मोक्षोपायटीका · अध्याय 1.4
न्11: ओं अथोनषोडशे वर्षे वर्तमाने रघूद्वहे ।
रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणे ऽपि च ॥
भरते संस्थिते नित्यम् मातामहगृहे सुखम् ।
पालयत्य् अवनिं राज्ञि यथावद् अखिलाम् इमाम् ॥
जन्यत्रार्थं च पुत्राणाम् प्रत्यहं सह मन्त्रिभिः ।
कृतमन्त्रे महाप्राज्ञे न्11, श्4: °प्र° तज्ज्ञे दशरथे नृपे ॥
कृतायां तीर्थयात्रायां रामो निजगृहस्थितः ।
जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥
क्रमाद् अस्य विशालाक्षम् पाण्डुताम् मुखम् आदधे ।
पाकफुल्लदलं शुक्लं सालिमालम् इवाम्बुजम् ॥
कपोलतलसंलीनपाणिः पद्मासनस्थितः ।
चिन्तापरवशस् तूष्णीम् अव्यापारो बभूव सः ॥
कृशाङ्गश् चिन्तया युक्तः खेदी परमदुर्मनाः ।
नोवाच कस्यचित् किञ्चिल् लिपिकर्मार्पितोपमः ॥
खेदात् परिजनेनासौ प्रार्थ्यमानः पुनः पुनः ।
चकाराह्निकम् आचारम् परिम्लानमुखाम्बुजः ॥
एवम् मुनिविशिष्टं तं रामं गुणगणाकरम् ।
आलोक्य भ्रातराव् अस्य ताम् एवाययतुर् दशाम् ॥
तथा तेषु तनूजेषु खेदवत्सु कृशेषु च ।
सपत्नीको महीपालश् चिन्ताविवशतां ययौ ॥
का ते पुत्र घना चिन्तेत्य् एवं रामम् पुनः पुनः ।
अपृच्छत् स्निग्धया वाचा न चाकथयद् अस्य सः ॥
न किञ्चित् तात मे दुःकम् इत्य् उक्त्वा पितुर् अङ्कगः ।
रामो राजीवपत्राक्षस् तूष्णीम् एव स्म तिष्ठति ॥
ततो दशरथो राजा रामः किं खेदवान् इति ।
अपृच्छत् सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥
अस्त्य् अत्र कारणं श्रीमन् मा राजन् दुःखम् अस्तु ते ।
इत्य् उक्तश् चिन्तया युक्तो वसिष्ठमुनिना नृपः ॥
कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति सन्तः ।
सर्गेण संहतिजवेन विना जगत्याम् भूतानि भूप न महान्ति विकारयन्ति ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0