मृत्युवञ्चनोपदेश · अध्याय 4
आध्यात्मिकम् इदानीं तु मृत्युवञ्चनकौशलम्
कथ्यते येन नियतं वञ्च्यते मृत्युर् उद्यतैः ॥
राजचौरमहामार व्याघ्रादिभयवर्जिते
संसर्गरहिते रम्ये पर्वतादौ क्व चित् स्थितः ॥
मात्राभोजी मितालापी नातिचङ्क्रमणे प्रियः
अल्पनिद्रो बहुध्यानो मन्त्रजापपरायणः ॥
स्वेष्टदैवतपूजादि सद्धर्मपठनक्रियः
त्रिसंध्यबलिदानादि मैत्र्यचित्तादितत्परः ॥
पुण्याद् एवेष्टसंसिद्धिर् इति पुण्यक्रियापरः
श्रद्धया सर्वसंसिद्धिर् इति श्रद्धाविवर्धकः ॥
वीर्यात् प्रारब्धनिष्पत्तिर् इति वीर्यपुरःसरः
ध्यानाद् इष्टफलस्थैर्यम् इति ध्यानैकचेतनः ॥
सङ्गत्यागाद् अनुष्ठानम् इति सङ्गविवर्जितः
सम्यग्ज्ञानवतः सर्वम् इति ज्ञानसमन्वितः ॥
मरणे दुःखसंदर्शी धर्मदर्शी च जीविते
विगताशेषसंदेहो मृत्युवञ्चनम् आरभेत् ॥
तत्रादौ ध्यानसहितं विघ्नारेर् मन्त्रलक्षकम्
संजप्यायुतहोमेन सर्वविघ्नान् निवारयेत् ॥
नमः समन्तकायेति प्राग् वाक्चित्तपदं ततः
वज्राणां च नमो वज्र क्रोधायेति पदं वदेत् ॥
महादंष्ट्रोत्कटपदाद् भैरवायपदं वदेत्
असिमुसलपरशु पाशगृहीतहस्ताय ॥
ओं ततो ऽमृतकुण्डलि खखखाहिखाहिपदात्
तिष्ठतिष्ठपदं तस्माद् बन्धद्वयं हनद्वयम् ॥
दहद्वयं गर्जद्वयं विस्फोटयद्वयं ततः
सर्ववज्रपदाद् विघ्न विनायकान्पदं वदेत् ॥
महागणपतिपदाज् जीवितान्तकराय च
हूं हूं फट् फट् स्वाहा मन्त्रो विघ्ननिवारणः ॥
हृदयेनाथवास्यैव सर्वविघ्नान् निवारयेत्
पूर्ववज् जपहोमाभ्यां शक्तिर् अस्यापि तादृशी ॥
ओं प्राग् उक्त्वा हुलुहुलु तिष्ठतिष्ठपदं ततः
हनद्वयं दहद्वयं गर्जगर्ज तथा पुनः ॥
विस्फोटयद्वयाद् ब्रूयात् सर्वविघ्नविनायकान्
ओं अमृत हूं हूं फट् फट् मम रक्षां कुरु स्वाहा ॥
एवं विनाशिताशेष मारविघ्नो निराकुलः
यथाभिवाञ्छितं योगं ध्यायाद् एकम् अहर्निशम् ॥
बुद्धकृत्यकरं शान्तं घनव्यूहनिवासिनम्
आबद्धवज्रपर्यङ्कं पद्मचन्द्रासनोपरि ॥
बोध्यग्रीमुद्रया युक्तं स्फुरच्छ्वेतांशुमण्डलम्
ध्यात्वा वैरोचनं शुक्लम् आसंसारं न मृत्युभाक् ॥
स्ववर्णमुद्रावेषाढ्यान् अक्षोभ्यादितथागतान्
दृढाहङ्कारतो ध्यात्वा वज्रकायो भवेद् ध्रुवम् ॥
हृच्चन्द्रसंपुटान्तस्थं लोकेश्वरम् अनश्वरम्
शान्तं शशाङ्कसंकाशं सर्वालङ्कारभूषितम् ॥
रक्तवर्णामिताभाख्य संबुद्धाङ्कजटाधरम्
वज्रपर्यङ्कसंश्लिष्टं पादाम्बूजद्वयोपरि ॥
समाधिमुद्रासंसक्त करद्वयम् अनाकुलम्
सर्वसत्त्वार्थसंपादि कारुण्यस्यन्दिविग्रहम् ॥
ध्यात्वा तस्यापि हृदये लोकेशम् अपरं तथा
पुनस् तस्यापि हृदये तथैवैकाग्रमानसः ॥
कोटिसंख्या भवेद् यावत् तावद् ध्यानम् इदं स्मरेत्
ततः सूक्ष्मातिसूक्ष्मान्त्य लोकेशगतचेतसं ॥
दृष्ट्वा योगेश्वरं मृत्युर् म्रियते स्वयम् एव हि
अन्ये ऽपि स्कन्धजा दोषाः स्वयम् आयन्ति नाशिताम् ॥
सितारविन्दमध्यस्थ चन्द्रबिम्बासनोपरि
आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम् ॥
शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम्
सर्वालङ्कारसंपूर्णां षोडशाब्दवपुष्मतीम् ॥
सर्वसंबुद्धतत्पुत्र मातरं कामरूपधाम्
ध्यात्वार्यतारां हृदये तस्याश् चक्रं सितद्युति ॥
अष्टकोष्ठकम् अष्टाभिर् अक्षरैः परिपूरितम्
ओंहाव्यञ्जनमध्यस्थ साध्यनामाद्यनाभिकम् ॥
ध्यायाद् एकाग्रचित्तः सन् षड् मासान् दृढनिश्चयः
जपेच् चाखिन्नचित्तः सन् मन्त्रम् एनं दशाक्षरम् ॥
ओङ्कारम् आदितो दत्त्वा पश्चात् तारे प्रयोजयेत्
तुत्तारे स्यात् तुरे पश्चात् स्वाहान्तः सार्वकर्मिकः ॥
ब्रह्मेन्द्रविष्णुचन्द्रार्क रुद्रदिक्पालमन्मथैः
अप्य् अखण्डितरोमाग्रं मृत्युं जयति मृत्युवत् ॥
वलीपलितदौर्भाग्य व्याधिदारिद्र्यसंक्षयः
सिंहाद्यष्टमहाभीति दुःखसंदोहनाशनम् ॥
अयाचितान्नपानादि हर्म्यवस्त्रादिसंगमः
खड्गाञ्जनपादलेप भद्रकुम्भादिसिद्धयः ॥
कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला
अन्या च वाञ्छिता सिद्धिश् चक्राद् अस्मात् प्रजायते ॥
लोचनां मामकीं चुन्दां महाश्वेतादिदेवताम्
स्ववर्णवेषमुद्राभिर् ध्यात्वा मृत्युं न पश्यति ॥
स्वेष्टदैवतयोगाद् वै दृढाहङ्कारसंगतात्
चिन्तामणेर् इवाशेष वाञ्छितार्थप्रसाधकात् ॥
शङ्खकुन्देन्दुसंकाशात् संहारक्रमसंस्थितात्
अनारतक्रियाभ्यासान् मृत्युर् आयाति वञ्चनाम् ॥
चक्रसंवरतन्त्रोक्त हेरुकाकारभावनाम्
कृत्वा तत्परिणामेन कपालाकारभावकम् ॥
कङ्कालरूपनिध्यानं यद् वा खट्वाङ्गभावकम्
मारयितुम् अयोग्यत्वान् मृत्युर् नैवोपसर्पति ॥
मूर्ध्नि चन्द्रमसो बिम्बात् क्षरत्पीयूषशीकरान्
ह्लादयतः समस्ताङ्गं रोमकूपैः समन्ततः ॥
षड् मासान् भावयेद् योगी सर्वसङ्गविवर्जितः
सर्वरोगान् विनिर्जित्य मृत्युं जयति मृत्युवत् ॥
शिरस्य् अधोमुखं शुक्लं सहस्रदलपङ्कजम्
ध्यात्वा चन्द्रक्रमान् मृत्युं कल्पादींश् च विनाशयेत् ॥
अस्यैव कृष्णरूपस्य कृष्णरूपैर् गभस्तिभिः
संप्लावयतो निध्यानात् पलितादिविनाशनम् ॥
जिह्वां तालुगतां कृत्वा दन्तैर् दन्तान् असंस्पृशन्
अचिन्त्यहेतुसामर्थ्याच् छ्रद्धेयम् इदम् आरभेत् ॥
कण्ठरन्ध्रोर्ध्वसंलग्नां लालाजिह्वाम् अधोमुखीम्
जिह्वाग्रेणालिहेद् यावत् पीयूषरसवेदनम् ॥
ततो मृत्युं जयेत् सद्यः पलितादींश् च नाशयेत्
सर्वापद्भयरक्षा च तत्कार्यकरणाद् भवेत् ॥
आनापानस्मृतेर् वाथ प्रकारान्तरम् आरभेत्
संख्यावृद्ध्या ततो ऽवश्यम् अजरामरतां व्रजेत् ॥
अधिकानि शतैः षड्भिः सहस्राण्य् एकविंशतिः
अहोरात्रेण सत्त्वानां प्राणसंख्या प्रकीर्तिता ॥
प्रवेशः शस्यते वायोर् यतः सो ऽमृतसंचयः
अमृतं जीवनोपायस् तेन मृत्युर् न बाधते ॥
प्रवेशं गणयेद् वायोः शनैर् लक्षादिसंख्यया
एकाग्रचित्तो विधिवद् अशब्दो जप उच्यते ॥
अशब्दजपलक्षेण विधिना पूरितेन तु
भ्रष्टायुः सन् नरो ऽवश्यं पञ्च वर्षाणि जीवति ॥
द्विलक्षादिजपाद् एवम् उन्नेया वृद्धिर् आयुषः
उपायकुशलो भूत्वा वायुजापपरो भवेत् ॥
सहस्रम् एकं सततं गणयेत् प्रातर् उत्थितः
सर्वरोगविनिर्मुक्तो जीवेच् चन्द्रार्कजीवितम् ॥
नाभ्यासरहितस् तिष्ठेन् मुहूर्तम् अपि न स्वपेत्
जित्वा निद्रां प्रयत्नेन भक्षपानासनादिकम् ॥
वाहयेद् अनुलोमेन वायुसंचारतत्परः
अनुलोमपरो योगी मृत्युं जयति निश्चितम् ॥
म्रियन्ते तु विलोमेन मूढा भोगैकतत्पराः
स्वभावस् त्व् अनुलोमः स्याद् विलोमस् तद्विपर्ययात् ॥
सिंहविक्रीडितामुद्रा बन्धनाद् वायुरोधतः
जितकुम्भकयोगाद् वा निरोधो मृत्युवञ्चकः ॥
आपादतलपर्यन्तं शनैर् आपूर्य वायुना
निरोधनात् कुम्भकः स्यात् तज् जपक्रम उच्यते ॥
त्रिविधोद्घातयोगेन जितो भवति कुम्भकः
हीनमध्यादिभेदेन उद्घातस् त्रिविधो मतः ॥
उद्घात इति संज्ञैषा वक्ष्यमाणार्थदर्शिका
षट्त्रिंशन्मात्रिको हीनो मध्यः स्याद् द्विगुणस् तथा ॥
ज्येष्ठस् तु त्रिगुणो ज्ञेयः कुम्भकस् तेन जीयते
प्रथमं कुम्भकं कृत्वा पश्चात् स्वं जानुमण्डलम् ॥
पाणिना त्रिः परामृश्य षड् दद्याच् छोटिकास् ततः
एषा मात्रोच्यते काल परिच्छेदाय पण्डितैः ॥
षट्त्रिंशन् मात्रा यावत् स्युस् तावद् या कुम्भकक्रिया
उद्घातो ऽसौ मतो हीनो मध्यमो द्विगुणस् ततः ॥
त्रिगुणो ज्येष्ठ उद्घातो ऽष्टोत्तरशतमात्रिकः
स एव जेयो यत्नेन मृत्युवञ्चनवाञ्छया ॥
ज्येष्ठोद्घातावधिं यावत् कुम्भकश् चेत् प्रवर्तते
निरन्तरनिरोधो ऽपि तदा भवति सुस्थिरः ॥
मर्तव्यदिवसं ज्ञात्वा यो निरोधेन तिष्ठति
तस्य कल्पसहस्राणि मृत्युर् नायाति संनिधिम् ॥
आकाशधेनोर् आदोहात् पीयूषद्रवसंचयम्
घटाङ्कवारुणाख्येन मण्डलेन स्फुरत्त्विषा ॥
नासाग्रनिर्गतो वायुर् आदायासेचयेन् मुहुः
शुष्यद्धृत्पद्मसंलीनं चित्तभ्रमरशावकम् ॥
आकाशदोहनध्यानम् इदं नित्यं समाचरेत्
आकाशम् इव तं मृत्युः पश्यन्न् अपि न पश्यति ॥
संत्यज्य वायुम् अथवा तत्त्वम् एव सदाचरेत्
तत्त्वेन जीयते मृत्युस् तथान्ये मारशत्रवः ॥
निःशेषदोषप्रशमो निःशेषगुणसंभवः
तत्त्वेन जीयते पुंसां सिद्धयश् चाभिवाञ्छिताः ॥
तत्त्वं च शून्यता प्रोक्ता सर्वाकारवरात्मिका
ताम् एवाभ्यस्यतो नित्यं मृत्युर् आयाति वञ्चनाम् ॥
धर्मसंभोगकायादि दानशीलाद्यभेदिनी
सर्वालम्बनसंयोगात् सर्वालम्बनवर्जिता
सर्वाकारवरोपेता शून्यता कथिता जिनैः ॥
न चिन्तां चिन्तयेच् चिन्त्याम् अचिन्त्यां नैव चिन्तयेत्
चिन्त्याचिन्त्यां न चिन्तयेत् ततः प्राप्स्यति शून्यताम् ॥
न भावं भावयेद् विद्वान् नाप्य् अभावं विभावयेत्
भावाभावविनिर्मुक्तं भावयेत् तद्विवर्जितः ॥
सर्वाकारवरोपेतां शून्यताग्रहवर्जिताम्
शून्यतां भावयेन् नित्यं मृत्युना नैव दृश्यते ॥
विकल्पमात्रसंभूतं मृत्युं सो ऽपि न पश्यति
अन्यांश् च बहुलान् मारान् संसारं च न पश्यति ॥
मृत्युर् नाम विकल्पो ऽयम् अभावे सर्ववस्तुनः
हन्यते स्वविकल्पेन पृथग्जनविजृम्भितैर् इति ॥
विकल्पः सर्वदुःखानि विकल्पो मृत्युर् उच्यते
विकल्पं हानयेत् तस्मान् निर्विकल्पमना भवेत् ॥
यद् यद् विभाव्यते ऽभीक्ष्णम् आदरादिविशेषितम्
तत् तत् तु स्फुटतां याति कामशोकादिबुद्धिवत् ॥
सुलभानि हि शास्त्राणि प्रयोगास् ते सुदुर्लभाः
प्रयोगज्ञेषु लोकेषु प्रयोगा नैव दुर्लभाः ॥
प्रयोगकुशलः श्राद्धः क्षमावीर्यप्रतिष्ठितः
अनुष्ठानपरः प्राज्ञो मृत्युवञ्चनभाजनम् ॥
श्रमात् पाचनपानादेर् जठरानलदीपनम्
प्रदीप्तवह्नेर् आहारः परिणामो ऽपि शक्तितः ॥
परिणामात् तनोः पुष्टिः पुष्टेर् बलविवर्धनम्
बलात् स्याद् आयुषो वृद्धिस् तद्वृद्धेश् चिरजीवितम् ॥
प्रत्यक्षसिद्धं सर्वेषां यथा नास्त्य् अत्र संशयः
तथोपदेशात् कल्पादि जीवने ऽपि न संशयः ॥
नाशोन्मुखो ऽपि दीपादिस् तैलवर्तिक्षयादिभिः
पुनस् तैलादिसंप्राप्तेः कल्पान्तम् अपि तिष्ठति ॥
यथा तथायं देहो ऽपि म्रियमाणो जरादिभिः
सिद्धोपदेशसंप्राप्तेः कल्पान्तं किं न तिष्ठति ॥
यथा जीर्णस्य गेहस्य संस्कारेण चिरस्थितिः
तथा जीर्णस्य देहस्य संस्कारेण न किं भवेत् ॥
न दुष्करं किं चन विक्रमेण तस्माद् अनिक्षिप्तधुरा यतध्वम्
नित्यप्रवृत्ता विभिनत्ति काले शिलातलं मृद्व् अपि वारिधारा ॥
काष्ठाद् अग्निर् जायते मथ्यमानाद् भूमिस् तोयं खन्यमाना ददाति
सोत्साहानां नास्त्य् असाध्यं नराणां न्यायारब्धाः सर्वयत्नाः फलन्ति ॥
सुबहून्य् अपि विज्ञाय वञ्चनानि मृतेर् इह
अननुष्ठानाद् विष्ठाभिर् लिप्त्वा शय्यां मृता वयम् ॥
प्रयोगकुशला ये च पण्डिताः शास्त्रपारगाः
अननुष्ठानदोषेण दन्तान् निष्काश्य ते मृताः ॥
ज्ञात्वापि योगशास्त्राणि प्रयोगांश् चाप्य् अनेकशः
अद्य श्वो वा करिष्याम इति चिन्तापरा मृताः ॥
इदं कर्तास्मि श्वः पुनर् इदम् इदं चास्य परतो वृथा प्राप्ताश्वासो विमृशति न लोलां भवगतिम्
अगत्वा कार्यान्तं विषय-सलिलावर्तपतिता प्रजा मृत्योर् वक्त्रं मकर-मुखवन् नौः प्रविशति ॥
इति निगदितम् एतद् वञ्चनं मृत्युशत्रोः स्वपरसमयसिद्धध्यानकर्मप्रसाध्यम्
अघृणमरणभीतेर् यत्नतः संविधेयं यत इह कमनीयं जीवितान् नान्यद् अस्ति ॥
वज्रडाकं चतुष्पीठं बुद्धपञ्जरकादि च
कालोत्तरं कालावलीं कालपञ्चाशिकाम् अपि ॥
जीवपञ्चाशिकादीनि शास्त्राण्य् आलोक्य यत्नतः
सत्त्वानुकम्पया प्रोक्तम् इदं मरणवञ्चनम् ॥
शारदचन्द्रनभः परिशुद्धं शुद्धवियच्छशिनाप्य् असमाप्तम्
आप्तम् अतः कुशलं यद् अमृत्युस् तेन जनो ऽस्तु स मृत्युविमुक्तः ॥
गणनाश्रमहानाय लेखकानां तपस्विनाम्
ग्रन्थप्रमाणम् आख्यातं साशीतिकशतत्रयम् ॥
मूल पाठ: Mṛtyuvañcanopadeśa · Edition: Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010. (Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8 · Data entry Johannes Schneider · GRETIL (Göttingen) · CC BY-NC-SA 4.0