मोक्षोपायटीका · अध्याय 2.13
एतां दृष्टिम् अवष्टभ्य पुष्टात्मानः सुबुद्धयः ।
विचरन्त्य् असमुन्नद्धा (आ)असम्° महान्तो ऽभ्युदिता इव ॥
न शोचन्ति न याचन्ते न वाञ्छन्ति शुभाशुभम् ।
सर्वम् एव च कुर्वन्ति कुर्वन्ति न च किंचन ॥
स्वस्थम् एवावतिष्ठन्ति स्वस्थं कुर्वन्ति यान्ति च ।
हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥
आयान्ति च न चायान्ति वनं यान्ति न यान्ति च ।
न कुर्वन्त्य् अपि कुर्वन्ति न वदन्ति वदन्ति च ॥
ये केचन समारम्भा याश् च काश्चन दृष्टयः ।
हेयादेयदृशो यास् ताः क्षीयन्ते ऽधिगते पदे ॥
परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् ।
सर्वतः सुखम् अभ्येति चन्द्रबिम्ब इव स्थितम् ॥
अपि निर्मननारम्भम् अप्य् अस्ताखिलकौतुकम् ।
आत्मन्य् एव न मात्य् अन्तर् इन्दाव् इव रसायनम् ॥
न करोतीन्द्रजालानि नानुधावति वासनाम् ।
बालचापलम् उत्सृज्य पूर्णम् एव विराजते ॥
स्वानुभूतेः सुशास्त्रस्य गुरोश् चैवैकवाक्यता ।
यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥
अवहेलितशास्त्रार्थैर् अवज्ञातमहाजनैः °म⟨न्⟩*ह्*आ° ।
कष्टाम् कष्ट्⟨अ⟩[आ]म् अप्य् आपदं प्राप्तो न मूढैः समताम् इयात् ॥
न व्याधिर् न विषं नापत् तथा नामास्ति भूतले ।
खेदाय स्वशरीरस्थं मौर्ख्यम् एव यथा नृणाम् ॥
किंचित्संस्कृतबुद्धीनां श्रव्यं शास्त्रम् इदं यथा ।
मौर्ख्यापहं तथा शास्त्रम् अन्यद् अस्ति न किंचन ॥
इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् ।
अविरुद्धम् अशेषेण शास्त्रवाक्यार्थबन्धुना ॥
आपदो या दुरुत्तारा याश् च तुच्छाः कुयोनयः ।
तास् ता मौर्ख्यात् प्रसूयन्ते खदिरात् कण्ठका इव ॥
वरं शरावहस्तस्य चण्डालागारवीथिषु ।
भिक्षार्थम् अटनं राम न मौर्ख्यहतजीवितम् ॥
इमम् आलोकम् आसाद्य मोक्षोपायमयं जनः ।
अन्धताम् एति न पुनः कश्चिन् मोहतमस्य् अपि ॥
तावन् नयति संकोचं तृष्णा श्यामा नराम्बुजम् ।
यावद् विवेकसूर्यस्य नोदिता विमला प्रभा ॥
संसारदुःखमोक्षार्थं मादृशैः सह बन्धुभिः ।
स्वरूपम् आत्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥
जीवन्मुक्ताश् चरन्तीह यथा हरिहरादयः ।
यथा ब्रह्मर्षयश् चान्ये तथा विहर राघव ॥
अनन्तानीह दुःखानि सुखं क्षणलवोपमम् ।
नातः सुखेषु बध्नीयाद् दृष्टिं दुःखानुबन्धिषु ॥
यद् अनन्तम् अनायासं तत् पदं सारसिद्धये ।
साधनीयं प्रयत्नेन पुरुषेण विजानता ॥
त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।
अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥
संभोगाशनमात्रेषु राज्यादिषु सुखेषु ये ।
संतुष्टा दुष्टमनसो विद्धि तान् अन्धदुन्दुभान् ॥
ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।
द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥
ते यान्ति दुर्गमाद् दुर्गं दुःखाद् दुःखं भयाद् भयम् ।
नरकान् नरकं मूढा मोहमन्थरबुद्धयः ॥
परस्परविनाशोत्के श्रेयस्यौ न कदाचन ।
सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥
ये विरक्ता महात्मानः सुविविक्ता भवादृशः ।
पुरुषान् विद्धि तान् वन्द्यान् भोगमोक्षैकभागिनः ॥
विवेकं परम् आश्रित्य वैराग्याभ्यासयोगतः °आभ्य्*आ*स° ।
संसारसरितं घोराम् इमाम् आपदम् उत्तरेत् ॥
न सुप्तव्यं तु संसारमायास्व् इह हि जानता ।
विषमूर्च्छनसंमोहदायिनीषु विवेकिना ॥
संसारम् इमम् आसाद्य यस् तिष्ठत्य् अवहेलया ।
ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य सो ऽन्तरे ॥
यत् प्राप्य न निवर्तन्ते यद् आसाद्य न शोच्यते ।
तत् पदं शेमुषीलभ्यम् अस्त्य् एवात्र न संशयः ॥
नास्ति चेत् तद् विचारेण दोषः को भवतां भवेत् ।
अस्ति चेत् तत् समुत्तीर्णा भविष्यथ भवार्णवात् ॥
प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।
यदा भवत्य् आशु तदा मोक्षभागी स उच्यते ॥
अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।
न विना केवलीभावं विद्यते भुवनत्रये ॥
तत्प्राप्ताव् उत्तमप्राप्तौ न क्लेश उपयुज्यते ।
न मित्राण्य् उपकुर्वन्ति न धनानि न बान्धवाः ॥
न हस्तपादचलनं न देशान्तरसंगमः ।
क्लेशातिशयसाध्यो वा न तीर्थायतनाश्रयः ॥
पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।
केवलं तन् मनोमात्रजयेनासाद्यते पदम् ॥
विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।
त्यजता दुःखजालानि नरेण तद् अवाप्यते ॥
सुखसेव्यासनस्थेन तद्विचारवता स्वयम् ।
न शोच्यते पदं प्राप्य न च भूयो ऽभिजायते ॥
तत् समस्तसुखासारसीमान्तं साधवो विदुः ।
तद् अनुत्तमनिष्ष्यन्दं परम् आहू रसायनम् ॥
क्षयित्वात् सर्वभावानां स्वर्गमानुष्ययोर् द्वयोः ।
सुखं नास्त्य् एव सलिलं मृगतृष्णास्व् इवैतयोः ॥
अतो मनोजयश् चिन्त्यः शमसंतोषसाधनः ।
अनन्तशमसंभोगस् तस्माद् आनन्द आप्यते ॥
जीवता गच्छता चैव भ्रमता पतता तथा ।
रक्षसा दानवेनापि देवेन पुरुषेण वा ॥
मनःप्रशमनोद्भूतं तत् प्राप्य परमं सुखं ।
विकासिशमपुष्पस्य विवेकोच्चतरोः °ओ⟨श्⟩[च्]च° फलम् ॥
व्यवहारपरेणापि कार्यवृन्दम् अचिन्वता ।
भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छ्यते ॥
मनः प्रशान्तम् अत्यच्छं विश्रान्तं गतविभ्रमम् ।
अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥
मोक्षद्वारे द्वारपालान् इमाञ् शृणु यथाक्रमम् ।
येषाम् एकतमासक्त्या मोक्षद्वारे प्रविश्यते ॥
दुःखदोषदशा दीर्घा संसारमरुमण्डली ।
जन्तोः शीतलताम् एति शीतलेन शमाम्बुना ॥
शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।
शमः शिवं शमः शान्तिः शमो भ्रान्तिनिवारणम् ॥
पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।
शमतोषितचित्तस्य शत्रुर् अप्य् एति मित्रताम् ॥
शमचन्द्रमसा येषाम् °षा⟨ं⟩म् आशयः समलंकृतः ।
क्षीराब्धीनाम् इवोदेति तेषां परमशुद्धता ॥
हृत्कुशेशयकोशेषु येषां शमकुशेशयम् °कु⟨ल्⟩[श्]एश° ।
सतां विकसितं °क्(आ)असि° ते हि द्विहृत्पद्माः समा हरेः ॥
शमश्रीः शोभते येषां मुखेन्दाव् अकलङ्किते ।
ते ऽमी कुलेन्दवो वन्द्याः सौन्दर्यविजितेन्दवः ॥
त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।
साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः ॥
यानि दुःखानि यास् तृष्णा दुःसहा ये दुराधयः ।
तत् सर्वं शान्तचेतस्सु तमो ऽर्केष्व् इव नश्यति ॥
मनो हि सर्वभूतानां प्रसादम् अनुगच्छति ।
न तथेन्दौ यथा शान्ते जने जनितकौतुकम् ॥
शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।
सुजने परमं तत्त्वं स्वयम् एव प्रसीदति ॥
मातरीव परं यान्ति विषमाणि मृदूनि च ।
विश्वासम् इह भूतानि सर्वाणि शमशालिनि ॥
न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।
तथा सुखम् अवाप्नोति शमेनान्तर् यथा जनः ॥
सर्वाधिव्याधिवलितं °व्या⟨ल्⟩[ध्]इ° क्रान्तं तृष्णावरत्रया ।
मनः शमामृतासेकैः °कै[ः] समाश्वासय राघव ॥
यत् करोषि यद् अश्नासि शमशीतलया धिया ।
तत् ते ऽतिस्वदते स्वादु नेतरत् तान्तमानसम् ॥
शमामृतरसास्नातं °रस्⟨अ⟩[आ]स्ना° मनो याम् एति निर्वृतिम् ।
छिन्नान्य् अपि तयाङ्गानि मन्ये रोहन्ति राघव ॥
न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।
न च व्याघ्रभुजङ्गाद्या द्विषन्ति शमशालिनम् ॥
सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।
वेधयन्ति न दुःखानि शरा वज्रशिलां इव ॥
न तथा राजते राजा मान्यान्तःपुरसंस्थितः ।
समया स्वस्थया वृत्त्या यथोपशमशोभितः ॥
प्राणात् प्रियतरं दृष्ट्वा तुष्टिम् एति न तां जनः ।
याम् आयाति जनं शान्तम् °त⟨ं⟩म् अवलोक्य समाशयम् ॥
समया शमशालिन्या वृत्त्या यः साधु वर्तते ।
अभिनन्दितया लोके जीवतीह स नेतरः ॥
अनुद्धतमनाः शान्तः साधु कर्म करोति यत् ।
तत् सर्वम् अभिनन्दन्ति तस्येमा भूतजातयः ॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥
यः समः सर्वभावेषु नाभिवाञ्छति नोज्झति ।
जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥
तुषारकरबिम्बाच्छं मनो यस्य निराकुलम् ।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥
स्थितो ऽपि न स्थित इव न हृष्यति न कुप्यति ।
यः सुषुप्तमनाः स्वस्थः स शान्त इति कथ्यते ॥
अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।
दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥
स्पष्टावदातया बुद्ध्या यथैवान्तस् तथा बहिः ।
दृश्यन्ते यस्य कार्याणि स शान्त इति कथ्यते ॥
अप्य् आपत्सु दुरन्तासु कल्पान्तेषु दहत्स्व् अपि ।
तुच्छेहं न मनो यस्य स शान्त इति कथ्यते ॥
यो ऽन्तः शीतलतां यातो या(ं)तो यो भावेषु न मज्जति ।
व्यवहारी न संमूढः स शान्त इति कथ्यते ॥
आकाशसदृशी यस्य नित्यं स्वव्यवहारिणः ।
कलङ्कम् एति न मतिः स शान्त इति कथ्यते ॥
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
बलवत्सु गुणाढ्येषु शमवान् एव राजते ॥
शमसंसक्तमनसां महतां गुणशालिनाम् ।
उदेति निर्वृतिश् चित्ताज् ज्योत्स्नेव हिमरोचिषः ॥
सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।
संकटेष्व् अभयस्थानं शमः श्रीमान् विराजते ॥
शमम् अमृतम् अहार्यम् आर्यजुष्टं परम् अवलम्ब्य पदं परं प्रयाताः ।
रघुतनय यथा महानुभावाः क्रमम् अनुपालय सिद्धये तम् एव ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0