मुग्धोपदेश · श्लोक 21-40
किं काको ऽपि विहंगमो मरुर् अपि स्थानं करीरो ऽपि किं शाखी राहुर् अपि ग्रहः स च भवेद् उष्ट्रो ऽपि किं वा[ह]तम्
किं काचो ऽपि मणिर् मृगो ऽपि करटिः प्रेष्यो ऽपि वा मानुषः किं वेश्यापि विलासिनी स च तदासक्तो ऽपि किं कामुकः ॥
किं तत् कर्म यद् अस्तशर्म रसना किं सा न (च) यारुंतुदा किं तत् प्रेम यद् अस्थिरं स च पुमान् किं नाम यो निर्गुणः
सा किं श्रीर् उपभोगम् अर्हति न या सेव्यः स किं यो ऽन्तरं नो जानाति तद् अस्ति किं विलसितं वेश्यासु यत् कृत्रिमम् ॥
दूरे तानि धनानि येषु मलनं मानस्य संजायते बन्धुः स अस्तु सुखी मुखे मधुमयो यो ऽन्तश् च मायामयः
भोगाः प्रलयं प्रयान्तु कथम् अप्य् औचित्यभङ्गेन ये यायातुर् निधनं वरं निधुवनं वेश्यासु मूल्येन यत् ॥
अस्थानाभिनिवेशिता रतिपतेर् औचित्यभङ्गो रतेर् वैयर्थ्यं नवयौवनस्य किम् अपि प्रेम्णः कलङ्काङ्कुरः
सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियः शृङ्गारस्य विडम्बना किम् अपरं वेश्यारतडम्बरः ॥
क्रुद्धो यस्य मनोभवस् तरुणिमा येनात्मनो वञ्चितस् तैस् तैर् यश् च कटाक्षितः परिभवैः साक्षाद् अलक्ष्मीमुखैः
युक्तायुक्तविचारणापरिहृतः कामं स कामी क्रिमिः पण्यस्त्रीषु नितम्बनामनि महानिम्बे रतिं विन्दति ॥
शापः को ऽपि महानयं परिणतिर् दुष्कर्मणाम् ईदृशी दौर्जन्यं परमं विधेर् इदम् इयं साक्षाद् अलक्ष्मी स्थिरा
सौहार्दस्य च विभ्रमस्य च रतेर् भर्तुश् च यूनां तथा यत् संत्यज्य कुलाङ्गनां बहुमुखो दासीजनः सेव्यते ॥
संपर्को ऽप्य् अतिकर्कशः परिचयाभासो ऽप्य् असंपत्करो दृक्पातो ऽप्य् अवसादसूर् अपि सकृत् संभाषणं दूषणम्
छायापि च्छलनात्मिका परिमलोद्गारो ऽपि हालाहलं वेश्यानां विषयेषु किं पुनो ऽहो सक्तिर् महासाहसम् ॥
द्रोहो यस्य पिता कलाः किल चतुःषष्टिस् तथा मातरः प्राणाः सर्वम् अलीकम् अर्थहरणं नाम प्रधानव्रतम्
विक्रेयं निजम् अङ्गम् अङ्गम् अपि चानङ्गः सहायः स्वयं तस्यानर्थशतात्मकस्य गणिकाव्याधेः किम् अस्त्य् औषधम् ॥
गृध्री निर्भरम् आमिषेषु सरघा घोरा मधूनां भरे तीक्ष्णनखक्षतेषु भुजगी दंशप्रकारेषु च
उत्तानेषु विवर्तनेषु शफरि वित्तच्छले मूषिका वेश्या कामुकवञ्चनाय भुवने रूपैर् अनेकैः स्थिता ॥
साम्राज्यं मधुमांसमत्स्यगिलनं मन्त्री जरत्कुट्टनी दण्ड्यः सार्थकिराटसूनुरधनाः शृङ्गारिणः किङ्कराः
आचारो बहुगालिदानम् अधमो मित्रं धनं जीवितं वेश्यानां पुरचार ... थ भग्नः प्रियः ॥
रागीति प्रतिपत्तिभूर् वित इति प्राप्तो ऽतिवन्द्यं पदं श्लाघार्हो व्यसनीति हीनकुल इत्य् अग्र्यः कुटुम्बः स्वयम्
मान्यः प्राहत इत्य् अहो कितव इत्य् आप्तश् च किं वाधिकं सर्वावस्थ इति प्रमाणपुरुषो वेश्याभिर् अभ्यर्च्यते ॥
मांस्पाकोत्कटमद्यगन्धि विहरच्चेटीनटीसंकुलं यद् वेश्यायतनं भुजंग परया भक्त्या पुरः पश्यसि
अत्रास्ते गृहदेवता विदधती दिग्घट्टनं कुट्टनी यस्याः प्रत्यहम् आढ्यकामुकपशुव्रातोपहारैर् बलिः ॥
प्रत्यङ्गार्पणचारुचाटुकरणप्रेमोचितप्रार्थना श्रीवातायनदर्शनादिगणिकालोकस्य धर्मः परः
कुट्टन्याः पुन उत्कटोत्कटम् इदं तत्रास्त्य् अगस्त्यव्रतं यत् प्राणाहुतिर् एककैव सकलई रत्नाकरैः कामिभिः ॥
कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश् च भोः कामुकाः
वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैर् इतो यद् वः क्रीडितम् अत्र दास्यति पुरो दारिद्रम् एवोत्तरम् ॥
शूलेनाद्य मृताहम् अद्य सरजाः कर्तव्यम् अद्य व्रतं त्यागी नास्ति ततो ऽधिको ऽपर इति श्लाघा विपक्षस्य च
कं चिन् नोत्सहते स राजतनयो जानाति माता ममेत्य् एवं मुग्धभुजंग रूक्षगणिकावाचो ऽचिराच् छ्रोष्यसि ॥
मालिन्यं प्रकटिकरोति निबिडं नैर्गुण्यम् आतन्वते(सी) जीर्णस्नेहपरम्परा विदधते पात्रे ऽप्य् अहो दूषणम्
वेश्या दीपशिखेव भाति रजनौ रूपभ्रमान्धीकृतो यत्रायं कुरुते पतङ्गपतनं हा हा भुजंगव्रजः ॥
केशाकर्षणकर्मणि व्यवसिता वीर्यं हरन्ती परं म्लानिं काम् अपि तन्वती स्मितमुखी लग्ना च कर्णान्तिके
उत्कम्पं मतिविभ्रमं विदधती यूनां शनैर् निन्दिता तारुण्यस्य जनापवाद ... वेश्या च संदृश्यते ॥
यो ऽयं निर्दयदन्तखण्डनकरो बुद्धिप्रयोगैर् हठान् नीरन्ध्रो भुजयन्त्रपीडनविधिः सोल्लासम् उत्पादितः
तेनेक्षोर् इव कामुकस्य सरसस्यादाय सारं परं वेश्याभिः क्रियते बहिर् यदि परं निष्कासनं शल्कवत् ॥
वाग्भिर् भर्त्सनम् अंशुकादिहरणं संताडनं मुष्टिभिः किं चान्यद् विपरीतदर्श्नम् अधस्कारो ऽथ पादाहतिः
इत्यादि प्रथमं यदेव सुरतप्रौढोपचारक्रमे वेश्या पश्यत तत् तद् एव कुरुते निर्वासने कामिनाम् ॥
यद् भूयः परिचुम्बनं यद् असकृत्सर्वाङ्गम् आलिङ्गनं यत् पर्युत्सुकम् ईक्षितं सरभसं यच् चाटुकोत्कट्टनम्(उत्कीर्तनम्?)
यत् सद्भावकथानकं रहसि यत् किं चिद् अभ्यर्थनं वेश्यानां विषवत् तद् एव निपुणं चिन्त्यं सदा कामुकैः ॥
मूल पाठ: Mugdhopadeśa · Edition: Kavyamala (short series), vol. viii (1891), pp.125-135. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0