भाषा

ENहिગુ
ग्रंथ पाठ

मुग्धोपदेश · श्लोक 61-66

61

संसारस्य महेश्वरो दिनपतिर् ध्वान्तस्य वैद्यो रुजां प्रायश्चित्तम् अघस्य शास्त्रम् अपरिज्ञानस्य तोयं तृषः
सिद्धाज्ञा गरलस्य तीर्थसरणं वृद्धत्ववैक्लव्ययोः सप्ताङ्गव्यसनावलेः प्रशमनोपायश् च शिक्षा सताम् ॥

62

ओंकारः साहसानां निजगुणनिपुणप्रत्यवेक्षा सुखानां कादाचित्कः प्रयोगः सकलपरिचयोपाधिवैदग्ध्यबन्धुः
कष्टानाम् अन्त्यकाष्ठा धनरसिकवणिग्लोकयात्राप्रसङ्गो जीवज्जन्मान्तरं चेत्य् अलम् अतिबहुना स्वस्ति देशान्तराय ॥

63

यद्य् अप्य् अस्ति सविस्तराद्भुतकथाभूयिष्ठनानाविध व्याख्यायां निरवद्यहृद्यचरितोदारं च देशान्तरम्
तत्रापि स्वगृहेषु गुणवद्गोष्ठीगरिष्ठीकृत स्फारो ऽनारतभारतीरसपरिष्यन्दः सखे सुन्दरः ॥

64

ते वन्द्या मकरन्दबिन्दुमधुरैर् अभ्युत्थिताद् अक्षरैर् येषा वान्ति सरस्वतीपरिमलोद्गारा मुखाम्भोरुहात्
वन्द्यास् ते ऽपि तदन्तरालपतिता ये भृङ्गभङ्गीजुषः सान्द्रानन्दकरम्बितं जगद् इदं विन्दन्ति निन्दन्ति च ॥

65

दृष्ट्वा देशम् अशेषम् आ जलनिधेर् आलोक्य कौतूहलाद् आस्थानीर् अवनीभृतां च पुनर् अप्य् आगत्य देशं निजम्
कारुण्यात् तरुणं जनं प्रति सताम् अभ्यर्थनाभिस् तथा सो ऽयं संप्रति जल्हणेन कविना मुद्घोपदेशः कृतः ॥

66

विद्याभ्यासपरम्परापरिचयैर् बाल्यं कृतार्थीकृतं तारुण्यं तरुणीनिरन्तरपरीरम्भैश् च संभावितम्
अस्माकं सुरसिन्धुरोधसि पुनः शंभावदंभार्चनैर् वृद्धत्वस्य विशुद्धतां जनयितुं कर्तव्यशेषः स्थितः ॥

मूल पाठ: Mugdhopadeśa · Edition: Kavyamala (short series), vol. viii (1891), pp.125-135. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc