भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.7

1.7.1

न्11: ओं तच् छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तम् आसीन् निश्चेष्टः सदैन्यं चैवम् अब्रवीत् ॥

1.7.2

ऊनषोडशवर्षो ऽयं रामो राजीवलोचनः ।
न युद्धयोग्यताम् अस्य पश्यामि सह राक्षसैः ॥

1.7.3

इयम् अक्षौहिणी पूर्णा यस्याः पतिर् अहम् प्रभो ।
तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥

1.7.4

इमे हि श्4: ओम्. हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः ।
अहं चैषां धनुष्पाणिर् गोप्ता समरमूर्धनि ॥

1.7.5

एभिः सह तवारीणाम् महेन्द्रमहताम् अपि ।
ददामि युद्धम् मत्तानां करिणाम् इव केसरी ॥

1.7.6

बालो रामस् त्व् अनीकेषु न जानाति बलाबलम् ।
अन्तःपुराद् ऋते दृष्टा नानेनान्या रणावनिः न्11: रणा(द् बहिः)*वनिः* ॥

1.7.7

न चास्त्रैः परमैर् युक्तो न च युद्धविशारदः श्4: बुद्धिवि° ।
न भटभ्रूकुटीनां च तज्ज्ञः समरमूर्धसु ॥

1.7.8

केवलम् पुष्पषण्डेषु नगरोपवनेषु च ।
उद्यानवनकुञ्जेषु सदैव परिशीलितः ॥

1.7.9

विहर्तुम् एष जानाति सह राजकुमारकैः ।
कीर्णपुष्पोपकारासु स्वकास्व् अजिरभूमिषु ॥

1.7.10

अद्य त्व् अतितराम् ब्रह्मन् मम न्11: ब्रह्म*न्*(हे)*म*म भाग्यविपर्ययात् ।
हिमेनेवाहतः पद्मस् सम्पन्नो हरितः कृशः ॥

1.7.11

नात्तुम् अन्नानि शक्नोति न विहर्तुं गृहावनौ ।
अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥

1.7.12

सदारः सहभृत्यो ऽहं तत्कृते मुनिनायक ।
शरदीव पयोवाहो नूनं निःसहतां गतः ॥

1.7.13

ईदृशो ऽसौ सुतो बाल आधिना विवशीकृतः ।
कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥

1.7.14

अपि बालाङ्गनासङ्गाद् अपि साधो सुधारसात् ।
राज्याद् अपि सुखायैष पुत्रस्नेहो महामते ॥

1.7.15

ये दुरन्ता महारम्भास् त्रिषु लोकेषु खेददाः ।
पुत्रस्नेहेन सन्तो ऽपि कुर्वते ते न संश्रयम् ॥

1.7.16

असवो ऽथ धनं दारास् त्यज्यन्ते मानवैः सुखम् ।
न पुत्रा मुनिशार्दूल स्वभावो ह्य् एष जन्तुषु ॥

1.7.17

राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः ।
रामस् तान् योधयत्व् श्4: °यित्व् इत्थम् उक्तिर् एवातिदुःसहा ॥

1.7.18

विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे ।
जीवितुं जीविताकाङ्क्षी न रामं नेतुम् अर्हसि ॥

1.7.19

नववर्षसहस्राणि मम यातानि कौशिक ।
दुःखेनोत्पादितास् त्व् एते चत्वारः पुत्रका मया न्11: माया ॥

1.7.20

प्रधानभूतस् तेष्व् श्4: त्व् एष्व् एषु रामः कमललोचनः ।
तं विना ते त्रयो ऽप्य् अन्ये धारयन्ति न जीवितम् ॥

1.7.21

स एव रामो भवता नीयते न्11: °त्(ओ)*ए* राक्षसान् प्रति ।
यदि तत् पुत्रहीनं त्वम् मृतम् एवाशु विद्धि माम् ॥

1.7.22

चतुर्णाम् आत्मजानां हि प्रीतिर् अत्र हि मे परा ।
ज्येष्ठं धर्ममयं तस्मान् न रामं नेतुम् अर्हसि ॥

1.7.23

निशाचरबलं हन्तुम् मुने यदि तवेप्सितम् ।
चतुरङ्गसमायुक्तं मया सह बलं नय ॥

1.7.24

किंवीर्या राक्षसास् ते तु कस्य पुत्राः कथं च ते ।
कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम् ॥

1.7.25

कथं तेन प्रहर्तव्यं तेषां रामेण राक्षसाम् ।
मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम् ॥

1.7.26

सर्वम् मे शंस भगवन् यथा तेषाम् मया रणे ।
स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः ॥

1.7.27

श्रूयते हि महावीरो रावणो नाम राक्षसः ।
साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥

1.7.28

स चेत् तव मखे विघ्नं करोति किल दुर्मतिः ।
तत् सङ्ग्रामे न शक्ताः ऽस्मो वयं तस्य दुरात्मनः ॥

1.7.29

काले काले पृथग् ब्रह्मन् भूरिवीर्यविभूतयः । ।
भूतेष्व् अभ्युदयं यान्ति प्रलीयन्ते च कालतः ॥

1.7.30

अद्यास्मिंस् ते वयं काले रावणादिषु शत्रुषु ।
न समर्थाः पुरः स्थातुं नियतेर् एष निश्चयः ॥

1.7.31

तस्मात् प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके ।
मम चैवाल्पभाग्यस्य भवान् ह्य् असमदैवतम् ॥

1.7.32

देवदानवगन्धर्वा यक्षप्लवगपन्नगाः ।
न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥

1.7.33

महावीर्यवतां वीर्यम् आदत्ते न्11, श्4: आध° स सुधाभुजाम् ।
तेन सार्धं न शक्ता स्मस् न्11: स्म संयुगे तस्य वावराः ॥

1.7.34

अयम् अन्यतमः कालः पेलवीकृतसज्जनः ।
राघवो ऽपि गतो दैन्यं यत्र वार्धकजर्जरः ॥

1.7.35

अथ वा लवणम् ब्रह्मन् यज्ञघ्नं तम् मधोः सुतम् ।
कथय त्वं सुरप्रख्य क्वेव मोक्ष्यामि पुत्रकम् ॥

1.7.36

अथ नेच्छसि चेद् ब्रह्मंस् तद् विधेयो ऽहम् एव ते ।
अन्यथा तु न पश्यामि शाश्वतं जयम् आत्मनः ॥

1.7.37

इत्य् उक्त्वा मृदुवचनम् भयाकुलो ऽसाव् आलोले मुनिमतसंशये निमग्नः ।
नाज्ञासीत् कणम् अपि निश्चयं महात्मा प्रोद्वीचाव् इव जलधौ समुह्यमानः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc