भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 1.5

1.5.1

तमःशक्त्यधिकारस्य निवृत्तेस्तत्परिच्युतौ
व्यनक्ति दृक्क्रियानन्त्यं जगद्बन्धुरणोः शिवः ॥

1.5.2

यान्विमोचयति स्वापे शिवाः सद्यो भवन्ति ते
संहृतौ वा समुद्भूताव् अणवः पतयो ऽथवा ॥

1.5.3

रुद्रमन्त्रपतीशान पदभाजो भवन्ति ते
स्थितौ याननुगृह्णाति गुरुमास्थाय चिद्वतः ॥

1.5.4

येषां शरीरिणां शक्तिः पतत्यपि निवृत्तये
तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ द्वेषो भवस्थितौ ॥

1.5.5

भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ
अनेनानुमितिः शिष्ट हेतोः स्थूलधियामपि ॥

1.5.6

पशुदृग्योगसिद्धानां कर्मव्यक्तिद्वयं समम्
ज्येष्ठादिफलयोग्यानां साधिकारासु मुक्तिषु ॥

1.5.7

उपायादरवैशिष्ट्यान् मृग्यते तत्त्रयं पुनः
द्वयोर्व्यक्तिकरः कश्चिच् च्युतिसिद्धिविलक्षितः ॥

1.5.8

ईषदर्धनिवृत्ते तु रोधकत्वे तमःपतेः
भवन्त्येतानि लिङ्गानि किंचिच्छिष्टे च देहिनाम् ॥

1.5.9

योग्यतात्रयमप्येतत् समतीत्य महेश्वरः
स्वापे ऽनुमनुगृह्णाति साधिकारमिदं यतः ॥

1.5.10

सर्गमूले तृतीयायां स्वापवद्भूतसंहृतौ
स यद्व्यपास्य क्रियते तद्विधो यो ऽणुरुच्यते ॥

1.5.11

तथा बीजं शरीरादेः पाचयत्यानिवेशनात्
न योग्यताङ्गमभजत् सद्यः स्यादौषधादिवत् ॥

1.5.12

पाकार्हमपि तत्पक्तुं नेशत्यात्मानमात्मना
धर्मसामान्य एवायं सर्वस्य परिणामिनः ॥

1.5.13

सर्वज्ञः सर्वकर्तृत्वात् साधनाङ्गफलैः सह
यो यज्जानाति कुरुते स तदेवेति सुस्थितम् ॥

1.5.14

तच्चास्यावृतिशून्यत्वान् न व्यञ्जकमपेक्षते
तन्न सांशयिकं तस्माद् विपरीतं न जातुचित् ॥

1.5.15

यानि व्यञ्जकमीक्षन्ते वृतत्वान्मलशक्तिभिः
व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि ॥

1.5.16

नाध्यक्षं नापि तल्लैङ्गं न शाब्दमपि शाङ्करम्
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ॥

1.5.17

तदेकं विषयानन्त्याद् भेदानन्त्यं प्रपद्यते
कर्तृत्वं तदभिन्नत्वात् तद्वदेवोपचारतः ॥

1.5.18

सत्तस्वरूपकरणार्थविधेयदृग्भिर् लेशोदिताभिरिति ये विदुरीशतत्त्वम्
ते मोचयन्ति भविनो भवपङ्कमग्नान् नो विस्तरेण पुरुषाः पशुपाशरूपम् ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc