसारेण प्रत्यक्षम् एव
ग्राह्यम् ।
नान्दीमुखी - किं तत् प्रत्यक्षं प्रमाणम् ?
ललिता - मया किं तद् वक्तव्यम् ? युष्माकम् अनुभूतम् एव तत् ।
नान्दीमुखी - न स्मर्यते । तत् प्रकाशय ।
ललिता - ब्रह्म-गृहिणी-सावित्री-प्रभृति-देव्य्-आदिभिर्
दुन्दुभि-वादित्रादि-कोलाहल-पूर्वकं कृतोऽत्र महा-सिंहासने योउ रत्नाभिषेकः
स च त्रिलोकी-वासिषु कस्य वा परमानन्द-प्रदायको न संवृत्तोऽस्ति ।
ततः सुबलः - ललिते! एतत् तु तावद् अन्यथात्वेन निरूप्य प्रिय-वयस्यो युष्मान् अप्य्
आत्मसात् कर्तुं विराजमानो वर्तते ।
ललिता - सुबल! एतच् चेद् भवद्-द्विपद-गोप-प्रिय-वयस्यः सत्यम् एव वक्ति तर्हि
वृन्दावन-राज्ये æभिषिक्ताया महा-सिंहासन-स्थाया इत्य् आदि तथैतस्याश्
चरणानुजीविनो ममेत्य् आदि व्याहृत्य स्वाम्य् असौ साम्प्रतम् अपि कथं तच्
चरण-परिचरण-मात्रैक-लाभाय तन्-मन्त्र-राजम् आदातुम्
आग्रहेणाध्यवस्यन्न् अस्तीत्य् आदि सर्वं किं भवादृग्भिर् विस्मृतम् ?
नान्दीमुखी स्मित्वा - ललिते! अस्य विलासिनो राज-पुत्रस्य मदन-मोदक-भोजिनो
महा-कामुकस्य यत् प्रलपितं तत् किम् अत्र प्रमाणं स्यात् ? अन्यच् चेद् गाढं
प्रमाणं स्याद् दर्शय ।
वृन्दा - यद् यत् प्रमाणम् इयं दर्शयति, तत् तद् एवास्योन्मादिनो राज-पुत्रस्य
पक्षम् आश्रित्य युवाभ्यां खण्ड्यते । अतोऽन्यत् सर्वत्र प्रसिद्धम् अपि प्रमाणं
ललितातिकोपेन नोट्टङ्कयति ।
नान्दीमुखी - वृन्दे! तत् त्वयैव तावत् कथ्यताम् ।
वृन्दा - प्रेम्ना निजासाधारण-सारूप्य-दान-पूर्वकम् इयं वृन्दाटवी
प्रिय-सख्या स्व-प्रिय-सखीत्वे नित्यं निरूपितास्तीति ।
नान्दीमुखी - कीदृशं स्वारूप्यं तत् कथ्यताम् ।
वृन्दा - श्रूयताम् -
तनोर् अस्या ज्योतिः-परिमल-चरच्-चम्पक-लता-
वली विद्युद्-वल्ली-जयि-कनक-यूथी-ततिर् अपि ।
स्वरूपं सारूप्यं परम् अगमयद् वल्लव-पुरे
मुखस्यापि प्रोद्यद्-रुचिरतर-राजीव-निवहः ॥1॥
दृशोर् ईषद् घूर्णन्-नव-कुवलयानां समुदयस्
तथा लीलास् तिर्यक्-कमन-गमनोन्मत्त-हरिणः ।
लसद्-बिम्बी-वृन्दं वर-विकच-बन्धुक-निकरोऽप्य्
असौसीधु-स्यन्दि-स्फुरिअद्-अधर-युग्मस्य सुकृती ॥2॥
भुजाया वल्लर्यश् चलन-ललिताश् चञ्चु-निचयाः
शुकानां नासायास् तिल-कुसुम-सख्या द्युति-भृतः ।
स्मितस्य प्रोन्मीलत्-कुमुद-निकरो दन्त-सुरुचेर्
अलं गन्धैर् अन्धीकृत-मधुकराः कुन्द-कलिकाः ॥3॥
भ्रुवोर् भङ्गी-भ्राम्यद्-भ्रमर-वर-पङ्क्तिः परिमिता
ललाटस्य स्फूर्जत्-सुभग-बक-पुष्पाति-सुषमा ।
अलं वेणेर् उद्यन्-मद-शिखि-शिखण्डावलिर् असौ
श्रुतेर् मुञ्जायुक्तिर् मदन-धनुषो ज्या-द्युति-मुषः ॥4॥
अलं बिल्वं तालं करकम् उदयच् चारु-कुचयोः
स्फुरद्-वक्षः-स्थल्याः कनक-कृत-सिंहासन-गणाः ।
नितम्बस्यैतस्य स्फुर्त-नव-घण्टा-रव-भृतः
स्फुटं वंश-ध्वानाञ्चित-गुरु-गिरि-स्फार-विकटाः ॥5॥
वरोरु-द्वन्द्वस्य स्मर-कलि-समर्थस्य सरस-
प्रभारम्भा-स्तम्भाः स्थल-कमल-सङ्घाश् चरणयोः ।
सदोन्माद-प्रोद्यद्-गज-गमन-शिक्षा-गुरु-गतेर्
मराली-पालीनां ललित-चलितोद्यच्-चतुरता ॥6॥
अलं भ्राजज्-जम्बू-फल-मलक-पङ्क्तेः शत-मितं
मधौ मञ्जु-ध्वानाः पिक-युव-कृताश् चारु-भणितेः ।
प्रसन्न-श्री-वक्त्र-स्फुरित-नयन-प्रान्त-नटन-
क्रमस्य स्मेरोद्यत्-सरसिज-नटत्-खञ्जन-गणः ॥7॥
स्फुरत्-प्रेम्णा नेत्राञ्जन-गलित-पानीय-विततेर्
यमी चेतो-गञ्गा-जलम् अमल-चित्तस्य सततम् ।
घन-स्वेद-स्यन्दस्य च विविध-कासार-निवहो
महारागस्योच्चै रुचि-रुचिर-गुञ्जा-फल-कुलम् ॥8॥
सपत्नी-नासानां सततम् अतितापं जनयतां
सुहृच्-छ्रेणी-नासा-प्रमदम् अनुबेलं रचयताम् ।
वपुः-सौरभ्याणां परिमिलित-सर्व-व्रज-भुवां
निकामं काश्मीर-व्रज-कमल-गर्भा वर-रुचः ॥9॥
सुमेरोः कान्तीनां मद-दमक-दृप्यल्-लव-कण-
छटाया विद्युच्-छ्री-रचित-भजनायास् तनु-रुचः ।
स्फुरद्-भूमि-भागाः कनक-निचिताः सद्म-निवहा
गुहान्तः-कुञ्जान्तर्-गिरिकुल-शिलाश् च क्वचिद् अपि ॥10॥
ह्रदाः श्रीमन्-नाभेस् तद्-उपरि-लसल्-लोम-लहरेर्
भुजङ्गाली-काली बत वकरिपोर् वेपथू-भृतः ।
वदान्यत्वादीनां सुरतरु-गणानां रत्न-खचिताः
परं रोमाञ्चानां प्रियक-गुरु-किञ्जल्क-निकरः ॥11॥
परे ये मुक्ताः स्युः स्थिर-चर-पदार्था व्रज-भुवः
सदा स्तव्या भव्यैस् त्रिजगति निकामं जन-कुलैः ।
सद्-अङ्ग-प्रत्यङ्ग-प्रकर-सुषमायाः परम् उमा-
रति-श्री-वर्ण्यायाः परिषदि यथा युक्तम् अपि ते ॥12॥
रमेश-स्वानन्दोच्छलित-परम-व्योम-पुरतोऽप्य्
अजस्रं विस्फूर्जद्-विपुल-सुखदैक-द्रुम-लता ।
समस्त-ब्रह्माण्डे शशिवद्-उदयत्-प्रौढ-यशसस्
ततः श्री-राधायाः प्रकटम् अटवीयं प्रिय-सखी ॥13॥
ततोऽहं साटोपम् अवदम् -
व्रजेन्द्र-स्वाराज्ये विजयि-युवराजत्व-विधिना
समासिक्तः स्नेह-स्तिमितम् अतिमित्रादि-वलितः ।
निजाम् एतां रक्षाम्य् अटविम् इह गोचार-मिषतः
कथं स्वारूप्येणैव तु भवतु वः साम्प्रतम् इयम् ॥14॥
तच् छ्रुत्वा वृन्दा -
सखित्वं यो यस्य व्रजति निज-सारूप्यम् अथवा
न चेत् तस्य स्यान् नो भवति परम् अन्यस्य हि तदा ।
कथं नो गृह्णासि द्रुत-गतिर् इदं हन्त कथयन्
स्वयं गत्वा लक्ष्मीं तद् इनसमरूपं गणम् अपि ॥15॥
तन् निशम्य साट्ट-हासं मधुमङ्गलः - भो असत्य-वादिनि वृन्दे!
कुर्चिका-लोभेन निज-देवीत्वम् उत्सृज्य वन्दिनी भूत्वा,
मिथ्या-स्तव-मात्रेणैवास्मद्-वृन्दाटवीं निज-सख्यां सञ्चारयितुं कथं
शक्ष्यसि ?
नान्दीमुखी - ललिते! विज्ञ-प्राचीन-मुनीश्वर-वचनं विना कोऽपि निरस्तो न
भविष्यति तस्मात् पुराण-वचनम् एव दर्शय ।
ललिता - अस्य पक्षम् आश्रित्य तादृग्भिर् एवं चेत् कथ्यते तदा तत्र गत्वा
भगवत्याः सकाशाद् बहूनि पुराण-वचनानि श्रूयन्ताम् ।
सुबलः - भवत्य एव पठन्तु ।
ललिता - वल्लव-जातीनां तत्रापि स्त्रीणाम् अस्माकं पुराण-वचन-पाठेऽधिकार एव
नास्ति ।
सुबलः - वृन्देयं देवी । तद् इयम् एव श्रावयतु ।
वृन्दा स्मृतिम् अभिनीय - अत्र सुबहूनि वचनानि सन्ति । तानि कति पाठ्यानि किन्तु
अन्येषु देशेषु अन्याः पृथक् पृथग् देवीर् अधिकरिणीर् उक्त्वा राधा वृन्दावने
वने इति सर्वोपमर्दकं पुराण-वचनं भगवत्याः सकाशात् केन वा न श्रुतम्
अस्ति ।
ततस् तासां जयाभिमानेन प्रफुल्लताम् आलोक्य मधुमङ्गलः साटोपम् आह -
नान्दीमुखि! सर्व-पुराण-शिरसि महोपनिषदि गोपाल-तापन्यां वृन्दावनस्य
कृष्ण-वनत्वेन प्रथित-ख्यात्या वृन्दावन-राज-धानी-पुरन्दरत्वेन
प्रिय-वयस्यं ब्रह्म-भवादयोऽपि निरन्तरं गायन्तः सन्तीति के वा न जानन्ति
? ततः श्रुत्या स्मृतिर् बाध्यते इत्य् अस्माकम् एवेदं राज्यं सुसिद्धम् । तत् सखे
सुबल! विदावयाम् ऊरितः पर-राज्य-काङ्क्षिणीः ।
ततः सखे त्वम् एव मे प्रियङ्करः प्रिय-वयस्य इति सानन्दं मधुमङ्गलम्
आलिङ्गति मयि किञ्चिद् वैलक्ष्यम् इव राधाधिष्ठित-निकुञ्जम् आलोक्य
ललितादि-मुखम् आलोकयन्त्यां नान्दीमुख्यां राधा स्मित्वा अनुच्चैः - अहो
कृष्णेति शब्द-श्रवण-मात्रत एवानेन महा-दूर-दर्शिना तद्-अर्थम्
अबुद्ध्वैव पर-राज्येऽस्मिन् स्व-तातम् अर्पयता किंशुक-कुसुम-सादृश्येन
दुर्विध-बोधस्य रोलम्बस्य शुक-तुण्ड-पान-स्मरणं सुष्ठु समानीताः
स्मः ।
ततस् तस्मिन्न् एव वर्ण-विन्यासे सोल्लुण्ठं ललितयापि प्रकाशिते सति
कृष्ण-वन-शब्दस्यार्थान्तरं नूनम् एषा घटयिष्यतीति तद्-अभिप्रायं मनसि
मनाक् विचारयति मयि नान्दीमुखी सचमत्कारं मां प्राह - जयाकाङ्क्षिन्!
एकं विज्ञापयितुम् इच्छामि यदि तुभ्यं रोचते ।
ततोऽहं - कामं कथ्यताम् ।
नान्दीमुखी - श्याम-वन-समासम् आचर्य त्वया सह तत्-समासेनैव न्यायम्
आचर्य त्वां पराजित्य स्वराज्यम् आदातुं ललितेयम् अभिलषति ।
ततोऽहं - विविध-कुसुम-चन्दन-वर्णिकादिभिः शृङ्गार-रचनाचार्येयम् । तद् एव
जानाति यद् अनया तद्-वन-पुष्पैर् मुहुः शृङ्गारितोऽस्मि । तद् व्याकरणस्य केयम्
?
वृन्दा स्मित्वा - व्याकरण-विज्ञं-मन्य! त्वत्तोऽपि मत्-प्रिय-सखी ललिता
तद्-व्याकरणस्य प्रथिताचार्या ।
ललिता - पामरि वृन्दे! अपेहि अपेहि ।
वृन्दा - त्वत्-पक्षम् आश्रित्य विवदमानां मां किम् इत्य् आक्षिपसि ?
ललिता - भोः समासाचार्य-शार्दूल! कथं स्वेप्सितापर-समासेन विभीषिकां
प्रदर्श्य मत्-प्रिय-सख्याः खेलास्पद-कृष्ण-वनम् इदम् आदातुं
वृथैवाध्यवस्यसि । यतोऽत्र नित्यं वैश्वानरवज्
जाज्ज्वल्यमान-बहुव्रीहि-कर्मधारयाद्य्-अवधारणतः स्वयम् एव दूराद्
एवापसरिष्यसि । [समासाभिज्ञ कृष्ण-वन-शब्दस्य नर्म-च्छलेन
तत्-पुरुष-समासं विरचय्य पर-राज्यं ग्रहीतुं कथम् अभिलषसि । यद् अत्र
कर्मधारय-बहुव्रीहि-समासयोर् एवावकाशः ।]
ततो मयोक्तं - चतुरंमन्ये! प्रकटेऽत्र तत्-पुरुष-समासे कथं
करमधारयादि-योजना सम्भवति । भवतु भवतु दुर्जन इति न्यायेन तद् एव
तावत् कथय श्रोतव्यम् ।
राधा अनुच्चैः - वनस्यास्य घनता-प्राचर्येण कृष्णं श्यामं च तद्-वनं चेति
कर्मधारयः स्फुत एव ।
इत्य् एवं ललितयापि स्फुटं भाषिते चम्पकलता स-श्लाघम् आह - ललिते! साधु
साधु सत्यं सत्यं यतः कर्माणि
अरिष्ट-केश्यादि-वध-कालिय-दमन-गोवर्धनोद्धरण-नित्य-रासादि-लीला
धारयति निष्पादयति प्रकाशयति वा इत्य् अस्य वनस्य कर्मधारयत्वं स्फुटम्
एव प्रसिद्धम् ।
पुनर् ललिता राधानुच्च-भाषितम् एवानुवदति - कृष्णानि क्वचिद् क्वचिद् अतिश्यामानि
वनानि यत्र तत् कृष्ण-वनम् इति वृन्दावनस्य विशेषणत्वेन बहुव्रीहिर् अपि ।
वृन्दा -- सत्यं सत्यं कालिन्दी-तीर-रास-स्थल्याम् अन्धकारि-बट-वनं, तथा
गोवर्धनोपशल्य-पर-रास-स्थल्याम् अन्धकारि-निविड-वनं सर्वानन्द-करं
सुप्रसिद्धम् एव ।
इन्दुलेखा - ललिते! सत्यं सत्यं बहवो ब्रीहयो धान्यादि-शस्यानि किं वा
केदारिका-जातत्वान् मुक्ता एव ब्रीहयः । बहवो ब्रीहयो यस्मिन् नित्यस्य वनस्य
बहुव्रीहत्वं स्फुटम् एव ।
ततः स-गर्व-गर्भितं हसन्तीषु तासु मयोक्तं -
नाना-कुट-कल्पना-नगरी-चक्रवर्तिनि ललिते! मुखम् अत्र तत्-पुरुष-समासं
कल्पित-कर्मधारय-बहुव्रीहिभ्यां कथं दवयितुं शक्यसे ।
ललिता - महा-पण्डित! तत्-पुरुषस् तत्पुरुष इति बारं बारं जल्पसि । तत्पुरुषस्
तावद् अनेक-विधो भवति । तत्र कतमोऽयं स इति सुष्ठु निर्णीय कथ्यताम् ।
मयोक्तं - जड-बुद्धिके! कृष्णस्य वनं कृष्ण-वनम् इति षष्ठी-तत्पुरुषस्
मूल पाठ: Muktācarita · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0