भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.6

1.6.1

श्4: ओं तच् छ्रुत्वा राजसिंहस्य वाक्यम् अद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रो ऽभ्यभाषत ॥

1.6.2

सदृशं राजशार्दूल तवैवैतन् महीतले ।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥

1.6.3

यत् तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् ।
कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥

1.6.4

अहं नियमम् आतिष्ठे सिद्ध्यर्थम् पुरुषर्षभ ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥

1.6.5

यदा यदा तु यज्ञेन यजे ऽहं विबुधव्रजम् ।
तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः ॥

1.6.6

बहुशो विहिते न्11: °हते तस्मिन् मम राक्षसनायकाः ।
अकिरंस् ते महीं यागे मांसेन रुधिरेण च ॥

1.6.7

अवधूते तथाभूते तस्मिन् यागकदम्बके ।
कृतश्रमो निरुत्साहस् तस्माद् देशाद् अपागमम् ॥

1.6.8

न च मे क्रोधम् उत्स्रष्टुम् न्11, श्4: °सृष्टुं बुद्धिर् भवति पार्थिव ।
तथाभूतं हि तत् कर्म न शापस् तस्य विद्यते ॥

1.6.9

ईदृशी च क्षमा राजन् मम तस्मिन् महाक्रतौ ।
त्वत्प्रसादाद् अविघ्नेन प्रापयेयम् महाफलम् ॥

1.6.10

त्रातुम् अर्हसि माम् आर्तं शरणार्थिनम् आगतम् ।
अर्थिनां यन् निराशत्वं सताम् अभिभवो हि सः ॥

1.6.11

तवास्ति तनयः श्रीमान् दृप्तशार्दूलविक्रमः ।
महेन्द्रसदृशो वीरो रामो रक्षोविदारणः ॥

1.6.12

तम् पुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठम् मे दातुम् अर्हसि ॥

1.6.13

शक्तो ह्य् एष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा ये ऽपकर्तारस् तेषाम् मूर्धविनिग्रहे ॥

1.6.14

श्रेयश् चास्मिन् करिष्यामि बहुरूपम् अनन्तकम् ।
त्रयाणाम् अपि लोकानां येन पूज्यो भविष्यति ॥

1.6.15

न च तेन समासाद्य स्थातुं शक्ता निशाचराः ।
क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः न्11: °क्*आ*ः ॥

1.6.16

तेषां च नान्यः काकुत्स्थाद् न्11: °स्थ्याद् योद्धुम् उत्सहते पुमान् ।
ऋते केसरिणः क्रुद्धान् मत्तानां करिणाम् इव ॥

1.6.17

वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
खरदूषणयोर् श्4: °षयोः भृत्याः कृतान्ताः कुपिता इव ॥

1.6.18

रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
अनारतागता धारा जलदस्येव न्11, श्4: °स्यैव पांसवः ॥

1.6.19

न च पुत्रगतं स्नेहं कर्तुम् अर्हसि पार्थिव ।
न तद् अस्ति जगत्य् अस्मिन् यन् न देयम् महात्मनः ॥

1.6.20

हन्त नूनं विजानामि हतांस् तान् विद्धि राक्षसान् ।
न ह्य् अस्मदादयः प्राज्ञाः श्4: °ज्ञा सन्दिग्धे सम्प्रवृत्तयः ॥

1.6.21

अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।
वसिष्ठश् च महातेजा ये चान्ये दीर्घदर्शिनः ॥

1.6.22

यदि धर्मो महत्त्वं च यशस् ते मनसि स्थितम् ।
तन् मह्यं स्वम् अभिप्रेतम् आत्मजं दातुम् अर्हसि ॥

1.6.23

दशरात्रश् च मे यज्ञो यस्मिन् रामेण राक्षसाः ।
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥

1.6.24

अत्राभ्यनुज्ञां काकुत्स्थ ददताम् तव मन्त्रिणः ।
वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥

1.6.25

नात्येति कालः कालज्ञ यथायम् मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥

1.6.26

कार्यम् अण्व् अपि काले तु कृतम् एत्य् उपकारताम् ।
महद् अप्य् उपकारेण रिक्तताम् एत्य् अकालतः ॥

1.6.27

इत्य् एवम् उक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो मुनीश्वरः श्4: °राः ॥

1.6.28

श्रुत्वा वचो मुनिवरस्य महाप्रभावस् तूष्णीम् अतिष्ठद् उपपन्नम् इदं स वक्तुम् ।
नो युक्तियुक्तकथनेन विनैति तोषं धीमान् अपूरितमनोऽभिमतश् च लोकः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc