भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.5

1.5.1

इत्य् उक्ते न्11, श्4: °क्तो मुनिनाथेन सन्देहवति पार्थिवे ।
खेदवत्य् श्4: खेटा°; न्11: खेट° आस्थिते मौनं कञ्चित् कालम् प्रतीक्षिणि ॥

1.5.2

परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु ।
स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥

1.5.3

एतस्मिन्न् एव काले तु विश्वामित्र इति श्रुतः ।
महर्षिर् आगमद् द्रष्टुं तम् अयोध्यां नराधिपम् ॥

1.5.4

तस्य यज्ञो ऽथ रक्षोभिस् तदा विलुलुपे किल ।
मायावीर्यबलोन्मत्तैर् धर्मकामस्य धीमतः ॥

1.5.5

रक्षार्थं तस्य यज्ञस्य द्रष्टुम् ऐच्छत् स पार्थिवम् ।
न हि शक्तो ह्य् अविघ्नेन तम् आप्तुं स मुनिः क्रतुम् ॥

1.5.6

ततस् तेषां विनाशार्थम् उद्यतस् तपसां निधिः ।
विश्वामित्रो महातेजा अयोध्याम् अभ्ययात् पुरीम् ॥

1.5.7

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षान् उवाच ह ।
शीघ्रम् आख्यात माम् प्राप्तं कौशिकं गाधिनः सुतम् ॥

1.5.8

तस्य तद् वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः ।
सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥

1.5.9

ते गत्वा राजभवनं विश्वामित्रम् ऋषिं ततः ।
प्राप्तम् आवेदयाम् आसुः प्रतीहारपतिं तदा ॥

1.5.10

अथास्थानगतम् भूपं राजमण्डलम् आस्थितम् ।
समुपेत्य त्वरायुक्तो याष्टीको ऽसौ व्यजिज्ञपत् ॥

1.5.11

देव द्वारि महातेजा बालभास्करसन्निभः ।
ज्वालारुणजटाजूटः पुमाञ् श्रीमान् अवस्थितः ॥

1.5.12

स चामरपताकाढ्यं साश्वेभपुरुषायुधम् ।
कृतवांस् तम् प्रदेशं यस् तेजोभिः कीर्णकाञ्चनम् ॥

1.5.13

वक्त्य् अस्मान् आशु याष्टीका निवेदयत राजनि ।
विश्वामित्रो मुनिः प्राप्त इत्य् अनुद्धतया गिरा ॥

1.5.14

इति याष्टीकवचनम् आकर्ण्य नृपसत्तमः ।
स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात् ॥

1.5.15

पदातिर् एव महतां राज्ञां वृन्देन पालितः ।
वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥

1.5.16

जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।
ददर्श मुनिशार्दूलं द्वारभूमाव् अधिष्ठितम् ॥

1.5.17

केनापि कारणेनोर्वीतलम् अर्कम् इवागतम् ।
ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥

1.5.18

जराजरढया न्11: °*ढ*° नित्यं तपःप्रसररूक्षया न्11: °रं तू° ।
जटावल्ल्या न्11, श्4: °वल्या वृतस्कन्धं ससन्ध्याभ्रम् इवाचलम् ॥

1.5.19

उपशान्तं च कान्तं च दीप्तम् अप्रतिघं तथा ।
निभृतं चोर्जिताकारं दधानम् भास्वरं न्11: भासु° वपुः ॥

1.5.20

पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।
गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम् ॥

1.5.21

अनन्तजीवितदशासखीम् एकाम् अनिन्दिताम् ।
धारयन्तं करे श्लक्ष्णां वीणाम् अम्लानमानसम् ॥

1.5.22

करुणाक्रान्तचेतस्त्वात् प्रसन्नमधुरेक्षितैः ।
ईक्षणैर् अमृतेनेव न्11, श्4: °नैव संसिञ्चन्तम् इमाः प्रजाः ॥

1.5.23

सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् ।
आनन्दं च भयं चान्तः प्रयच्छन्तम् अवेक्षितुः ॥

1.5.24

मुनिम् आलोक्य भूपालो दूराद् एवानताकृतिः श्4: °आनना ।
प्रणनाम गलन्मौलिमणिमालितभूतलम् श्4: °मानित° ॥

1.5.25

मुनिर् अप्य् अवनेर् ईशम् भास्वान् इव शतक्रतुम् ।
तत्राभिवादयां चक्रे मधुरोदारया गिरा ॥

1.5.26

ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः ।
स्वागतादिक्रमेणैनम् पूजयाम् आसुर् आदृताः ॥

1.5.27

अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।
साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥

1.5.28

यद् अनादि यद् अक्षुब्धं यद् अपायविवर्जितम् ।
तद् आनन्दसुखम् प्राप्ता न्11: °प्त्*आ* अद्य त्वद्दर्शनान् मुने ॥

1.5.29

अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः ।
भवदागमनस्येमे यद् वयं लक्ष्यतां गताः ॥

1.5.30

एवम् प्रकथयन्तो ऽत्र राजानो ऽथ महर्षयः ।
आसनेषु सभास्थानम् आस्थाय समुपाविशन् ॥

1.5.31

स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस् तम् ऋषिम् आगतम् ।
प्रहृष्टवदनो राजा स्वयम् अर्घ्यं न्यवेदयत् ॥

1.5.32

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।
प्रदक्षिणम् प्रकुर्वन्तं राजानम् पर्यपूजयत् ॥

1.5.33

स राज्ञा पूजितस् तेन प्रहृष्टवदनस् तदा ।
कुशलं चाव्ययं चैव श्4: कुशलं च -- चैव; न्11: ...च्(आ)अपियं चैव; wइर् wइए श्1, श्3, न्10 पर्यपृच्छन् नराधिपम् ॥

1.5.34

वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः ।
यथार्हं चार्चयित्वैनम् पप्रच्छानामयं ततः ॥

1.5.35

क्षणं यथार्हम् अन्योऽन्यम् पूजयित्वा समेत्य च ।
ते सर्वे हृष्टमनसो महाराजनिवेशने ॥

1.5.36

यथोचितासनगता मिथः संवृद्धतेजसः ।
परस्परेण पप्रच्छुः सर्वे ऽनामयम् आदरात् ॥

1.5.37

उपविष्टाय तस्मै स विश्वामित्राय धीमते ।
पाद्यम् अर्घ्यं च गाश् चैव न्11: चै भूयो भूयो न्यवेदयत् ॥

1.5.38

अर्चयित्वा च विधिवद् विश्वामित्रम् अभाषत ।
प्राञ्जलिः प्रयतो वाक्यम् इदम् प्रीतमना नृपः ॥

1.5.39

यथामृतस्य सम्प्राप्तिर् यथा वर्षम् अवर्षके ।
यथान्धस्येक्षणप्राप्तिर् भवदागमनं श्4: °ने तथा ॥

1.5.40

यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः ।
स्वप्नदृष्टार्थलाभश् च भवदागमनं तथा ॥

1.5.41

यथेप्सितेन संयोग इष्टस्यागमनं यथा ।
प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥

1.5.42

यथा हर्षो नभोगत्या मृतस्य पुनर् आगमात् ।
तथा त्वदागमाद् ब्रह्मन् स्वागतं ते न्11: *ते* महामुने ॥

1.5.43

ब्रह्मलोकनिवासो हि कस्य न प्रीतिम् आवहेत् ।
मुने न्11, श्4: मुनेस् तवागमस् तद्वत् सत्यम् एव ब्रवीमि ते ॥

1.5.44

कश् च ते परमः कामः किं च ते करवाण्य् अहम् ।
पात्रभूतो ऽसि मे विप्र प्राप्तः परमधार्मिकः ॥

1.5.45

पूर्वं न्11, श्4: पूज्यो राजर्षिशब्देन तपसा द्योतितप्रजः ।
ब्रह्मर्षित्वम् अनु प्राप्तः पूज्यो ऽसि भगवन् मम ॥

1.5.46

गङ्गाजलाभिषेकेण यथा प्रीतिर् भवेन् मम ।
तथा त्वद्दर्शनात् प्रीतिर् अन्तः शीतयतीव माम् ॥

1.5.47

विगतेच्छाभयक्रोधो वीतरागो निरामयः ।
इदम् अत्यद्भुतम् ब्रह्मन् यद् भवान् माम् उपागतः ॥

1.5.48

शुभक्षेत्रगतं चाहम् आत्मानम् अपकल्मषम् ।
चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर ॥

1.5.49

साक्षाद् इव ब्रह्मणो मे तवाभ्यागमनम् मतम् ।
पूतो ऽस्म्य् अनुगृहीतो ऽस्मि तवाभ्यागमनान् मुने ॥

1.5.50

त्वदागमनपुण्येन साधो यद् अनुरञ्जितम् ।
अद्य मे सफलं जन्म जीवितं तत् सुजीवितम् ॥

1.5.51

त्वाम् इहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।
आत्मन्य् एव नमाम्य् अन्तर् दृष्टेन्दुर् जलधिर् न्11: दृष्टेर् दुर्° यथा ॥

1.5.52

यत् कार्यं येन चार्थेन प्राप्तो ऽसि मुनिपुङ्गव ।
कृतम् इत्य् एव तद् विद्धि मान्यो ऽसि हि भृशम् मम ॥

1.5.53

स्वकार्येण विमर्शं त्वं कर्तुम् अर्हसि कौशिक ।
भगवन् नास्त्य् अदेयं हि त्वयि यत् प्रतिपद्यते श्4: यद् उपयुज्यते; न्11: प्रतिपद्यते *उपयुज्यते* ॥

1.5.54

कार्यस्य च विचारं त्वं कर्तुम् अर्हसि धर्मतः ।
कर्ता चाहम् न्11, श्4: वा° अशेषं ते दैवतम् परमम् भवान् ॥

1.5.55

इदम् अतिमधुरं निशम्य वाक्यं श्रुतिसुखम् अर्थविदा विनीतम् उक्तम् ।
प्रथितगुणवशाद् गुणैर् विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc