भाषा

ENहिગુ
ग्रंथ पाठ

मृगेन्द्रागम · अध्याय 1.4

1.4.1

स इत्थंविग्रहो ऽनेन करणेनाहतौजसा
करोति सर्वदा कृत्यं यदा यदुपपद्यते ॥

1.4.2

तत्रादौ केवलाणूनां योग्यानां कुरुते ऽष्टकम्
वामादिशक्तिभिर्युक्तं सप्तकोटिपरिच्छदम् ॥

1.4.3

तेषामनन्तः सूक्ष्मश्च तथा चैव शिवोत्तमः
एकनेत्रैकरुद्रौ च त्रिमूर्तिश्चामितद्युतिः ॥

1.4.4

श्रीकण्ठश्च शिखण्डी च राजराजेश्वरेश्वराः
ईषदप्राप्तयोगत्वान् नियोज्याः परमेष्ठिनः ॥

1.4.5

सर्वज्ञत्वादियोगे ऽपि नियोज्यत्वं मलांशतः
परस्परं विशिष्यन्ते मन्त्राश्चैवमधः स्थिताः ॥

1.4.6

ते च मन्त्रेश्वरव्यक्त शिवशक्तिप्रचोदिताः
कुर्वन्त्यनुग्रहं पुंसां यदा येषां स युज्यते ॥

1.4.7

प्रयोक्तृदेहसापेक्षं तदर्धमखिले ऽध्वनि
कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् ॥

1.4.8

विनाधिकरणेनान्यत् प्रधानविकृतेरधः
कृत्वाधिकारमीशेष्टम् अपैति स्वाध्वसंहृतौ ॥

1.4.9

ततो ऽनन्ताद्यभिव्यक्तः पतीनां ग्रन्थितत्त्वतः
कलाद्यारब्धदेहानां करोत्यष्टादशं शतम् ॥

1.4.10

तानप्याविश्य भगवान् साञ्जनान् भुवनाधिपान्
येभ्यः सर्वमिदं येषां शक्तिः कर्मनिबन्धना ॥

1.4.11

प्रणेतॄण् पशुशास्त्राणां पशूंस्तदनुवर्तकान्
स्वसाध्यकारकोपेतान् कालधामावधिस्थितान् ॥

1.4.12

स्थितौ सकारकानेतान् समाक्रम्य स्वतेजसा
युनक्ति स्वार्थसिद्ध्यर्थं भूतैरनभिलक्षितः ॥

1.4.13

भोगसाधनमाक्षिप्य कृत्वा कारणसंश्रयम्
तच्च सात्मकमाक्रम्य विश्रमायावतिष्ठते ॥

1.4.14

भविनां भवखिन्नानां सर्वभूतहितो यतः
स्वापावसानमासाद्य पुनः प्राग्वत्प्रवर्तते ॥

1.4.15

स्वापे ऽप्यास्ते बोधयन्बोधयोग्यान् रोध्यान्रुन्धन्पाचयन् कर्मिकर्म
मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन्सर्वं यद्यथा वस्तुजातम् ॥

मूल पाठ: Mṛgendrāgama (= Mrgendratantra) · Edition: Madhusudan Kaul Shastri, Bombay (Srinagar) : Nirnayasagara Press, 1930. (Kashmir Series of Texts and Studies 50) and N.R. Bhatt: Mṛgendrāgama (Kriyāpāda et Caryāpāda), avec le commentaire de Bhaṭṭa-Nārāyaṇakaṇṭha. Pondicherry : Institut Français d'Indologie, 1962. (Publications de l'Institut Français d'Indologie, 23) · Data entry Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc