भाषा

ENहिગુ
ग्रंथ पाठ

मुग्धोपदेश · श्लोक 1-20

1

पीयूषाभिनिवेश एष रभसाद् अस्माकम् अद्यानया बन्धूकद्युतिबान्धवाधररसस्यन्देन मन्दीकृतः
इत्थं दैत्यचयः समुद्रमथने येन क्षणाद् वञ्चितस् तस्मै सादरम् ओंनमो ऽस्तु कपटस्त्रीरूपिणे विष्णवे ॥

2

हारिद्रद्रवसोदराय रसनामंडो(मात्रो)परिस्थायिने सत्याद् अन्यतमाय वित्तहरणप्रत्यक्षचौराय च
चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः ॥

3

ध्यानं यत् परमेश्वरं प्रति सदा यद् वीतरागं मनो यत् कर्मातिकठोरघोरगहनं भूत्यै यद् अत्यादरः
आश्चर्यं च शरीरदानम् अपि यत् कार्यं विकारं विना तद् वेश्यैव तपस्विनी कलियुगे लोको ऽपि तद्भावितः ॥

4

श्रीमन्तं शिरसा बिभर्ति कुरुते विश्वभ्रमं हेलया धत्ते पाटकपक्षपातम् अनिशं नैवामिशैस् तृप्यति
रक्तं पातुम् अपीहते च सकलं तार्क्ष्यस्य मूर्तिर् यथा वेश्या किं तु भुजङ्गभक्षणविधौ नाद्यापि विश्राम्यति ॥

5

ते गन्धर्वपुरे वसन्तु विभवं स्वप्नार्जितं भुञ्जतां कुर्वन्तु क्षणम् अन्तरिक्षकुसुमैः स्रग्दामशोभाम् अपि
वेश्यानां शशशृङ्गभङ्गिसदृशं वाल्लभ्यम् आसाद्य ये सर्वस्वक्षपणाय केवलम् अहो मूर्खाः सुखेनासते ॥

6

श्वैत्यं कल्पय कज्जले कपिकुलेष्व् आरोपयाचापलं कोदण्डे जनयार्जवं विरचय ग्राव्णां गणे मार्दवम्
निम्बे साधय माधुरीं सुरभिताम् आदौ रसोने कुरु प्रेमाणं गणिकाजने ऽपि चतुरः पश्चात् सखे द्रक्ष्यसि ॥

7

कालश् चेत् करुणापरः कलियुगं यद्य् अद्य धर्मप्रियं निस्त्रिंशो यदि पेशलो विषधरः संतोषदायी यदि
अग्निश् चेद् अतिशीतलः खलजनः सर्वोपकारी स चेद् आयुष्यं यदि वा भविष्यति विषं वेश्यापि तद्रागिणी ॥

8

मूढो निर्व्यसनो वणिग् विकपटो राजाधिकारी शुचिः स्वाधीनो भृतको जडो गुणरतश् चौरो व्यपेतस्पृहः
भीतः शान्तमतिर् वितः सविनयः कर्णेजपो धार्मिकः किं कुत्रापि कदापि को ऽपि भविता वेश्याजनो रागवान् ॥

9

कामो नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा तोयं नास्ति मरीचिकासु सततं नास्ति स्थिरत्वं श्रियः
धर्मो नास्ति च नास्तिकस्य विभवो नास्ति प्रमत्तात्मनः स्नेहानां कणिकापि नास्ति गणिकालोकस्य च प्रायशः ॥

10

अश्वीये यमवाहनस्य नकुलस्याशीविषाणां कुले मार्जारस्य च मूषकेषु घटते या प्रीतिर् आत्यन्तिकी
क्षीणे ऽर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैर् ज्ञेया कामिजनेषु सैव गणिकावर्गस्य नैसर्गिकी ॥

11

यद् यूतेन युधिष्ठिरस्य विहितं यद् विष्णुना वा बलेर् यच् छुक्रेण धनाधिपस्य कलिना राज्ञो नलस्यापि यत्
संभूयापि च यत् सुरासुरबलैर् उन्मथ्य पाथोनिधेर् वेश्या पश्यत लीलयैव कुरुते तत् तद् गृहे कामिनाम् ॥

12

वाक्शुरस्य रणो ऽवधिः कुतनयोत्पत्तिः कुलस्यावधिर् बान्धव्यस्य विवादभूमिर् अवधिः सौख्यं श्रुतस्य् अवधिः
वाचाटस्य विदग्धपर्षद् अवधिर् लौल्यं व्रतस्यावधिर् बन्धो विद्धि धनावसानम् अवधिर् वेश्यानुरागस्य च ॥

13

स्वामी क्रूरम् इवाश्रितं परिणतो योगीव संसारिणं शुद्धो विप्र इवान्त्यजं जनपदः श्रीमान् इव श्वित्रिणम्
दासीपुत्रम् इवोद्धतः कुलधरो नीचो धनीवार्थिनं पर्यन्ते तृणतुल्यम् एव गणिका निःस्वं जनं पश्यन्ति ॥

14

विप्रो दक्षिणया महैः परिजनो मेघोदयैः कार्षिको दुर्मन्त्री व्यसनेन साहसशतैः शूरो मृगैर् लुब्धकः
बन्दी त्यागिभिर् अक्षरैर् जनयिता लाभातिरेकैर् वणिग् रोगार्तैर् भिषग् अर्भकैश् च गणिका गर्भेश्वरैस् तुष्यति ॥

15

अज्ञानः कलहैः सुभाषितपदैः सभ्यो ऽधमऋणैर् धनी जीवैः शाकुनिको दुरोदरकरः शारैर् यमः प्राणिभिः
ग्रामीणैर् विटपेटकः परिजनैः स्वामी शिशुः कन्दुकैः श्रीपुत्रैस् तरुणैस् तथा नवनवैर् वाराङ्गना क्रीडति ॥

16

भृत्यः कुप्रभुसेवया नरपतिः स्वच्छन्दतादुर्नयैर् हेवाकेन कविर् मदेन कुलजः क्रोधाग्निना तापसः
योगी भोगविशेषलम्पटतया रोगी कुपथ्याशनई रागी चत्वरकामिनीपरिचयैः क्षिप्राद् अधः क्षिप्यते ॥

17

शालीनां शलभव्रजो धुणगणो वंशप्रतानोन्नतेर् मत्तेभः कमलाकरस्य कुसुमोद्यानस्य दुर्मारुतः
स्वस्भानुर् विधुमण्डलस्य वडवावक्रो निधेर् अम्भसा मासां कामुकसंपदां च गणिकाक्षुद्रः कीलोपद्रवः ॥

18

शौर्यस्यातिविकत्थनं रिपुनतिर् मानस्य दुःशीलता सौन्दर्यस्य समुन्नतेस् तरलता ज्ञानस्य गर्वग्रहः
ऐश्वर्यस्य विकारता मुखरता विद्याप्रकर्षस्य च भ्रातर्विभ्रमनर्मणश् च गणिका सर्वात्मना दूषणम् ॥

19

च्छायाम् अभ्रदलैः खलैः सुजनतां मानोन्नतिं याच्ञया कार्पण्येन यशांसि धूर्तकलया मैत्रीं सुखं सेवया
धर्मं प्राणिवधेन वाञ्छति धनं द्यूतप्रसादेब यो वेश्याभिश् च विलासम् आत्मनि नराकारो ऽस्ति गौर् एव सः ॥

20

नान्धो मूर्खसमो न सेवकसमो दुःखी न यक्ष्मोपमो व्याधिर् नाधिर् असत्सुतप्रतिनिधिस् त्रासो न भृत्योः समः
कष्टं नाध्वसमानम् इन्द्रियसमो नारिः परस्त्रीसमं नानायुष्यम् अवश्यनिन्द्यम् अथ नो वेश्यासमं दृश्यते ॥

मूल पाठ: Mugdhopadeśa · Edition: Kavyamala (short series), vol. viii (1891), pp.125-135. · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc