मुग्धोपदेश · श्लोक 41-60
बिब्बोके बकचेष्टितं बहुविधभ्रूविभ्रमेषु भ्रमं कौटिल्यं नखरक्षतेषु सुरतोपायेषु मायां स्वयम्
सीत्कारान्तरसत्यम् अर्थहरणं सर्वत्र ये जानते वेश्यानां परमं रहस्यम् अवनौ ते के ऽपि मेधाविनः ॥
किं चित् प्राहुणकागमेन किम् अपि प्रस्तारविस्तारवत् यात्राचैत्रतिथिक्रमैः किम् अपि च क्रोधप्रसादोदयैः
किं चित् काञ्चनरत्नवस्त्रविषयैर् नानाविधैर् दोहदैर् द्वाराण्य् अर्थविनिर्गमस्य गणिकाः कुर्वन्ति शृङ्गारिणाम् ॥
अर्थुष्मा पितृलालनं विटघटामेलः प्रियम्मन्यता तारुण्यं नगरे स्थितिस् तरलता धिः कामशास्त्रं प्रति
सङ्गीतं रजनी विधुर् मधुमदः स्पर्धा सपत्नैस् तथा वेश्यानाम् अनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥
वैदग्धीम् अवधीरय व्यवहितं कार्यं कलाकौशलं सौजन्येन गतं किम् अन्यद् अफलो राशिर् गुणानाम् अपि
यस्मान् न प्रणयेन न प्रणतिभिः प्रेम्णा न न प्रीणनैर् न प्राणैर् अपि ते भुजंग गणिका वित्तं विना तुष्यति ॥
दासी नाथ तवाहम् एव विभवः सर्वस् त्वदीयः स्थितो मा मां निर्दय मुञ्च शून्यम् अखिलं मन्ये जगत् त्वां विना
इत्य् उक्त्वा सहसा भुजङ्गपुरतो यद् वेश्यया रुद्यते भुक्तोच्छिष्टदरिद्रकामिविभवास् ते केवलं तद् विदुः ॥
स्वप्ने काम् अपि संस्मरन् प्रिय मया दृष्टो ऽसि तत् ते बलाद् एवं मां प्रति सांप्रतं किम् उचिता निष्कारणं वञ्चना
तज् जागर्मि वरं निशासु यद् असौ निद्रापि मे द्रोहिणीत्य् आलापैर् गणिकागणेन न च को विश्वास्यते कामुकः ॥
भ्रूभङ्गैर् अतिभङ्गुरैः कुटिलितप्रान्तस् तथा कुन्तलैः सोपेक्षैर् इव चक्षुषोः सरलितापाङ्गैश् च भङ्ग्यन्तरैः
आत्मीयां चलचित्तवृत्तिरचनां वेश्या वराकी सदा यूनां दर्शयतीव ते यदि परं मूढा न तज् जानते ॥
वक्रोक्त्या प्रथमं निरादरतया पश्चात् ततः केन चिद् दातव्यं बहु तत्र यामि भवताम्(ताद्) भूयो ऽपि नौ संगमः
इत्य् उक्तो ऽपि न बुध्यते खलु यदा रागी दरिद्रो जडश् चेटीभिर् बहुभाषितैर् अपि तदा हस्तार्गलैर् वार्यते ॥
भूयः कालवशात् तम् अर्जितधनं दृष्ट्वाथ मद्वल्लभः सः क्रुद्धो गमितस् त्वयेति कलहो मात्रा समं जायते
कृत्वा तं प्रति च व्रतादि विरहं स्वं नाटयित्वा ततस् तस्मिन् मित्रमुखेन संधिर् अपरो वेश्याभिर् उत्पाद्यते ॥
प्रौढ प्राणद कान्त नाथ सुभगोदार प्रिय त्वां विना किं वित्तेन गृहेण किं किम् असुभिर् ह्यो ऽपीति यो भाषितः
तस्यैवाद्य निराश दुर्भग पशो निर्लज्ज गच्छाधुना धिक् त्वां निर्धनचङ्गम् इत्य् अपवदन् ह्रीतो न वेश्याजनः ॥
के चिद् द्यूतकरा भवन्ति कतिचिद् भिक्षाचराः किङ्कराः के चित् कर्मकराः परे धनवतां श्लाघाकराः के चन
स्कन्धासक्तपटच्चरा द्य(अ)नुचरा शोकाद् अकिंचित्करास् ते ऽमी कामिवराः पुरा समभवन् वेश्यासु ये गोचराः ॥
वेश्याभिर् विवशीकृतः कुपुरुषः संजायते दुर्गतो दौर्गत्येन दुरोदरे निपतितः स्वं हारयत्य् एव स
रुद्धो द्यूतकरैः करोति विधुरश् चौर्यं ततस् तस्करो वध्यः स्यान् नृपतेर् अहो नु विषयासक्तेर् दुरन्ता गतिः ॥
आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संब्ःआवना व्यत्ययात्
यत्किम्चित्करणे परस्वहरणे व्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियस्= ॥
स्त्रीति प्रीतिकरं पुरः परिणतौ हालाहलं केवलं सर्वस्य व्यसनं किलैतद् अधिकं तत्रापि वेश्येति च
प्राधान्येन ततस् तद् एव कथितं यत् तत्प्रसङ्गेन च व्याख्यातं गुणदोषजातम् उचितं चिन्त्यं तद् अप्य् आदरात् ॥
चेतःश्वापदवागुरा दशगुणस्फारस्मरोड्डामराः कर्तव्यावधयः(?) समुद्रलहरीपूरैर् इवोत्पादिताः
नापि स्वाम्यसमर्पणेन न सखे सख्या (?) विरोधेन वा गूढान्तर्मुखसाहसव्यतिकरारक्ष्याः परं योषितः ॥
भस्मस्नानमहाव्रतं कतिपयश्रीभ्रष्टसंभावितं सर्वापह्नवहस्तलाघवकलाकूटाक्षशिक्षात्मकम्
प्रत्याशापुनरुक्तहारणजगद्द्रोहं विवादास्पदं दारिद्र्यस्य निमन्त्रणं किम् अपरं धिग् द्यूतलीलायितम् ॥
हिंसानिर्घृणकर्मभूः प्रतिपदानेकप्रमादप्रसूस् अव्यापारधुरन्धरा प्रतिकृता ग्राम्यैर् जघन्यैः श्वभिः
शून्यारण्यसदाप्रवासविरसव्यायाममिथ्यागुणाः कायक्लेशफलावधिर् मतिमतां सेव्या मृगव्यापि किम् ॥
शौचाचारविचारवाह्यम् अखिलाकार्याहिताचार्यकं तत्तद्गोप्यरहस्यमन्त्रभिदुरं निर्नैशम् अक्ष्णोस् तमः
यत्तद्वाद्दकलिप्रमादविविधोन्मादैः पिशाचायितं मद्यं मूर्तम् अमेध्यम् एतद् इतराद् अन्यस्य कस्य प्रियम् ॥
उल्कापातसहोदरं सहचरं नैदाघझञ्झामरुत् झम्पानां हरकण्ठलालितगरद्रोणीकुटुम्बीकृतम्
जिह्वाग्रे करपत्त्रमित्रम् अनिशं तत् कर्कशं दुर्वचो यस्यास्ते वद कद्वदः कथम् अहो स अपि स्वयं जीवति ॥
चण्डं दण्डम् अकाण्ड एव कलयन् राजा प्रजानां यमः कुर्वन् दुर्व्ययम् अर्थदूषणरुचिः स्वस्यैव स द्रोहकृत्
सौम्यः सौम्यकरो ऽतिविश्वनयनानन्दो ऽभिनन्द्यः सतां सश्रीकः कमलाकरश् च सुषमां कां काम् अहो नार्हति ॥
मूल पाठ: Mugdhopadeśa · Edition: Kavyamala (short series), vol. viii (1891), pp.125-135. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0